Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्ववादप्रवेश mmmmmmmmmm
विशिष्टकार्यजननस्वभावं हीष्यते यतः । मुक्त्वोपलम्भ कार्यस्य कारणानन्तरं कथम् ॥ २ ॥ गम्यते तत्स्वभावत्व से च तुल्यः फलान्तरे । तत्रैव तस्य. व्यापारम्, इति चेत् तम युज्यते ॥३॥ क्षणभासमुच्छेदा व्यापारो नासतो यतः । उत्पत्तिव्यतिरेकेण व्यापारी नेष्यते इति चेत् ? ॥४॥ व्यापस्किालभावित्वात कारणाभिनकालता । फलस्यापि च सत्येवं कार्यकारणता कुतः ॥५॥"
न चापि विशिष्टक्रियाहेतुत्वम्, इत्यतिव्याप्तेस्तस्य स. बस्य समानत्वात्। सर्व एव हि पदार्था विशिष्टक्रियाहेतवः। इत्यलं प्रसङ्गेन ।
तदेवं वैशिष्ट्याभावातुफलभावानुपपत्तिः, इति स्थितम् । ' 'असति चालिन विशिष्ट रूपादिसामग्री प्रतीत्य विशिटमेव संघदनमुपजायते' इत्यादि यदुक्तम् , तत्सर्वमपाकृतमेवावगन्तव्यम् । तथाप्यत्यन्तमवगणय्याऽनुभवभावितमेव वि. द्वजनोपहास्यं मुग्धजनविभ्रमकरं यदुक्तम्-"क्षणभेदेऽप्युपादा. नोपादेयभावेनैकस्यामेव सन्ततावाहितसामर्थ्यस्य कर्मणः फल.
१. किमिति तत्कारणं सर्वस्व न मम्मतमित्याह-विशिष्टेति २. मृ. दादेघटादिजननस्मभावत्वं तदैवाव...पते अदि मृदादेरनन्तरं घटादेरुपलम्भः. स्थात् स. चोपलम्भः फलान्तरे पटादावपि तुल्यः, मृदोऽनन्तरं पटस्याप्युपलभ्यमानत्वात् । ३. कारणानन्तरं कार्यस्योपलम्भ इति कारणस्य विशिष्टकार्यजननस्वभावत्वं नाभ्युपगम्यते, किश तस्य कारणस्य तत्रैव विशिष्ट कार्ये व्यापार इति क रणस्य तत्स्वभावत्वाभ्युपगम इति चंत । ४. क्षणनश्वरत्वे निर• न्वयोच्छेदात् । ५. कारणस्य । ६. कार्यस्यात्तत्तिरेव कारणस्थ कार्ये व्यापार इति चेत् । ७. नहि कारणमन्तरेणोत्पत्तिलक्षणो व्यापारो भवतीत्यर्थः । ततश्च कारणफले अभिन्नकाले प्राप्त । ८. अथाष्टमं मौलं विकल्पमाह । ९. अतः सर्वेऽपि पदार्था मिथो हेतुफलता प्राप्नुयुः । १०, प्राच्यं युक्तियुक्तं मदुक्तम् ।
For Private And Personal Use Only

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71