Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः चैककालैकद्रव्याभावतो विरोधः; यतः-एकस्मिन्नेव काले एकस्मिंश्च द्रव्येऽनयोरभाव एव; तथाहि-धूपकडुच्छकस्थालकेऽग्निसम्बन्धे उष्णस्पर्शी भवति, तस्यैव तु गण्डे शीतः, इति; न च विरोधः, एककालैकद्रव्यैकप्रदेशासम्भवविरोधस्त्विष्ट एव, एकप्रदेशस्त्रावरदेशाभावेनावयवावयविभेदानुपपत्तेभिन्नधर्मत्वात् । भिन्नधर्मयोश्चैकत्वं विरुद्धमेव, अन्यथा तद्भेदाभावप्रसङ्गात् । न चैवं सदसन्नित्यानित्यादिभेदानां भिन्नधर्मत्वम् एकत्रेव भावात् , भावस्य च यतस्तत्स्वद्रव्यक्षेत्रकालभावरूपेण सत् , परद्रव्यक्षेत्रकालभावरूपेण चासद्' इत्यादिना प्रतिपादितत्वात् । ततश्च नासम्भवभाविना विरोधेन नियमभाविनामपि विरोधकल्पना न्याया, अतिप्रसङ्गात् । नहि श्रावणत्वं विरुद्धमपि घटादिसत्त्वेन नासत्तया विरुद्धयते, तथोपलम्भात्, 'अ. नुभवप्रमाणकाश्च सन्तोऽर्थाधिगमे' इति, अन्यथा, तंदभावप्रसङ्गात् । अभिन्ननिमित्तत्वेनापि विरोधः सिद्ध एव । नहि यदेव शीतस्पर्शस्य निमित्तं तदेवोष्णस्पर्शस्य, भेदाभावात् , तत्सङ्करोपलब्धिप्रसङ्गाच्च । न च सदसदादिधर्माणामभिन्ननिमित्तता, निमित्तभेदाभ्युपगमाद् । न चैकस्मिन्निमित्तभेदो न युक्तः, । १. दण्डके । २. एक स्मन् काले एकस्मिन् द्रव्ये एक स्मन् प्रदेशेऽसम्भवलक्षणो विरोधः, शतोष्णस्पर्शयोरभ्युपगम्यत एवेत्यर्थः । ३. शीतोष्णस्पर्शयोरभ्युपगम्यत एवेत्यर्थः । ४. शीतोऽगस्पर्शयोः । ५. तयोधर्मयोर्भेदः । ६. यथा शीतोष्णस्पर्शयोस्तथा । ७. विरोधो हि असम्भवे सति भवति, नि भाविनां च को नाम सम्भवः ? । ८. श्रावणत्वं हि घटादिमत्त्वेन सह वि मपि नहि सन् घटादिः श्रावणो नाम । परसत्त्वेनापि सहननविरुद्धयते, 3 तु विरुभ्यत एवं, अन्यथा श्रावणत्वमसद्रूपमेव स्यात् । ततो यदि श्राव घटादिसत्त्वेन सह विरुद्ध, कथं तयसत्त्वेनापि सह विरुद्धं ? अथासत्त्वेन ए विरुद्ध कथन्तर्हि घटादिसत्त्वेनापि विरुद्ध ? सत्त्वेनासत्त्वेन च सहैकस्य विरोधी विरुद्धः, इत्येवं यथा नात्र विरोध कल्पना, तथा दृष्टत्वेन सम्भवाभावाद् , एवं न सदा तदाद्यात्मके वस्तुनि विरोधकल्पना न्याय्येति भावः, । ९. यद्यनुभवप्रमाणकाः सन्तो न भवन्ति तदा ते सन्त एव न स्युरित्यर्थः । १०. शब्द एव । ११. यदि हि शीतोष्णम्पर्शयोरेकत्वमेव स्यात् तदैतया दो न स्यादित्यर्थः । १२. शीतोष्णस्पर्शयोः खद्रव्यादिरूपेण सत् परद्रव्यादिरूपेण चासादेत्युक्तम् । - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 67 68 69 70 71