Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः धनिर्विषयत्वाद्, अतो विरोधिधर्माध्यासितस्वरूप एब वस्तुः न्यनेकान्तवादिन एव सकलव्यवहारसिद्धिः। पीडानिर्वेदादीन । नां च कथञ्चिदेकाधिकरणत्वान्मुक्तिसिद्धिश्च नान्यस्य । .तस्माद् व्यवस्थितमेतद्-एकान्तवादिन एक मुक्त्यभाव- । प्रसङ्गः , इति । . . . . . . . . . . . कि स्यादेतद्-विरोधिधर्माध्यासितस्वरूपत्वे सति वस्तुन ए. वाभावात् तन्निबन्धनव्यवहाराभावः, न हि शीतोष्णस्पर्शवदेकमस्ति, तयोंविरोधाद्, इति । . . अत्राच्यते-अथ कोऽयं विरोधः ? अन्यतरभावेऽन्यतराभाषः, इति चेत् ? अस्त्वेतत् , किन्तु-शीतोष्णस्पर्शयोर्यो विरोध ___स किं स्वरूपसद्भाव कृत एव ? उतैककालासम्भवात् ? आहो चिदेकद्रव्यायोमेन ? किमेककालैकद्रव्याभावतः ? उतैककालैका. द्रव्यैकप्रदेशासम्भवेन ? आहोश्चिदभिन्ननिमित्तत्वेनेति ? . किश्चातः ? __न तावत्स्वरूपसद्भावकृत एव शीतोष्णस्पर्शयोर्विरोधः, । नहि शीतस्पर्शोऽनपेक्षितान्यनिमित्तः स्वात्मसद्भाव एवोष्णस्पर्शेन सह विरुध्यते, उष्णस्पर्शी वेतरेण; अन्यथा, त्रैलोको ऽपि शीतोष्णस्पर्शयोरभाव एव स्यात् । एकस्य वा कस्यचिदवस्थानान्यतरस्य, न चानयोर्जगति कदाचिदप्यसत्ता, सदैव वडवानलतुहिनसद्भावात् । सद्भावश्चाविद्वदङ्गनाद्यविप्रतिपत्तेः, 1 इति । न चैककालासम्भवाद् , यत एकस्मिन्नपि काले तयोः सद्भाव उपलभ्यत एव, यथा-शीता आपः, पर्वते निकुञ्जप्र स्रवणानि वा, उष्णस्त्वग्निः; न च विरोधः, न चैकद्रव्यायोगेन, .. यत-एकेनापि द्रव्येण तयोोंगो भवत्येव; तथा च शीतकाले रात्रौ निरावरणे देशे पर्युषिते लोहभाजने शीतस्पर्मो भवति, __ तत्रैव मध्याह्ने दिनकरप्रतप्ते उष्णः, इति न च विरोधः, न १. युक्तं एक किश्चिद् वस्त्विति । २. व्यापारे । ३. एककालत्वादि । ४. अन्योऽन्यस्य बाधनेन । ५. यद्वा शीतोष्णस्पर्शयामध्ये एकस्य कस्याप्यस्थानं स्यादन्यतरस्य त्वभाव एवेत्यर्थः । ६. निझराणि । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 66 67 68 69 70 71