Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः यदैव स्थितिस्तदैवास्थितिः स्यात्, कुतः क्षणस्थितिधर्मकत्वम् इति । सत्यां वा स्थिती, क्षणस्थायित्वे तयां स्थित्या विरोधात्, प्रथमक्षणवत् सदा स्थितिप्रसङ्गः । न च 'निरंशतत्वभावेभ्यो हेतुभ्यस्तत्स्वभावमेवोत्पद्यते,' इत्युच्यमानं विद्ध ज्जनसमवाये राजते, युक्तिवैकल्याद्, उभयत्र कारणे कार्य च स्वभावान्तरकल्पनाया अपि शक्यत्वात् । __ स्यादेतदू, अशक्या स्वभावान्तरकल्पना, अर्थक्रियाऽभावप्रसङ्गात्, इति । एतदप्यभद्रकम्, क्षणस्थितिधैर्मक एव वस्तुतस्तदभावप्रसङ्गात; तथाहि-यथोक्तस्वभावं वस्त्वेवार्थक्रिया, यथोक्तम् -' भूतिर्येषां क्रिया सैव' इत्यादि, तञ्च न घटामटति, इति निदर्शितमेतद्, अलं विस्तरणेति । . १. इदमुक्तं भवति, यदि द्वितीयादिक्षणे तदेव न भवति इति कोऽर्थः? क्षणनश्वरं वस्त्वभ्युपगम्यते, तदोक्त नीत्या 'यदैव स्थितिस्तदैवास्थितिः इति, क्षणमात्रमपि वस्तुनः स्थितिर्न स्यात् । अथैवं वक्षि-यथा 'क्षणनश्वरं वस्त्वभ्युपगम्यते, तथा क्षणस्थाय्यपि, क्षणस्थायित्वं स्थितौ सत्यां सम्भवति,' इति 'यदैव स्थितिः तदैवास्थितिः' इतिः दोपाभावः, न, एवं सति या प्रथमक्षणस्थितिर्वस्तुनः, एवं द्वितीयादिक्षणेष्वपि सदा स्थितिः प्रसज्यते, तया स्थित्या सह द्वितीयादिक्षणानामप्यविरोधात् । २. प्रथमक्षणभाविन्या। ३. क्षणस्थितिधर्मक । ४. क्षणस्थितिधर्मकमेव कार्यम् । '५. 'नित्यस्वभावात् कारणान्नित्यस्वभावमेव कार्यमुपपद्यते' इत्यस्याः । ६. नित्यस्वभावकल्पना । ७. नित्यं हि वस्तु, अप्रच्युतानुत्पनस्थिरैकस्वभावत्वान्नार्थक्रियां क्रमेण युगपद्वा कर्तुमलम् । ८. वस्तुनि । ९. अर्थक्रिया । १०. क्षणिकमृत्पिण्डादितः क्षाणकघटादेः सत्ता अक्रियावादिनः । क्षणिकाः सर्वसंस्काराः अस्थितानां कुतः क्रिया ॥ भतिर्येषां क्रिया सर्वकारणं सैव चोच्यते ॥ १ ॥.............. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71