Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
॥ अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।।
॥ योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ॥
॥ कोबातीर्थमंडन श्री महावीरस्वामिने नमः ॥
आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर
Websiet : www.kobatirth.org Email: Kendra@kobatirth.org
www.kobatirth.org
पुनितप्रेरणा व आशीर्वाद
राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
श्री
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक : १
महावीर
श्री महावीर जैन आराधना केन्द्र
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर - श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर
कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स: 23276249
जैन
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।।
॥ चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
अमृतं
आराधना
तु
केन्द्र कोबा
विद्या
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
卐
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079) 26582355
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सीमावार्थभ्रन्यायला जं.
आचार्यश्रीभद्-हरिभद्रहरिधिरचितो अनेकान्तवादप्रवेशः
सटिप्पनकः
पारखान्वयजातेनव्हेंचरात्मजप्रभुदासन
संशोधितः
श्रीमत्पन्न्यामश्रीनीतिविजयमहाराजसमुपदिष्ट' संघवी पानाचन्द मातीचन्द ' इत्येतस्य च
द्रव्यमहायन पदानस्थधीहमचन्द्रावायमभायाः भेक्रेटरीशाह- लहेमचन्द भोगीलालन
प्रकाशितः
वीजाम संवत १५.६.
ता.२१-१२-१९ प्रथमावृत्तिः
प्रनयः ५.. अणहिल्लपत्तनम् मूल्यमाणक पञ्चकम्
श्रीहेमकुमारजनमुद्रणयन्त्रालय संधपत्ययजानन त्रिभुवनदालामनचन्दुलालेन
प्रकाशन मुद्रितम ता. २१-१२-१९.
पत्तनम् ( उ. गु.]
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra MICROSTS
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ENT
Page
हिमचन्द्रावार्यन्यांवली
KAR
आचार्यवर्यश्रीमद्-हरिभद्रसूरिविरचितो - अनेकान्ववादप्रवेशः
सटिप्पनकः
:-
.
पारेखान्वयजातेनव्हेचरात्मजप्रभुदासेन Stay संशोधितः
':.
EMA
श्रीमत्पन्न्यासश्रीनीतिविजयमहाराजसमुपदिष्ट''संघवी-पानाचन्द मोतीचन्द ' इत्येतस्य च
द्रव्यसहायेन पट्टनस्थश्रीहेमचन्द्राचार्यसभायाः सेक्रेटरी-- शाह-लहेरुचन्द भोगीलालेन..
प्रकाशितः
प्रथमावृत्तिः
वीर संवत् २४४६.
वक्रम संवत् १९७६. ता. १-१२-१९
प्रतयः ५०० "अणहिल्लपत्तनम्
मूल्यमाणक पञ्चकम् ।
श्रीहेमकुमारजैनमुद्रणयन्त्रालये संघपत्यन्वयेजातेन त्रिभुवनदासात्मजचन्दुलालेन प्रकाशककृते मुद्रितम्
पत्चनम् [उ. गु.
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। प्रास्ताविकम् ।।
इदं प्रकरणं परमकृपालुश्रीमदाचार्यवर्यश्रीहरिभद्रसूरिभिः वयं विनिमीतानेकान्तजयपताख्ये शब्दार्थगभीरग्रंथमहार्णवेऽवगाहितुमशक्तानां जिज्ञासून प्रतनुततुल्यं विनिर्मातम्-इति तु सुनिश्चतं विपश्चिताम्। सटिप्पनकं शोधितं मुदितमस्माभिः । टिपन्नकस्य के नामाचार्या निर्मातारः ? इति नवाहं सम्यग्जा. नामि । जानन्ते ये केचिद् महाशयाः, तेभ्योऽवगच्छन्तु जिज्ञासवः ।
श्रीमद्हरिभद्रसूरीणां सत्तासमयः विक्रमीयशतकं षष्ठम् । ये तूपमितिभवप्रपञ्चकथोपसंहारे विन्यस्तानि श्रीसिद्धर्षिसूरिभिः पद्यानि विलोक्य. नवमे शतके सत्ता व्यवस्थापयितुं संशंसन्ते, तैर्विलोक्या श्रीमदिन्द्रदिन्नसूरीणां कुवलयमालाकथापिठिका, यतः--ते संजाताः सप्तम शतके, स्वमुखेनैव खसत्तासमयः समरादित्यचरितप्रशंसा च कृता ।
धं महरिभद्रसूभिरनेकग्रन्था विनिर्मिताः, तेषां उपलब्ध-संभक्तिमुद्रितानां सामन्यतः टीप्पनकमस्ति मत्पाथै, किंतु-विस्तारभयान्न वितन्यते इह प्रसङ्गमुपलभ्योपढोकयिष्ये कदाचिद् । r श्रीमदाणन्दसागरसूरिभिर्विश्राणितेन एकेनैव पुस्तकेन संशोधितं पुस्तकमिदम् । तेषां सूरीवराणामुपकोः स्मरामिः, शोधनमुद्रणदोषाणां च क्षमा याचे विद्वद्भयः ।
पाटण
।
विदुषामनुचरः
क्षेत्रपालपाटके
प्रभुदासः
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहं ।
श्रीहरिभद्रमुरिविरचितअनेकान्तवादप्रवेशः
टिप्पनसहितः।
-
-
-
जयात विनिर्जितरागः सर्वज्ञस्त्रिदशनाथकृतपूजः । सदतवस्तुवादी शिवगतिनाथो महावीरः ॥ १॥
इह केचिदनादिकर्मवासनोद्भुतमहामोहाकुलीकृतचेतसो यथास्थितं सदसन्नित्यानित्याद्यनेकरूपं वस्त्वनुभवन्तोऽपि न प्रतिपद्यन्ते; प्रत्यवतिष्ठन्ते च-कथमेकमेव घटादिरूपं वस्तु "चासश्च भवति ? तथाहि-सत्वमसत्त्वपरिहारेण व्यवस्थिन्, असत्त्वमपि सत्वपरिहारेण, अन्यथा तयोरविशेषात् । रश्च तद्यदि सत्, कथमसत् ? अथासद्, कथं सत् ? त्येक सदसत्त्वयोर्विरोधात् । तथा चोक्तम्---
यस्मात्सत्वमसत्त्वं च विरुद्धं हि मिथो द्वयम् । वस्त्वेकं सदसद्रूपं तस्मात् खलु न युज्यते ॥१॥
किं च;-सदसद्रूपं वस्त्वभ्युपगच्छता सत्वमसस्वं च वस्तुधर्मतयाभ्युपगतं भवति । ततश्चात्रापि वक्तव्यम् ; धर्मधमिणोः किं तावद्भेदः ? आहोश्चिदभेदः ? आहोश्चिभेदाभेदः? इति । तत्र यदि तावद्भेदः, ततः सदसत्त्वयोभिन्नत्वात् १. आदिशब्दाज्झानादि । २. अर्थक्रियासमर्थ च सद्, अन्यदसदुच्यते ।
समावेशो न चैकत्र तयोः प्रोक्तो विरोधतः ॥१॥ ३. असत्त्वानापत्त्या। ४. अभेदात् । ५. एवकारार्थे । ६. धर्मिणः सकाशात् ।
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः कथमेके सदसद्रूपम् ? इति । अथाभेदः, ततः सदसत्त्वयो. रेकत्वम् , एकस्माद्धर्मिणोऽभिन्नत्वात् , तत्स्वरूपवद; अतोऽपि कथमेक सदसद्रूपम् ? इति । धर्मिणो वा भेदः, सदसत्त्वयो. रभिन्नत्वात् , तत्स्वात्मवत् : इत्थमपि कथमेकमुभयरूपम् ? । अथ भेदाभेदः, अत्रापि येनाकारेण भेदः तेन भेद एप ? येन चाभेदः तेनाभेद एव ? तदेवमापि नैकमुभयरूपम् ; अथ येनैवाकारेण भेदस्तेनैवाभेदः, येनैवः चाभेदः तेनैव भेदः, इति ? एतदप्यचारु, विरोधात्; तथाहि-यदि येनाकारेण भेदः, कथं तेनैदाभेदः ? अथाभेदः, कथं भेदः ? इति । अथ येना. प्याकारेण भेदः, तेनापि भेदश्चाभेदश्च, इत्युभयम् ? येनापि चाभेदः, तेनाप्यभेदश्च भेदश्च, इत्युभयमेव ? अत्रापि येनाका रेण भेदः, तेन भेद एव; येन चाभेदः, तेनाभेद एव; इति तदेवावर्तते ।
किं च;-भेदाभेदमभ्युपगच्छतावश्यमेवेदमङ्गीकर्तव्यम् , इह धर्मधर्मिणोधर्मधर्मितया भेदः, स्वभावतः पुनरभेदः, स्वभावतोऽपि हि तयोर्मेदेऽङ्गीक्रियमाणे परस्परतः प्रविभक्तरूपं पदार्थद्वयमेवाङ्गीकृतं स्यात्, न पुनरेक द्विरूपम् ; इति । तदत्रापि निरूप्यते,-न ह्यनासादितस्वभावभेदयोधर्मधर्मिणोर्धमधर्मितयाऽपि भेदो युज्यते । तथाहि-यदि यो धर्मस्य स्व.
१. एकमिति न स्याद् , अभेदहेतुत्वात्तस्य । २. अभेदो हि द्विधा भवति । सत्तासत्त्वधर्मों धर्मिणा सह भिन्नौ विद्येते ? आहोश्चिद्धी सत्त्वा - सत्त्वधर्माभ्यां सह भिन्नो भवति ? इति बिकल्पद्वयं निराकरोति, ३. धार्मिणो धर्मावभिन्नौ चेत् । ४. धर्मिणारभेदे सति एकेन धर्मिणाऽभेदात सत्त्वासत्त्वयोधर्मयोरेकत्वं स्यात् । ५. धर्मिस्वरूपवत् । ६. एकमेव हि तद् , इति भावः । ७. वाशब्दः पक्षान्तरसूचकः । अथ वा धर्मधर्मिगोरभेदे सति धर्मिणः पक्षस्थापि सत्त्वासत्त्वाभ्यां धर्माभ्यां द्वाभ्यां सहाभ दात् । ८. धर्म° । ९. (कमिति न स्यात् , किं तुभयमेव स्यात् । १०. धर्मधर्मिणोः । ११. भेदाभेदामीकारे तत्त्वतः पूर्वोक्तदोषानतिक्रमात् । १२. चक्रकमनवस्था वा । १३. नियतस्वरूपतया । १४. वस्तुतः । १५. धर्मधर्मिरूपम् । १६. वस्तु । १७. धर्मधमिनियतरूपतया । १८ वस्तुत्वलक्षणः ।
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः भावः, स एव धर्मिणोऽपि ? एवं सति असौधर्माधर्म एव स्यात्, तत्स्वभावत्वात् , धर्मस्वरूपवद् ; धर्मो वा धर्मिस्वभावाव्यतिरिच्यमानमूर्तिर्धर्मिमात्रमेव स्यादिति ? ततश्चैवं धर्मर्मिर्जी स्वभावभेदानासादनेनाप्रतिलब्धभेदौ कथं भेदनिमित्तं भवतः ? इति । न च स्वभावतोऽपि तयोर्भेदाभेदकल्पना युक्ता, पूर्वोक्तदोषानतिवृत्तेः ॥
भेदो वा स्यादभेदो वा द्वयं वा धर्मधर्मिणोः । भेदेनैकमनेकं स्या-दभेदेऽपि न युज्यते ॥ १ ॥ द्वयपक्षोऽपि चायुक्तो विकल्पानुपपत्तितः । तेनानेकान्तवादोय-मज्ञैः समुपकाल्पतः ॥ २॥
किं च;-संविनिष्ठांश्च विषयव्यवस्थितयः, न च सदसद्रूपं वस्तु संवेद्यते, उभयरूपस्य संवेदनस्याभावात्; तथाहिनाक्षजे विज्ञाने सदसत्त्वे प्रतिभासते, असत्त्वस्यापित्वात् , कपित्वे वाऽसत्त्वविरोधात्, तथानुभवाभावाच ॥
न च कार्यद्वारेणापि सदसद्पं वस्तु प्रतिपत्तुं शक्यते, यत:-नोभयरूपं कार्यमुपलभ्यते, नच तत्कार्यकरणे प्रवर्तमान केनचिदाकारण करोति, केनचिन्न करोति, एकस्य करणाकरणविरो धात्; सर्वात्मना च करणे तद्भीवरूयमेव स्यात्, तथाहि-नाभावः कस्यचिदपि कारणं भवितुमर्हति,अभावत्वाविरोधात्,तत्कारणत्वे
१. स्वरूपाभेदात् २. एकमनेकं न युज्यते, एकत्वादेव । ३. ज्ञानायत्ताः । ४. अरसाद्युपलक्षणमिदम् । ५. नाक्षजज्ञानेन तुच्छानुभवः । ६. कार्यमत्र सजातीयम् । ७. इह मृदादिरूपं कारणं जैनैः सदसद्रूपमभ्युपगतं । तच्च न कार्यद्वारेणावबोद्धं पार्यते । यतः-सर्वमपि कार्यमत्र लोके समानजातीयं कारणेन सह सदृशं यत् कारणस्वभावं गमायतुं समर्थ । न च कार्य घटादि मृदादः सदसद्रूपं वेद्यते, विद्यमानरूपत्वेनैव तस्य प्रत्यक्षत एवोपलम्भात्, इति । ८. वस्तु । ९. कार्यस्योति शेषः । १०. वस्तु । ११. सकलशक्ति विकलस्तुच्छो ह्यभावः । १२ अभावस्य ।
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रबेशः
च विश्वमदरिद्रं स्यात् । तते एव कटककुण्डलाधुत्पत्तेः, न च 'तस्मानिरुपाख्यतयाऽविशिष्टात् कस्यचिदेव भावः, न सर्वस्य' इति वक्तुं युज्यते, हेत्वभावात् । अतः श्रद्धागम्यमेवेदं सद सद्पं वस्तु, इति । तथा चोक्तम्
न च प्रत्यक्षसंवेद्यं, कार्यतोऽपि न गम्यते । श्रद्धागम्यं यदि परं वस्त्वेकमुभयात्मकम् ॥ १ ॥
इति प्रथम पूर्वपक्षः ॥ १ ॥ एतेनं नित्यानित्यमपि प्रत्युक्तमेवमवगन्तव्यम् , विरोधादेव । तथाहि-अप्रयुतानुत्पन्नस्थिरेकस्वभावं नित्यमाख्या यते, प्रकृत्येकक्षणस्थितिधर्मकं चानित्यमिति । ततश्च यदि नित्यम् , कथमनित्यम् ? अनित्यं चेत्, कथं नित्यं ? इति ।।
स्यादारेका-'नहि कूटस्थनित्यतया नित्यं द्रव्यमभ्युपगम्यतेऽस्माभिः, परिणामिनित्यताभ्युपगमात्; किंतु पूर्वोत्तरक्षणप्रविभागेन प्रबन्धवृत्त्या । न ह्यस्य पर्यायाणामिवोच्छेदः, तद्ररेण तातितेः । पर्याया एव हि पर्यायरूपेण निरुध्यन्ते,
१. अभावादेव । २. अभावात् । ३. मृदादेरिव घटादेः । ४. मृदादेवि घटादौ प्रतिनियतशक्त्यभावेन । ५. एकत्रानेकविरुद्धधर्माध्यासायोगेन । ६. अप्रच्युतो निवृत्तिस्वभावतयाऽनुत्पन्नः सदाभावेन स्थिरः, एवरूपतया एकः स्वभावो यस्य । क्षणस्थितिस्वभावमपि एकस्वभावं स्यात्, तद्वयवच्छेदार्थ स्थिरग्रहणम् । स्थिरैकस्वभावमपि मुक्तवस्तु केश्चिन्नित्यामध्यते, तद्वयवच्छेदायानुत्पन्नेति । अनुत्पन्नस्थिर कस्वभावमपि स्वप्रच्युतिसमयं यावत् कैश्चिन्नित्यामिष्यते ( घटप्रागभावादिः ), तद्वय बच्छेदायाप्रच्युतति । ७. स्वभावेन । ८. एकरूपतया । ९. मीमांसकैरिवेति शेषः । १२. पूर्वोत्तरक्षणयोः कालसमयलक्षणयो रकमनुष्ययारित्र परस्परं यः प्रविभागोऽत्यन्तभेदरूपः, तेनोपलक्षिता या प्रबन्धवृत्तिः सर्व क्षणेष्वेकद्रव्यानुवृत्तिलक्षणा, तया नित्यवमायते जनः । ११. द्रव्यस्य । १२. पूर्वोत्तरक्षणप्रविभागेन द्रव्यरूपेण । १३. उच्छेदन । १४. तत्तत्क्षणस्थितिस्वभावतया विनश्यन्ति । १५. तत्स्वभावतया तनिरोधबीजम् ।
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
न तु द्रव्यम्; इति नित्यमभ्युपगम्यते ' ॥
इयमप्ययुक्ता, यस्माद्, एषाप्यत्र नित्यता न संभवति, पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः; तथाहि - न पर्यायव्यतिरिक्तं द्रव्यमस्ति तथानुभवाभावात्; व्यतिरिक्तभावे वा, अनेकरूपैकवस्तुवादहानिप्रसङ्गः । तथा चोक्तम्
पर्याया भेदिनो नित्यं द्रव्यं स्यात्तत्स्वरूपवत् । स्याद्वादविनिवृत्तिश्च नानात्वे संप्रसज्यते ॥ १ ॥ व्यतिरिक्ताव्यतिरिक्तपक्षस्तु विरोधाघ्रातत्वादनुद्घोष्य
एव ॥
इति द्वितीयपूर्वपक्ष: ॥ २ ॥
पैतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यम् । तथाहि - एकं सामान्यम्, अनेके विशेषाः; तथा नित्यं सामान्यम्, अनित्या विशेषाः; तथा निरवयवं सामान्यम्; सावयवा विशेषाः; तथा अक्रियं सामान्यम्, सक्रिया विशेषाः; सर्वगतं सामान्यम्, असर्वगता विशेषाः । ततश्च तद्यदि सामान्यरूपम्, कथं विशेषरूपम् ? विशेषरूपं चेत्, कथं सामान्यरूपम् ? इति ।
किं चः - सामान्यविशेषोभयरूपत्वे सति वस्तुनः सकललोकप्रसिद्धसंव्यवहारनियमाच्छेदप्रसङ्गः ; तथाहि - विषमोदकक्षीरकदिव्यत्याभिन्नं नानास्वभावमेकं सामान्यं वर्तते । ततश्च न विषं विषमेव मोदकाद्यभिन्न सामान्याव्यतिरेकात्; नापि मोदको मोदक एव, विषाभिन्नसामान्याभेदात् ॥
१. न हि पिण्डशिवकादिव्यतिरिक्तं मृ-हव्यमनुभूयते । २. पर्यायेभ्यो द्रव्यस्य । ३. पर्यायस्य तावत् । ४. पर्यायद्रव्ययोः । ५. नित्यानित्यनिराकरणेन । ६. श्वेताश्वः । ७. आदिशब्दाद्द्वजादिः । ८. भेदः । ९. सत्त्वादि । १०. मोदकस्य । ११. इतरेतराभिन्नसामान्यभेदेन ।
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः किं तर्हि उभयमपि उभयरूपम् ? । ततश्च विषार्थी विषे प्रवतेत मोदके च, एवं मोदकार्थ्यपि मोदके विषे च । लो. कश्च विषार्थी विष एव प्रवर्तते, न मोदके; मोदकार्थ्यपि मोदक एव, न विषे; इत्यस्य नियमस्योच्छेदः स्यात् । तथा च विषे भक्षिते मोदकोऽपि भक्षितः स्यात् , मोदके भक्षिते विषं भक्षितं स्यात् । तथा च सति प्रतीतिविरोधः स्यात् । एवं क्षीरमपि न क्षीरमेव, कांद्यनर्थान्तरभूतसामान्याव्यतिरेकात् ; कर्कोऽपि न कर्क एव, क्षीराद्यव्यतिरिक्तसामान्याव्यतिरेका. देव । ततश्च इहापि क्षीरार्थी न क्षीर एव प्रवर्तेत, अपि तु कर्केऽपि; एवं कार्थ्यपि न कर्क एव, किं तर्हि ? क्षीरेऽपि । न चेत्थमनियमेन प्रवृत्तिदृश्यते ।
स्यादेत,-'विषादिषु विशेषरूपताप्यस्त्येव, सा तदथिनो नियमेन प्रवृत्तीजम् , तद्भक्षणे च नान्यभक्षणं स्यात् ; इति ॥
___ एतदयुक्तम्, विकल्पानुपपत्तेः; तथाहि-विषादिषु विशेषरूपता मोदकादिविशेषरूपव्यावृत्ता वा स्यात् ? स्वरूपनियता वा ? । न तावन्मोदकादिविशेषरूपव्यावृत्ता, तनान्तरभूतसामान्याव्यतिरेकात्; व्यतिरेके चोभयरूपवस्तुवादहानिप्रसङ्गात् ; व्यतिरेकाव्यतिरेकपक्षस्य च विरोधेन तिरस्कृतत्वात् । नापि स्वरूपचियता, मोदकाद्यभिन्नसामान्यानान्तरत्वात् ; अर्थान्तरत्वे च सैव विशेषरूपता अर्थक्रियार्थिप्र. वृत्तिविषयत्वाद् वस्त्वस्तु, तत्फलविशेषोपादानभावलक्षितस्वभावत्वात् वस्तुनः; सा च तादृशी नान्यत्रास्ति, अर्थिनः प्रवृत्त्यभावात् । त्यज्यतामुभयरूपैकवस्तुवादाभिमानः ॥ तथा चोक्तम्
१ विषमोदकरूपम् । २. सामान्यविशेषोभयरूपभवन्मताड्-गीकारे । ३. मोदकभक्षणे विषभक्षणे जाते सति । ५. अनुभव ५. विषार्थिनः । ६. विषभक्षणे प्रयत्नस्य । ७. विषादि । ८. मोदकादि । ९. मोदकादि । १०. स चासौ फलविशेषश्च यः तेनैव दध्यादिरूपवस्तुना साध्यः, तस्योपादाने भावो हेतुभावः, तेन लक्षितः स्वभावो यस्य वस्तुनः, तत्तथा, तद्भावस्तत्त्वम् , तस्मात् । ११. अर्थक्रिया ।
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
....
INNAPAAMANNAANAANAA
Nanwrmarrrrrari
प्रवृत्तिनियमो न स्वाद् विषादिषु तदर्थिनः । मोदकाद्यपृथग्भूत-सामान्याभेदत्तिषु ॥१॥ भेदे चोभयरूपैक-वस्तुवादो न युज्यते । भेदाभेदविकल्पस्तु विरोधेनैव बाधितः ॥२॥ विशेषरूपं यत्तेपुं तत्मवृत्तेर्नियामकम् ।
साध्वेतत्, किन्तु वस्तुत्वं तस्यैवेत्थं प्रसज्यते ॥ ३ ॥ तथा परेणाप्युक्तम्,
सर्वस्योभैयरूपत्वे तद्विशेषनिराकृतः । नोदितो दधि खादेति, किमुष्टुं नाभिधावति ? ॥१॥
तथाहि-उष्ट्रोपि स्याद्दधि, नापिस एवोष्ट्रः, येनान्योऽपि स्यादुष्टः । तथा दध्यपि स्यादुष्टः, नापि तदेवे दधि, येनान्यदपि स्यात् । तदेवमनयोरेकस्यापि कस्यचित्तद्रूपभावस्याभावात्-स्वरूपस्य वाऽतद्भाविनः स्वनियतस्याभावात् न
१. भेदे सामान्यादेषामिष्यमाणे । २. द्वयस्यापि प्रत्येकमेवैकत्वात् । ३. सामान्यविशेषयोः । ४. विषादिषु । ५. विषादिविषयायाः । ६. विशेषस्य । ७. सामान्यविशेषरूपत्वे । उभयग्रहणमनेकत्वोपलक्षणम् । ८. आस्मन् सति किम् ? इत्याह-तद्विशेष०' उष्ट्र उष्ट्र एव, न दधि; दधि दध्येव, नोष्टः; इत्येवंरूपस्य विशेषस्य ॥ ९. पुरुषः । १०. खादितुम् , इति शेषः । ११. केनचित्प्रकारेण । १२. उष्ट्र एव । १३. कारणन । १४. दध्यादि । १५. दध्येव । १६. कारणेन । १७. उष्ट्रादि । १८. एतेन — सर्वस्योभयरूपत्वे ' इति पदं व्याख्यातम् । १९. 'तद्विशेषनिराकृतेः' इत्येतत् 'तदेवमनयोः' इत्यादिना व्याचष्टे । २०. उभयथा हि दध्युष्ट्रयोर्विशेषः स्यात् , दधिरूपाभावो वोष्ट्रो भवेत् , उष्ट्रस्वरूपं वा दध्यसंभविन्युष्ट्रस्वरूप एव नियतं स्यात् । एवं दध्याप वाच्यम् । आद्यस्य तावदसंभवः 'तद्'इत्यादिना द्वितीयस्य च 'स्वरूप'इत्यादिना कथ्यते । २१. दधन उष्ट्रस्य वा ।
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
कश्चिद्विशेषः इति । ततश्च दधि खादेति चोदितः उष्ट्रमपि
,
खादेत् ॥
अथास्त्यतिशयः कश्चिद्, येन भेदेन वर्तते ।
स एव दधि सोऽन्यत्र नास्तीत्यनुभयं परम् ॥ १ ॥
अधानयोः कश्चिदतिशयोऽस्ति, येनायं तथानोदितः क्षीरविकार एव प्रवर्तते, नान्यत्र । एवं तर्हि 'ल एव' अतिशयो ऽर्थक्रियार्थिप्रवृत्तिविषयः तत्फलविशेषोपादानभावलक्षितखभावं हि वस्तु 'दधि' इति । 'स' च तादृशैः स्वभावः, 'अन्यत्र नास्तीति' प्रवृश्यभावादर्थिनः । तस्मान्नोभयरूपम् ; इत्येकान्तवादः ||
इति तृतीयपूर्वपक्ष: ॥३॥
एवमभिलाप्यानभिलाप्यमपि विरोधबाधितत्वादेवानुद्घोष्यम् । तथाहि अभिलप्यते यत् तदाभलाप्यम्, एतद्विलक्षणं वानभिलाप्यम् इतेि । ततश्च यदि तदभिलाप्यम्, न तर्हि अनभिलाप्यम्; अनभिलाप्यं चेत्, न तर्ह्यभिलाप्यम्; इति, एकस्यानेकविरुद्धधर्माभावात् ॥
इति चतुर्थपूर्वपक्ष: ॥ ४ ॥
किं च; - विरोधिधर्माध्यासितस्वरूपत्वाद्वस्तुनोऽनेकान्तवादिनो मुक्त्यभावप्रसङ्गः ; तथाहि - एतदात्माङ्गनाभवनमणिकनकधनधान्यादिकमनात्मकर्मे, अनित्यम्, अशुचि,
१. तत्साध्या या अर्थक्रिया, तया अथ यः पुरुषः । २. दध्नैव साध्यवात् तत्फलावेशेषः, स चासौ फलविशेषथ, तस्योपादानभावो हेतुभावः, तेन लक्षितः स्वभावो यस्य वस्तुनः, तदेव दधि, इति कृत्वा । ३. अनन्तरोक्तदधिस्वभावः । ४. उष्ट्रे, कुतः ? दध्यर्थिन उष्ट्रे प्रवृत्त्यभावात् । ५. परे परिकल्पितान्वयाख्यात्मशून्यम् ।
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
................
दुःखम्, इति कथञ्चिद्विज्ञाय,भावतैस्तथैव भावयतः, वस्तुतः तत्राभिषङ्गास्पदाभावादू, भावनाप्रकर्षविशेषतो वैराग्यमुपजायते; ततो मुक्तिः । तथाहि-आत्मात्मीयदर्शनमेव मोहः, तत्पूर्वक एवात्मीयस्नेहो रागः, तत्पूर्विकैवानुरागविषयोपरोधिनि प्रतिहतिषः, इति कृत्वा सर्वमुपपद्यते । यदा तु तदात्मा
ङ्गनादिकं सात्मकापि, तदा यथोक्तभावनाऽभावात्, भा. वेऽपि मिथ्यारूपत्वात्, वैराग्याभावः, तदभावाश्च मुत्यभावः, इति ॥
इति पञ्चमपूर्वपक्षः ॥ ५ ॥
इतिपूर्वपक्षग्रन्थः॥ तदेवमेते मन्दमतयो दुस्तर्कोपहतास्ती•ः स्वयं नष्टाः, परानपि नाशयन्ति मन्दमतीन् । अतः प्रतिविधीयते
तत्र यत्तावदुक्तम् "कथमेकमेव घटादिरूपं वस्तु सच्चासब भवति ? " तदेतदागोपालाङ्गनादिप्रतीतमनाशङ्कनीयमेव । यतः-तत्स्वद्रव्यक्षेत्रकालभावरूपेण सद्वर्तते; परद्रव्यक्षेत्रकालभावरूपेणाऽसत् ; ततश्च सञ्चासश्च भवति । अन्यथा, संदभावप्रसङ्गात् ; तथाहि-यदि तद् यथा स्वद्रव्यक्षेत्रकालभावरूपेण सद्वर्तते, तथैव परद्रव्यक्षेत्रकालभावरूपेणापि स्यातू; ततश्च तदू घटादि वस्त्वेव न स्यात्, परद्रव्यक्षेत्रकालरूपेणापि सत्त्वात् , तदन्यस्वात्मवत् । तथा यदि, यथा परद्रव्यक्षेत्रकालभावरूपेणासद्, एवं स्वद्रव्यक्षेत्रकालभावरूपेणापि स्यात् ; इत्थमपि तद्घटादि वस्त्वेव न स्यात्, परद्रव्यक्षेत्रकालभा. वरूपेणासत्वे सति स्वद्रव्यक्षेत्रकालभावरूपेणाप्यसत्त्वात् ,
१. विशिष्टक्षणोत्पादकस्वभावतया हेतुपरंपरातो विशिष्टक्षणोत्पादेन विज्ञाय श्रुतिमप्या(य्या) प्रज्ञया । २. परमार्थेन । ३. विपर्ययरूपत्वात् । ४. शबलरूपतया सात्मकम्, नित्यम्, शुचि,अदुःखम्, इति ।५. वस्तुनोऽन्यथात्वेन । ६. भावनायाः । ७. घटवस्तु । ८. घटवस्तु । ९. पटाादस्वात्मवत् ।
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः खरविषाणवद् ; इत्येवं तदभावप्रसङ्गात् सदसद्रपं तदङ्गीकर्तव्यम् , इति ॥ तथा च द्रव्यतः-पार्थिवत्वेन सत्, नाबादित्वेन; तथा क्षेत्रतः-इहत्यत्वेन, न पाटलिपुत्रकादित्वेन; तथा कालतः-घटकालत्वेन, न मृत्पिण्डकपालकालत्वेन; तथा भावतः-श्यामत्वेन, न रक्तादित्वेन; इाते । अन्यथा, इतररूपापत्या तत्स्वरूपहानिप्रसङ्गः, इति । द्रव्याद्यात्मकत्वं च घटस्य तैर्विनाऽभावात्, तत्परिणामत्वाच्च, अतत्परिणामत्वे च, तदभावप्रसङ्गात् ; इति ॥
स्यादेतद्, स्वद्रयसत्त्वमेव परदव्यासत्त्वम् , स्वक्षेत्रसत्त्वमेव परक्षेत्रासत्त्वम् , एवं स्वकालसत्त्वमेव परकालासत्त्वम् , एवं स्वभावसत्त्वमेव च परंभावासत्वम् ; इति । तथा च-घटरस्तुनः पार्थिवद्रव्यसत्त्वमेवाबादिद्रव्यासत्त्वम् , तथेहक्षेत्रसत्त्वमेव पाटालपुत्रकाद्यसत्त्वम् , तथा घटकालसत्त्व मेव मृत्पिण्डकपालकालासत्त्वम्, तथा श्यामत्वसत्त्वमेव रक्ताद्यसत्वम्, तस्यैकस्वभावत्वाद् निरंशत्वाद्, इति ॥ - एतदप्यसारम् , तस्यैकस्वभावत्वेऽवस्तुत्वप्रसङ्गात्; तथा हि-'यदि पार्थिवद्रव्यसत्त्वमेवाबादिद्रव्यासत्त्वम्, ' एवं तर्हि
१. खरविषाणं हि पटरूपणासाच्छमिति । २. घटवस्त्वभावः । ३. तथा तत्स्थितिस्वभावत्वलक्षणेन । ४. अबादि । ५. घटादिवस्तु । ६. न हि मृदादिद्रव्यमात्रमेवैकान्तकस्वभावं तदाधारत्वपरिणतक्षेत्रानाधेयस्वभावं तत्कालभाविनां विना कृष्णोर्खादिभावशून्यं घटः तथाविधक्षेत्राद्य नुवेधादिरहितमृदादिदव्यमात्ररूपेण प्रकारेणानुपलब्धेः *तत्तदन्यतममात्रत्वे च तदितरवैकल्येन तत्स्वरूपानुपपत्तेः+ घटबुद्धयभावप्रसङ्गः । ७. पार्थिवत्वाद्यभावात् । ८. बौद्धः प्राह-। ९. नहि स्वद्रव्यादिसत्त्वादर्थान्तरभूतं परद्रव्याद्यसत्त्वम् । १०. मन्येथाः । ११. सत्त्वस्यैवासत्त्वरूपत्वात् । १२. यद्यस्मादभिन्नं तत्तत्स्वरूपमेव, तच्छब्दवाच्यं च ।
* तस्य घटस्य, तेषां पार्थिव द्रव्यादिनाम्, अन्यत्वे पार्थिवद्रव्यमानत्वे सति इहत्यत्वाद्यभावेन नाधिकृताधिकृत (?) पार्थिवद्रव्यत्वस्वरूपानुपपत्तिः । + अनुपपतिश्च विविक्तानां पार्थिवद्रव्यत्वादीनामसंभवात् ।
TOYERYTITINENERAUSHALULIYANMRSANEE
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
११
;
येथा तत्पार्थिवद्रव्यत्वेन सत् एवमवादिद्रव्यत्वेनापि सदेव स्यात्, तत्सत्त्वांव्यतिरिक्तत्वादितरीसत्त्वस्य; यथा वा अबादिद्रव्यत्वेनासत तथा पार्थिवत्वेनापि असदेव स्यात्, तदसत्त्वाव्यतिरिक्तत्वात्तत्सत्त्वस्य । एवं यदि' इहक्षेत्रसत्त्वमेव पाटलिपुत्राद्य सत्यम् ' ततश्च तद्यथेह सत् तथा पाटलिपुत्रादावपि स्यात् इहसवाव्यतिरिक्तत्वात् तत्रासत्वस्य; यथा वा पाटलिपुत्रादावसत् तथेहापि स्यात्, तदसत्त्वाव्यतिरिक्तत्वादिहसत्वस्य । एवं यदि 'घटकाल सत्वमेव मृत्पिण्डकपालकालासत्त्वम्' ततश्च तद्यथा घटकाले सत् एवं मृत्पिण्डकपालकालेपि स्यात्, तत्सत्त्वाव्यतिरिक्तत्वात्तदसत्त्वस्य; यथा वा मृत्पिण्डकपाल कालेऽसत् तथा घटकालेऽपि स्यात्, तदसत्वाव्यतिक्तत्वात्तत्सत्त्वस्य । एवं यदि 'श्यामत्वसत्त्वमेव रक्तत्वाद्यसत्त्वम्' ततश्च तद्यथा श्यामत्वेन सत् एवं रक्तत्वादिनापि स्यात्, तत्सत्वाव्यतिरिक्तत्वादितरासत्त्वस्य; यथा वा रक्तत्वादिनाऽसत् एवं श्यामत्वेनापि स्यात्, तदसत्वाव्यतिरिक्तत्वात्तत्सत्वस्य । ततश्च तदितररूपापचयादिनाऽवस्तुत्वप्रसङ्गः, इति ॥
अथोच्येतँ, - नहि नः किञ्चिदबाद्यसत्वं निरुपाख्यं नामास्ति, यदपेक्षयाऽव्यतिरिक्त विकल्पोपन्यासेना व स्तुत्वापत्त्यात्मनो न्यायाभिशता ख्याप्यते; अपि तु पार्थिवद्रव्यसस्वमेव विशिष्टमेकस्वभावमबाद्य सत्त्वमुच्यते । ततश्च यथोक्तदोषाभावाद व्यर्थो विकल्पोपन्यासपरिश्रमः, एवं शेषेष्वपि भावनयिम्; इति ॥
१. यथा घटस्वत्त्वं तथा चेदमसत्त्वं व्यापकानुपलब्धिः । २. पार्थिवद्रव्य । ३. माहात्म्यमन्तरेणाव्यतिरेकाभावात् इति भावः । ४. अबादिद्रव्य । ५. अबाद्यसत्त्वस्य परमार्थतोऽभावात्, इत्यर्थः । ६. तस्य पार्थिवद्रव्यादिसत्त्वस्य अवादिद्रव्यत्वरूपापत्त्यादिना । ७. बौद्धेन । अस्माकं बौद्धानां । ९. सूक्ष्मोक्तिवत्त्वम् । १०. त्रैलोक्यव्यावृत्तम् ११. (सदै) सदेकस्वभावतया । १२. न तु तदन्यत् । १३. अवस्तुत्वप्रसङ्गरूपः ।
"
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादेप्रवशः
अहो! दुरन्तो मोहः, स्ववाचौऽपि प्रतिपादयन्त्रनेकान्तं न प्रतिपद्यते । तथाहि-'पार्थिवद्रव्यसत्त्वमेष विशिष्टमवाद्यसत्त्वम्,' इति वक्ति, न च सदसदूपं वस्तु . प्रतिपद्यते; इत्यपूर्वो विभ्रमः । न हि खपरसत्ताभावाभावोभयरूपतां विहाय वस्तुनो विशिष्टतैव संभवति । न च तधेनैव स्वभावेन पार्थिवद्रव्यत्वेन सद्वर्तते, तेनैवाबादिद्रव्यत्वेनासत्, अभिन्ननिमित्तत्वे सति एकत्र सदसत्वयोर्विरोधात् ; तथाहि-तेनैव स्वभावेन सञ्चासच, इति? विरुद्धमेतत् ॥
स्यादेतद्,-तत्राबादिद्रव्यासत्त्वस्य परिकल्पितत्वाधथोक्तदोषामा, इति । सोऽयं गैडुप्रपेशेऽक्षितारिकाविनिर्गमन्याया; तथाहि-तंत्रावादिद्रव्यासत्वस्य परिकल्पितत्वात् असत्त्वात् तद्रपेणाप्यास्तत्वप्रसङ्गः, अनिष्टं चैतत् , इति ॥ _____ स्यादेतद्, पार्थिवद्रव्यसत्त्वव्यतिरिक्तमबाद्यसत्वं परिकल्पितं, पार्थिवद्रव्यसत्वमेव पुनरबाद्यसत्त्वस्वभावमिप्यत एव, इत्यतोऽनपरार्धेः, इति ॥
१. आदिमध्यान्तरौद्रः । २. येन पार्थिवद्रव्यसत्त्वमेव विशिष्टमिति । ३. अबाद्यसत्त्वस्य स्वभावतया । ४. उभयनिमित्तभावेऽपि उभयाप्रतिपत्तेर पूर्वत्वम् ५. कथम् ? । ६. विशेषणं विना वैशिष्टयायोगात् । ७. घटादि ८. एतदेव व्याख्याति । ९. येनैव सत् तेनैवासनस्यात् , इत्यर्थः । १०. न सर्वथैकं द्विरूपम् , इति भावः । ११. प्रस्तुतदोषपरिहारेणाधिकतरदोषान्तरापत्तिः, इत्यर्थः । १२. पार्थिवद्रव्यसत्त्वे । यथा घटादौ घटादिद्रव्यासत्त्वं परिकाल्पतत्वादसद् , इतिकृत्वा घटादिरूपेणास्तित्वमेव, एवमबादिरूपेणाप्यस्तित्वं स्यात् । १३.अबादिद्व्यसत्त्वरूपेण पार्थिवद्रव्यसत्त्वस्य। १४.पार्थिवद्रव्यसत्त्वव्यतिरिकत्वांशेनैव अबाद्यसत्त्वं परिकल्पितमुच्यते । पार्थिवद्रव्यसत्त्वव्यतिरिक्त त्वेतदस्त्येव, इत्युक्तदोषाभावः, इति पराभिप्रायः । ( परमार्थतः स्वसत्त्वादसत्त्वादबाद्यसत्त्वस्य । एकरूपम् । वस्तुस्थित्या )[ कोष्ठकान्तर्गतं टिप्पनकं कस्य मूलपाठस्य, इति न ज्ञायते । तच्चिन्त्यं धीधनः ।]
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनकान्तवादप्रवेशः अहो ! दुरन्तः स्वदर्शनानुरागः, प्रत्युक्तमपि ना. पधारयति; यत:-न च तद् येनैव स्वभाधन पार्थिवद्रव्य त्वेन सद्वर्तते तेनैवाबादिद्रव्यत्वेनासद, इत्यादि तदेवावर्तते, इति,अलं खदर्शनानुरागाकृष्टचेतसा सह प्रसकोन, इति ॥
अपरस्त्वाह--'सदसपं वस्तु' इत्यत्रासत्पक्षे प्रसज्यप्रतिषेधो वा स्यात् ? पर्युदासो वा ? |
किश्चातः ?।
उभयथापि दोषः, तथा हि-यदि 'सन्न भवति' इत्यसत् ? सनिवृत्तिमात्रं निरुपाख्यमसत् ? ; ततश्च तस्य प्रमाणगोचरातीतत्वावस्तुधर्मत्वानुपपत्तिः ।
__अभ्युपगमे वा वस्तुन एव निरुपाख्यत्वप्रसङ्गः, तथाहि-न निरुपाख्यस्वभावं सोपाख्यस्वभावं भवितुमर्हति ।
__ अर्थ सतोऽन्यदसद्, सदन्तरमेवासद्, इति ? एवमपि तस्य सदात्मकत्वादेव सदसदरूपत्वानुपपत्तिः; तथाहि-न 'सत् सदन्तरात्मकम्' इति सचेतसो वक्तुं युज्यते, इति ।
एतदप्ययुक्तम्, भगवदईन्मतापरिज्ञानात, पक्षद्वयेऽपि दोषाभावात् ॥
कथमभावः ? इति ॥
उच्यते यद्यपि सन्निवृत्तिमा निरुपाख्यमसत्, तथापि स्वरूपेण सत्त्वात् , तद्रूपेण चासत्त्वात् , सदसदूपतैव; इति ।
१. नैयायिकादिः । २. कोऽर्थः ! तुच्छधर्मकम् । ३. प्रसज्यप्रतिषेधरूपम् । ४. एतदेव व्याख्याति । ५. पर्युदासपक्षे । ६. असतः। ७. पररूपेण ।
८. यस्माद्वस्त्वेवात्मघटादिसदसद्रूपतयोभयात्मकं वर्तते । न सत्त्वा. ननुविद्धमसत्त्वं नाम, तत्र वस्तुनि यदपेक्षयैतदुभयरूपं वस्त्विति, अतो यद्यपि 'सन्न भवतीति असत्' प्रसज्यप्रतिषेधरूपं, तथापि परद्रव्यादिरूपेण सतः प्रतिषेधात् : तस्य च परद्रव्यादिरूपेण सतस्तत्र विवक्षितसत्त्वेऽ. सत्त्वात् , तत्स्वरूपस्य तत्प्रतिषेधाय; असत्त्वस्य च सत्त्वानुवेधाद-विवक्षितसत्त्वानुवेधात् कारणान्न निरुपाख्यमेव तदसत्त्वम्, इति प्रसज्यप्र. तिषेधपक्षाक्तदोषाभावः, पर्युदासप्रतिषधपक्षदोषस्त्वनभ्युपगमान्न नः क्षितिमावइति ।
* पटादेः ।
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४
अनेकान्तवादप्रवेशः
ततश्चैवं न सर्वथा सत्त्वमसत्त्वपारेहारेण व्यवस्थितम्, न चासत्वं सत्वपरिहारेण ॥
न चानयोरविशेष एव भिन्ननिमित्तत्वात् ; तथा हि" स्वद्रव्यादिरूपेण सत्, परद्रव्यादिरूपेण चासद् ; " इत्युकम् । ततश्च तद् यत एव सत् अत एवासद्, परद्रव्यादिरूपत्वे सति स्वद्रव्यादिरूपेण सत्वाद्; तथा यत एवासत् अत एव सद्, स्वद्रव्यादिरूपसत्त्वे सति परद्रव्यादिरूपेणासत्त्वात् ।
अत एव चैकत्र सदसत्वयोर्विरोधो न संभवति, भिन्ननिमित्तत्त्वाद् धर्मिभावात् । एतच्चोत्तरत्र प्रपञ्चयिष्यामः । अनुभवसिद्धत्वाश्च; तथाहि स्वपररूपाव्यावृत्तव्यावृत्तरूपमेव
तद्वस्तु अनुभूयते ॥
पदाशङ्का, - 'स्वरूपाव्यावृत्तिरेव पररूपव्यावृत्तिः' इति । एषाप्ययुक्ता, विहितोत्तरत्वात् ॥
यस्मादेवं तस्मात् समुत्सारित पक्षपातयविद्भिर्युक्तियुक्तत्वात् सदसद्रूपं वस्त्वङ्गीकर्तव्यम् । आह च
यस्मात्सत्त्वमसच्चं च न विरुद्धं मिथो द्वयम् । वस्त्वेकं सदसद्रूपं ननु तत् किं न युज्यते ? ॥ १ ॥
४.
१. तदनात्मकत्वेन । २. भावात्मकत्वेन । ३. भावात्मकत्वेन स्वद्रव्यादयः सत्त्वकल्पनानिमित्तम्, परद्रव्यावयासत्वकल्पनाया: । ५. अनुभवे च तद्बोधाद्यनेकरूपतायामिव को विरोध: ? । ६. वस्तुतः स्वरूपाव्यावृत्तिः पररूपव्या वृत्तिश्च द्वेऽप्यनुभूयेते, इत्युभयात्मकं वस्तु, इति आचार्येण स्थापिते पर आशङ्कते - स्यादाशङ्केति । ७. एकरूपा । ८०. न स्वरूपसत्वमेव पररूपात्त्वम्' इत्यादिना भिन्ननिमित्तत्वेनानथोरेकत्वाभावात्; तत्त्वतोऽन्यरूपाभावमन्तरेणान्यथावृत्त्या (त्य) सिद्धेः । ९. शबलरूपतया ।
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
यदप्युक्तम्,-" सदसदूपं वस्त्वभ्युपगच्छता सत्त्वमसत्त्वं च वस्तुधर्मतयाभ्युपगतं भवति"; एतदिष्यते एव ॥
यत्पुनरिदमुक्तम्-" ततश्चात्रापि वक्तव्यम् ; धर्मधर्मिणो: किं तावद्भद:,-" इत्यादि । अत्रापि सर्वथा भेदपक्षोदितोऽभेदपक्षोदितश्च दोषोऽनभ्युपगमतिरस्कृतत्वादेव न न: क्षितिमावहति । भेदाभेदपक्षस्त्वभ्युपगम्यत एव ।।
आह-नन्वत्रापि "येनाकारेणभेदस्तेन भेद एव,"-इत्यादि दूषणमुक्तम् ।
उक्तमिदम् , अयुक्तं तूक्तम् , अधिकृतविकल्पस्यार्थापरिज्ञानात्, अन्योन्यव्याप्तिभावेन भेदाभेदपक्षस्य जात्यन्तरात्मकत्वात् केवलभेदाभेदानुपपत्तेः। न हि 'अन्योन्याननुविद्धांवेतो' इति जैनमतम् , अभेदाननुविद्धस्य केवलभेदस्यासिद्धः, मेदाननुविद्धस्य चाभेदस्यासिद्धेः । अत:-'यनाकारेण भेदस्तेन भेद एव' इत्यर्थशून्यमेव ॥
अथ " धर्मधर्मिणोर्भेदाभेदः" इति कोऽर्थ: ? कथञ्चिद्भेदः कथञ्चिदभेदः, इति । तत्र धर्माणां मिथो भेदात् प्रतिनियतधाश्रितत्वाच कथञ्चिद्भेदः । तथाहि-न धर्माणां धर्मिणा सर्वथैकत्वे धर्मतयापि भेदो युज्यते, इति प्रतीतमेतद् । तथा धर्माणामेवाभ्यन्तरीकृतधर्मिस्वरूपत्वाद्धर्मिणोऽपि चाभ्यन्तरीकृतधर्मस्वरूपत्वाञ्च कथञ्चिदभेदः, इति । न चात्यन्तभेदे धर्मधर्मिकल्पना युज्यते, अतिप्रसङ्गात् ॥ __ स्यादेतद्,-उत्प्रेक्षितेयं धर्मधर्मिकल्पना, न तत्त्वतः, इति ।
१. न ह्यभ्युपगमा एव बाधायै स्युः । २. प्रकारेण । ३. भेदाभेदरूपस्य । ४. “ न नरो नर एवेति, न सिंहः सिंह एव वा ।
शब्दविज्ञानकार्याणां भेदाज्जात्यन्तरं हि तत् ॥ १ ॥ न नरः सिंहरूपत्वान सिंहो नररूपतः ।
सामानाधिकरण्येन नरसिंहः प्रतीतितः ॥ २ ॥" ५ पटादेरपि घटधर्मत्वापत्तेः ।
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६.
अनेकान्तवाद प्रवेशः
एतदप्ययुक्तम् दृष्टविरोधात् । न च दृष्टेऽनुपपन्नं नाम, अनुवृत्तव्यावृत्तस्वभावं च वस्त्वध्यक्षतोऽवसीयते । न चाऽऽविद्वदङ्गनादिप्रतीतानुभवापलापः शक्यते कर्तुम् । अनुभवा पुरोऽवस्थिते घटादौ तदद्वैप एवोपजायते; अन्यथा तदभाव
प्रसङ्गात् ॥
स्यादेतद्, – एकस्वभाव एवासावनुभवो घटप्रतिच्छायतयोपजायमानः घटादिप्रतिभासव्यवच्छेदेन ख्याप्यते । न पुनरस्य भावतो द्वे रूपे । तथा चोक्तम्- “ऐकोपलम्भानुभवाद् 'इदं नोपलम्भे' इति बुद्धेः 'उपलम्भे वा' इति कल्पितायाः समुद्भवति " ।
एतदप्ययुक्तम्, – विहितोत्तरत्वात्, 'तत्स्वरूपसत्वमेव पररूपासत्त्वम्' इति निलठितम् ॥
किञ्च - एकान्तपर्यायनयमतानुसारिपक्षे कल्पनायोगात् ; तथाहि - सा वस्तुनि समुत्पन्ने वा स्याद् ? अनुत्पन्ने वा ? न तावदनुत्पन्ने, तस्यैवासस्यात् ; उत्पन्नेऽपि च गृहीते वा स्वाद ? अगृहीते वा ? न तावदगृहीते, अतिप्रसङ्गात्; गृहीतेऽपि च तद्ग्राहकशानस्याविकल्पकत्वात् विकल्पज्ञानस्व चातद्विषयत्वात्, तद्भावकाले च तदसवात् । तत्रैव कल्पना, इति चेत् ? न, विकल्पानुपपत्तेः तथाहि - तंत्राप्युत्पन्ने वा स्याद् ? अनुत्पन्ने वा ? नानुत्पन्ने, असखात् ; नाप्युत्पन्न, उत्पत्त्यनन्तरोपवर्गित्वात् । विकल्पनारूपमेवोत्पद्यते इति चेत् ? न तस्य हेत्वयोगात् । हेत्वयोगश्च स्वलक्षणादनुत्पतेः । स्वलक्षणानुभवाहित संस्कारात् तज्जन्म, इति चेत् ? न, संस्का
"
१. सङ्कीर्णत्वेन नियतत्वासिध्धेः । २ वस्तु । ३. नीलादौ । ४. एकात्मैव घटादेरुपलम्भानुभवात् परम 'इदं पटादिकं समुपलम्भे, इदं घटादिकमुपलम्भेवा इति विकल्पिकाया बुध्धेः समुद्भवः स्यात् । ५. वस्तुनि । ६. उत्पन्नवस्तु । ७. उत्पन्नवस्त्वविषयत्वात् । वर्तमानकालभावि स्वलक्षणानुभवजसंस्कारात् । ८. विकल्पज्ञान । ९ उत्पन्नवस्तु । १०. ज्ञाने एव, न तु बाह्येऽर्थे विषये । ११. ज्ञानेऽपि । १२ विनाशित्वात् ।
"
For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः रस्यापि स्वलक्षणेतररूपानतिक्रमात् ; स्वलक्षणरूपत्वे से एव दोषः । सामान्यलक्षणरूपत्वे तु ततस्तदुदय एव कथम् ? इति वाच्यम् । ___ स्यादेतद्,-नहि कल्पनाऽस्वलक्षणमेव, तस्या अपि स्वसंवित्तौ स्वलक्षणत्वात् ; उक्तं च-" कल्पनाऽपि स्वसंविताविष्टा, नार्थ, विकल्पनात् ” इति । . एतदग्णयक्तम् , अर्थविकल्पाकारव्यतिरेकेण तत्स्वसंधित्यसिद्धेः, सिद्धौ वा, कल्पनायोगात् । अतीतकालानुभूतसंस्कारस्तथापरिपच्यमान:स्वलक्षणानुभवजनितसंस्कारोपपादितधिशेयो हेतुः, इति चेत् ? न, तस्य स्वलक्षणानभवजनित. संस्काराद्विशेषः, आसिद्धेः !
असिद्धिश्च तत्त्वतस्ततोऽनुपकारात् ; तथाहि-स तस्य विकल्पाहितसंस्कारविशेषस्यानुत्पन्नस्योत्पन्नस्य निरुद्धस्य वोपकुर्याद ? इति भेदाः । न तावदनुत्पन्नस्य, तस्वैवासत्त्वाद , असतश्ोपकाराकरणात्; नाप्युत्पन्नस्य, तस्यानाधेयातिशयत्वाद् , अतिशयाधानमन्तरेण चोपकाराभावादू , अतिशयाधाने च तदन्यत्वप्रलगाताद्धाभ्यामप्येकीभूय तदन्यकरणमेवातिशयाधान,स एपोपकारः इति चेत्?न,उपादानकारणविशेषाधानमन्त
१. स्वलक्षणसंस्कारस्य क्षयाक्षयित्वन *तद्भावकाले च तदसत्त्वादित्ययम् । २ सामान्यरूपसंस्कारक्षाणकत्वप्रतिभासऽप्यवस्तत्वात्कृतोऽ. स्माद्विकल्पज्ञानस्योदयः ? । ३. सामान्यस्यार्थक्रियाकारित्वायोगात् । ४. कल्पना । ५. विकल्पोपादानकारणभूतस्या तीतकालविकल्पजनितसंस्कारस्य । ६. स्वलक्षणानुभवजनितसंस्कारः । । ७. विकल्पेन घटोऽयमित्येवरूपणातीतकाले विशेषो यः संस्कारविशेषः, तस्य । ८. विनष्टस्य । ९. तस्योत्पन्नस्य हि अतिशयाधाने सोऽतिशयो भिन्न एव स्याद् , यद्वातिशयाधानकाले स उत्पन्नोऽन्य एव स्यात् , क्षणार्ध्वमनवस्थितेः । १०. अतीतविकल्पजसंस्कारवर्त्तमानानुभवजसंस्काराभ्याम् । ११. अतीतविकल्पजसंस्कारविशेषाधानं विना ।
विकल्पज्ञान० ।
For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१.८
अनेकान्तवादप्रवेशः
रेण ततैः कार्यविशेषासिद्धेः न चैककालभोविनाऽन्यतो भवतोऽन्यत एव भवतातिशयाधानं युज्यते, तन्निबन्धनस्य तत्कृतविशेषासिद्धेः, तदभ्युयगमे च तत्राप्ययमेव वृत्तान्तः इति । यत्कि चिदेतद् एवं निबन्धनपरम्परायामपि वाच्यम् इति । नापि निरुद्धस्य, तस्यैवाविद्यमानत्वाद्, असतश्चोपकारकरणायोगाद्अभ्युपगमे चातिप्रसङ्गाद् | अतः साधुत्वं 'हेत्वयोगात्' इति । क्षणिकान्तपक्षे च फलभावानुपपत्तेः, इति; एतच्च वक्ष्यामः ॥
I
यश्वोक्तम् - " भेदाभेदमभ्युपगच्छतावश्यं चेदमङ्गीकर्त्तव्यम्-इह धर्मधर्मिणोधर्मधर्मितया भेदः, स्वभावतः पुनरभेदः " इत्यादि । एतदपि 'धर्माणां मिथो भेदात् प्रतिनियतधयश्रितत्वाच्च कथञ्चिद्भेद:' इत्यादिना प्रत्युक्तम्, प्रकारान्तरेण भेदाभेदासिद्धेः ॥
यदयुक्तम्, " संविनिविष्टाश्च विषयव्यवस्थितयः; न च सदसद्रूपं वस्तु संवेद्यते उभयरूपस्य संवेदनस्याभावाद" इत्यादि । एतदपि 'अनुवृत्तव्यावृत्तस्वभावं च वस्त्वध्य'क्षतोऽवसीयते' इत्यादिना परिहृतम् उभयरूपस्य संवेदनस्याबाधितत्वात् ॥
-
यच्चोक्तम् - " न च कार्यद्वारेणापि सदसद्वपं वस्तु प्रतिपत्तुं शक्यते, यतो नोभयरूपं कार्यमुपलभ्यते " इत्यादि । एतदप्यनवकाशम्, वस्तुस्थित्योभयरूपस्योपलम्भस्य साधितत्वात् ।
" न च तत्कार्यकरणे प्रवर्तमानं केनचिदाकारेण करोति
१. अतीतविकल्पज संस्कारात् । २. अतीतविकल्पजसंस्कारेण सह भवता । ३. स्वहेतोः । ४. अतीतविकल्प संस्कारस्य । ५. वर्त्तमानानुभव जसंस्कारेण । ६. तस्यातीतविकल्पजसंस्कारस्य यन्निबन्धनमुपा दानं, तस्य वत्तमानानुभवज संस्कार कृतविशिपासिद्धः । ७ तदभ्युपगमे च सामान्येन तन्निबन्धनस्य तत्कृतविशेषाभ्युपगमे च तत्रापि तन्निबन्धने, अयमेव--अनन्तरादितः "न, उपादानकारणविशेषाधानमन्तरेण ततः कार्याविशेषासिद्धेः " इत्यादि वृत्तान्तः ।
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
केनचिन्न करोति, एकस्य करणाकरणविरोधात; त्याद्यप्यसारम् , विरोधासिद्धेः; तथाहि-पर्यायात्मना त्तति, द्रव्यात्मना न करोति, कुत एकस्य करणाकरण:विरोधः ति। अथवा स्वकार्यकर्तृत्वेन करोति, कार्यान्तराकर्तृत्वेन न करोति; अतः केनचिदाकारण करोति, केनचिन्न करीतीति कोऽत्र विरोध: ? । न च स्वकार्यकर्तृत्वमेव कार्यन्तिराकर्तृत्वम् ; यदि स्यात्, यथा स्वकार्य करोति, एवं कार्यान्तरमपि कु. र्यात्, कर्तृत्वानन्यत्वादकर्तृत्वस्य; विपर्ययो वा, ततश्चाकारणत्वम्, इति ॥
स्यादेतत्,-किं हि नाम कार्यान्तराकर्तृत्वमन्यत् ? यदाऽऽनित्यानन्यत्वयुक्त्यनुसारेणाकारणत्वं प्रतिपाद्यते; किन्तु स्वकार्यकर्तृत्वमेवैकस्वभावं कार्यान्तराकर्तृत्वम्, इति ।
हन्त, तर्हि 'येनैवाकारेण करोति, तेनैव न करोति' इत्येतदापनम् । एवं चाभिन्नानमित्तत्वे सत्येकत्र कर्तृत्वाक. तत्वयोनिरोधः, इति; तथाहि-तेनैव स्वभावेन करोति, न करोति च इति ? व्याहतमेतद्, एकस्वभावस्यैकत्रोपयोगात् ।
कार्यान्तराकर्तृत्त्वं तत्रै परिकल्पितम् इति चेत् ? तदप्यमनोहरम् , कार्यान्तराकर्तृत्वस्य तत्र परिकल्पितत्वाद्-वस्तुतोऽ. सत्वात्, तद्भावापत्त्या कार्यान्तरकर्तृत्वप्रसङ्गात् ॥
१. नैमित्तिकेन रूपेण तथा परिणतेः । २. मृदादिरूपेण तथाऽपरिणतेः । ३. कार्यमधिकृत्योक्त्वा कारणमधिकृत्याह-। ४. एतदकमेव । ५. 'तर्हि' इति शेषः । ६ यथा वा कार्यान्तरं न करोति, एवं स्वकार्यमपि न कुर्यात् । ७. अकर्तृत्वानन्याकर्तृत्वस्य । अवचूरित्यु(त्य) क्तम् (2)। ततश्चवमनेनप्रकारेण 'अकारण त्वम् ।इति कुर्वतः कारणत्वायोगात्। ८. अधिकृतकारणस्य । ९. नैव किञ्चिदन्यत् । १०. एवं च तंदकमेव इत्यर्थः ११. स्वभावेन । १२. अन्यथा सर्वथैकत्वायोगः । १३. कारणे । १४. कारणे । १५. कार्यान्तराकर्तृत्वस्याविद्यमानत्वात् । १६. कार्यान्तरकर्तृभावापत्त्य।। १७. न हि तद्भावमन्तरेण तदभावः, इति भावना।
For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः अथाशङ्का,-स्वकार्यकर्तृत्वव्यतिरिक्त कार्यान्तराकर्तृत्वं परिकल्पितम् ,स्वकार्यकर्तृत्वमेव पुनः कार्यान्तराकर्तृत्वस्वभाषमभ्युपगम्यत एव, इति ।
एतदप्ययुक्तम् , दत्तोत्तरत्वात् ; तथाहि-येनैव स्वभावेन करोति तेनैव न करोति,इत्येतदापनम् ,इत्यादि तदेवावर्त्तते। अनेनैव “सर्वात्मना च करणे तद्भावरूपमेव स्याद्" इत्यादि प्रतिक्षिप्तम् , अभावस्य वस्तुधर्मस्वात् कथञ्चिदव्यतिरेकात् । कार्यान्तराकारणत्वाद् ; इति । तस्माद् व्यवस्थितमेतत्सद सद्रपवस्तु; तथा चोक्तम्
" यस्मात् प्रत्यक्षसंवेद्यं, कार्यतोऽप्यवगम्यते । तस्मादवश्यमेष्टव्यं, वस्त्वेक सदसदात्मकम् ॥१शा" इति ॥
अनान्यस्त्वाह ननु च 'वस्तुनः स्वरूपेण सत्वम् , पररूपेण चासत्त्वम् इति, एतदिध्यत एव' इति सिद्धसाध्यता ।। ___एतदप्ययुक्तम् ; स्वमतविरोधात् ; तथाहि-एवमिच्छता र 'वस्तुन एव सत्त्वमसत्त्वं च धर्मों' इत्येष्टव्यं, घक्तव्यंच,धर्मधर्मिणोरन्यत्वमनन्यत्वमन्यानन्यत्वंच, इति । किं चातः ? यद्यन्यत्वम् ,अवस्तुत्वाविप्रसङ्गाकथम्?इह'वस्तुधर्मव्यतिरिक्तं स्वरूपेण सत्पररूपेण चासद्' इत्यभ्युपगमात् । धर्माणां च परत्वात्तद्रूपेणासस्वादवस्तुत्वप्रसङ्गः । एवं धर्माणामपि वस्तु. व्यतिरिक्तत्वात्स्वरूपेण सत्वं पररूपेण चासत्त्वम् , इति धर्मा
।
१. स्वकार्यकर्तृत्वव्यातरिक्तत्वरूपेण कार्यान्तराकतृत्वं पारकाल्पतमुच्यते, स्वकार्यकर्तृत्वाव्यतिरिक्त त्वस्त्येव इत्यर्थः, इत्युक्तदोषाभावः; इाते पराशयः । २. उक्तन्यायेन। ३. पूर्वपक्षप्रस्ताव परेणोक्तं ...तदभावस्य । ४. वैशेषिकादिः । ५. उभयात्मकम् , इति भावः । ६. आदिपदाद धर्मधार्मप्राप्तिपारग्रहः । धर्मा अपि धर्मिणः प्राप्नुवन्ति,इति दोषः । ७. सदादिना धर्मरूपेण । ८. प्रस्तुतानाम । ९ . हेतोः ।
For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः न्तरप्राप्तिः, तंत्राप्ययमेव न्यायः; इत्यनिष्ठा ॥
स्यादेएतद्, न धर्माणां धर्मान्तरमिष्यते, अपि तुत पव स्वरूपेण सन्ति, पररूपेण न सन्ति' हाते; न तद्विलक्षणे सदसत्वे इति ।
एतदप्यसमीचीनम् , वस्तुन्यपि समानत्वात् , धर्मामावप्रसङ्गेनाभ्युपगमविरोधात्, तद्भावेऽपि तस्य' इति सम्बन्धानुपपत्तेः, समवायकल्पनायाः स्वधर्मेम्वपि तुल्यत्वात् ॥
१. धर्मान्तरयोरपि । २. धर्माणाम... । ३. पूर्वोक एव । ४. निष्ठा परिसमाप्तः, न निष्ठा, अनिष्ठा, अपरिसमाप्तिर्व्यवस्थेत्यर्थः । ५. वैशेषिकः । ६. धर्माः । ७. धर्मि । ८. अतो न धर्माणां धर्मान्तरप्रा. प्तिः, इति भावः; तथा हि-तदेव स्वरूपेण सत्, पररूपेण चासत्, इ. त्यपि वक्तुं शक्यत एव, अङ्गीकारेण चास्य पक्षस्य धर्माभावः । व्यतिरिक्तधर्माभावेऽपि तस्य वस्तुन एते 'धर्माः' इति सम्बन्धासिद्धः । वस्त्वन्तरेण विशेषादित्यर्थः । ९. योऽपि व्यतिरिक्तैरपि धर्मः सह धर्मिणः सम्बन्धोपपत्तये स्वसंवेधकस्वभावः समवायिसम्बन्धकस्वभावचेह प्रत्ययहेतुः समवायः पदार्थः कल्प्यते परैः, तस्यापि स्वसम्बन्धकस्वभावत्वादिभिः स्वधर्मः सह व्यतिरिक्तविकल्पे दोषाशनिरनिवारितअसरः । तथाहि, यदि ते ततो व्यतिरिकाः, 'तस्य' इति कः सम्बन्धः? । अथाव्यतिरिकाः, तर्हि एकत्वम्, अधिकृतस्वभावानां एकस्मात्समवायादव्यतिरिक्तत्वात् , तत्स्वरूपवत् ; अनकत्वं वा समवायस्याधिकृतस्वभावा व्यतिरिक्तत्वात् ,तत्स्वरूपवदव, इति।समवायोऽपि स्वसम्बन्धस्वभावत्वसत्त्वादिषु धर्मेष्वनुपपद्यमानसम्बन्धः,कथमन्येषां धर्मिणां धर्मः सह सम्वन्धमुपपादयितुमलम्?इत्यर्थः, तस्येति सम्बन्धानुपपत्त्या । १०. तथा च धर्मधर्मिव्यवस्थायोगः, अन्योऽन्यात्मकत्वेनेतरनिराकरणात् । तथाहि,-यदि धर्मिणोऽव्यतिरिका धर्माः, ततो धर्मिमात्र ते, तदव्यातरिक्तत्वात् , तत्स्वरूपवत्, इति । न सन्त्येव 'धर्माः' इति इतरनिराकरणम्, एवं धर्मिणोऽपि वाच्यम्, धर्माव्यतिरेकादिति । अनिराकरणेऽपीतरस्य सदसत्त्वयोरेकत्वेनैक धर्म्यव्यतिरेकद्वारायातेन तद्वस्तु यथास्वरूपेण सद् , एवं पररूपेण स्यात् : धर्माव्यतिरेकाद् धर्मिण एवासत्त्वं भविष्यात, इत्याह-असम्भवीति ।
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
___ अथानन्यत्वं, तयोरेकत्वप्रसङ्गः, एकस्माद्धर्मिणोऽनन्य. स्वात् , तत्स्वात्मवत् ; एवं च सति सदसत्त्वयोरभिन्नत्वात् तद्यथा स्वरूपेण सत्, एवं पररूपेणापि स्याद् ; इत्याद्युक्तम् । असम्भविनौ च निराधारौ धौ सदसद्रपौ ॥
तथान्यानन्यत्वम्, अतोऽनेकान्तवादाभ्युपगमादेकान्तवादिनः स्वमतविरोधः; इत्यलं प्रसङ्गेन ॥
इति सदसदुभयरूपैकवस्तुवादः ॥ ___ यञ्चोक्तम् -" एतेन नित्यानित्यमपि प्रत्युक्तमवगन्तव्यं विरोधादेव" इत्यादि, एतदपि न सम्यक्, प्रमाणतस्तथावगमात्; तथाहि-अध्यक्षेण नित्यानित्यमेव तदवगम्यते, अन्यथा तदवगमाभावप्रसङ्गात् ; तथा च, यदि तत्राप्रच्यु तानुत्पन्नस्थिरैकस्वभावं सर्वथा नित्यमभ्युपगम्यते; एवं तर्हि तद्विशानजननस्वभावं वा स्याद् ? अजननस्वभावं वा! यद्याधः पक्षा, एवं सति सर्वत्र सर्वदा सर्वेषां तविज्ञानप्रसनः, तस्यै खभावत्वात ; न चैतदेवं । क्वचित्कदाचित्कस्यचिदेव तद्विशानभावात् । न च 'सर्वथैकस्वभावस्य देशाविकतो विशेषः' इति कल्पना युज्यते, तद्भावेऽनित्यत्वप्रसनात् “सहकारिणमपेश्य जनयति' इति चेत् ? न, एकान्तनित्यस्यापेक्षायोगात्; तथाहि-सहकारिणा तस्य विशेषः क्रियते ? न वा ? इति वक्तव्यम, यदि क्रियते; किमर्थान्तरभूतः ? अनर्थान्तरभूतो वा ? इति, यद्यर्थान्तरभूतः, तस्य किमाया तम् ? 'स तस्य विशेष कारक:' इति चेत् ! न, अनवखाप्र. सगात्; तथाहि-सै विशेषस्ततो भिन्नः ? अभिन्नो वा ?
१. नित्यानित्य प्रकारेण । २. एवमनभ्युपगमे । ३. भावयति । ४. वस्तु । ५. क्षेत्रे । ६. प्रमातृणाम् । ७. अधिकृतवस्तु । ८. वस्तुनः । ९. क्षेत्रकालादिभिर्विशेषाधानात् । १०. तस्मिन् वस्तुनि । ११. प्रकृतमेव समर्थयति । १२. वस्तुनः । १३ न हि प्राक्स्वभावनिवृत्तिं विना वस्तुनो विशेषः । १४ आलोकादिकम् १५. वस्तुविज्ञानम् । १६. एकरूपतया । १७. वस्तुनः । १८. तत्तदवस्थमेव । १९. विशेषोऽर्थान्तरभतः । २०. वस्तुनः । २१. मूलविशेषकृतः । २२. वस्तुनः ।
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
२३ तदेवावर्तते, इत्वनवस्था, ( चक्रकं वा )। - अथानान्तरभूतः, स विद्यमानः ? अविद्यमानो वा ? यदि विद्यमानः, कथं क्रियते ? करणे वाऽनवस्थाप्रसङ्गः ।
अथाविद्यमानः, व्याहतमेतत् , स ततोऽनर्थान्तरभूतोऽ. विद्यमानधेति, करणे वाऽनित्यतापत्तिरिति; तथाहि-तस्मिन् क्रियमाणे पदार्थ एव कृतः स्यात्, तदव्यतिरिक्तत्वात्तस्य । अथ माभूदेष दोषः, 'न क्रियते' इत्याश्रीयते, न तर्हि स तस्य सहकारी, अकिञ्चित्करत्वाद्, भावे वाऽतिप्रसङ्गः, इति; तथाहि-यदि कञ्चन विशेषमकुर्वन्नपि स तस्य सहकार्यभ्युपगम्यते, सर्वभावानामेव तत्सहकारित्वप्रसङ्गः, तद्विशेषाकरणेनाविशेषाद , इति व्यर्था सहकारिकल्पना ॥
अथोच्यते-एवंभूत एव तस्य वस्तुनः खभावः, येनाविशे पकारकमा प्रतिनियतमेव सहकारिणमपेक्ष्य कार्य जनयति,इति।
एतदपि मनोरथमात्रम्, विकल्पानुपपत्तेः ताद्ध यदाभीष्टसहकारिसन्निधौ कार्य जनयति, तदाऽस्यानन्तरादितसहकार्यपेक्षालक्षणः स्वभावो व्यावर्तते ? न वा ? इति वक्तव्यम् यदि व्यावर्तते, अनित्यत्वत्वप्रसङ्गः, स्वभावव्यावृत्तौ स्मावपतोऽपि तदव्यतिरेकेण तद्वदेव निवृत्तेः । अथ न व्यावरते,
१. सहकारिणा विशेषः क्रियते । २. विद्यमानत्वाशिषण भूयोभयः करणम् , इत्यनवस्था । ३. विद्यमानाव्यतिरिक्तो दिमान एन । ४. करणे वा व्यतिरिक्तस्याविद्यमानस्यानित्यतापात्तबरला, याद तस्मिन् व्यतिरिक्त विद्यमाने विशेष क्रियमाणे पदार्थ व कृतः स्यात् । ५. पदार्य । ६. विशेषस्य । ७. सहकारिणो विशेषः । ८. आलाकादिकम् । ९. विशानादि । १०. वस्तुनः । ११. अकिञ्चित्करसहकाार ।
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४
अनेकान्तवादप्रवेशः
"
"
कार्याजननप्रसङ्गः, तत्स्वभावानिवृत्तेः पूर्ववत्; तथाहिय एव तस्य कार्याजननावस्थायां स्वभाव: जननावस्थायामपि स ऐत्र, इति कथं जनयति ? सर्वदा वा जननप्रसङ्ग इत्येवं तावदेकान्तनित्यपक्षे विज्ञानादिकार्यायोगात् तदव-गमाभावः इति ॥
,
अथ, अपि प्रकृत्यैकक्षणस्थितिधर्मकं एकान्तानित्यमभ्युपगम्यते ? एवमपि विज्ञानादिकार्यायोगात् तदवगमाभाव एव । न च सर्वथैकक्षणस्थितिधर्मिणो विज्ञानादिजनक मुपपद्यते, तस्यैवायोगात् ; तथाहि - क्षणस्थितिधर्मकं - क्षणस्थितिस्वभावमुच्यते इति; अतोऽर्थादेवास्य द्वितीयादिवस्थितिः, इत्यकामेनापि प्रतिपत्तव्यम्, न्यायानुगतत्वात्; तयोश्च स्थित्वस्थित्योः परस्परतोऽन्यत्वम् ? अनन्यत्वं वा ? इति वाच्यम् ॥
ang
किं चात: ?
यद्यन्यत्वं किं सर्वथा ? आहोश्चित् कथञ्चित् ? यदि
१. अकिञ्चित्करसहकार्यपेक्षालक्षणस्वभावानिवृत्तेः । २० दृष्टान्तः । ३. सर्वदा स्वस्वभावानिवृत्तेः । ४. कार्यम् - ( शेषः) । ५० पूर्वमपि । ६० स्वभावाभेदात् । ७० तेन सहकारिणा सह जननस्वभावत्वात् । सहकारिभावे जनयति, सहकार्यभावाच्च न पूर्वमपि जनयति, शर्त चेत् ? न, सहकारिणा सह कार्यजननस्वभावत्वस्यापि नित्यत्वे सति सदाकार्यजननप्रसङ्गात्; अन्यथा तस्य नित्यतानुपपत्तेः । तथाहि यदि सदा तेन सहकारिणा कार्यजननस्वभावं वस्तु, तर्हि सदा किं न जनयति कार्यम ? अजनयद्वा, कथं सदा तत्स्वभावं ? ततश्च यदा कार्य भवति, तदैव तज्जननस्वभावं न तु सदा, इत्यवश्य मङ्गीकर्तव्यम् ; अन्यथा, सहकारिणोऽपि सदाभावापत्तिः, सदा तेन सहकारिणा सह तज्जननस्वभावत्वाद्वस्तुन: । एवं स्वभावभेदे सति कथं वस्तुन एकान्तनित्यता ? इति चिन्त्यम् । ८. एकान्तानित्यता । ९० वस्तुन एष । २०० तदभावभाविनो विशानस्य तत्कार्यत्वासिद्धेः, अर्थस्यात्यन्तपरोक्षत्वात् ।
,
For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
२५
सर्वथा, ततो द्वितीयादिक्षणेष्वपि स्थितिप्रसङ्गः प्रथमक्षणस्थितेः द्वितीयादिक्षणास्थितिविभिन्नत्वान्यथानुपपतेः ; तथा . हि, अनन्तराकान्तविग्रहाणां भावानामस्थित्यैकान्तभिन्नया वर्त्तमानसमयभाविनां स्थितिर्न विरुध्यते इति एवं द्वितीयादिक्षणास्थितेरपि तदत्यन्तभेदे तद्भावाविरोधः, इति भावना ॥ अथ कथञ्चिदन्यत्वम् इति १ अतोऽनेकान्तवादापस्याs भीष्टसिद्धिरेवास्माकमिति ॥
"
अथानन्यत्वम्, तदपि सर्वथा ? कथञ्चिद्वा १ इति कथनीयम् । यदि सर्वथा, प्रथमक्षणस्थितिरेव द्वितीयादिक्षणास्थितिः । सा च भावरूपा, ततश्च द्वितीयादिक्षणेष्वांपे स्थितिरेव स्यात् । द्वितीयादिक्षणास्थितेर्वा निरुपाख्यत्वात्त रया एव प्रथमक्षणस्थितित्वात् प्रथमक्षणेऽप्यभावप्रसङ्गः । अथकथञ्चिदन्यत्वम् इति ? पूर्वोक्तो दोषः । अथ द्वितीयादिक्षणास्थितेनावरूपत्वान्न प्रथमक्षर्णेस्थित्या अन्यानन्यत्वकल्पना
युक्तिमती ।
स्यादेतत्-यदि अमावाद्भेदाभेदौ विहाय घर्त्तेत । अथ तदुत्तरकालभावार्थान्तर स्थितिरवे विवक्षि तस्य द्वितीयादिक्षणास्थितिरिति । हन्त ! तर्हि खुतरामन्यानन्यत्वकल्पनायाः प्रसरः, तथा च सति पूर्वोक्तदोषानतिष्टतिरेव । अथ द्वितीयादिक्षणास्थितिः परिकल्पितत्वान्न परिकल्पनीया इति । एवं तर्हि तस्यापरिकल्पितत्वादसत्ताद्वितीयादिक्षणेष्वपि स्थितिः स्यात् । अथ प्रथमक्षणस्थितिव्यतिरि
१ यथा हि--क्षणिकस्य घटादेः स्वकाले पटादिक्षणेन सह वस्त्वन्तरत्वान्न विरोधः । एवं द्वितीयक्षणभाविन्या स्थित्यापि सह प्रथमक्षणस्थिर्न विरोधः, अन्यत्वाविशेषात् । ततश्च स्खलनाभावाद् द्वितीयेऽपि क्षणे प्रथमक्षणभाक् सत्त्वं स्थितिमदनुषज्यते । २. क्षणास्थितौ ३. अनेकान्त-वादापत्तिलक्षणः । ४. भावरूपया । ५. अन्यत्वानन्यत्वप्रकारौ मुक्त्वा प्रकारान्तरेण यदि वर्तेत २ प्रथमक्षणात् । ७. यद्यन्यत्वम्, तदोत्तरकापदार्थान्तरस्थितिक्षणेऽपि पूर्वकालभाविपदार्थक्षणस्थिति प्रसङ्गः; अथान:न्यत्वम्, तदेकतरा काचित् । ८. अन्यान्यत्वकल्पनारूपेण |
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तावप्रवेश: क्ताद्वितीयाविक्षणास्थितिः परिकल्पिता,इति प्रथमक्षणस्थितिरेखें । तहि द्वितीयादिक्षणास्थितरित्यत्र चोक्तो दोषः । अर्थ क्षणस्थितिधर्म वस्त्वेव द्वितीयादिक्षणास्थितिः,तिन, तस्यैवायोगात् ; तथाहि-"क्षणस्थितिधक क्षणस्थितिस्थमाधमु. च्यते" इत्यादि तदेवावर्तते, इति । अथोच्येत-द्वितीयाविक्षणास्थितौ सत्यां प्रथमक्षणस्थितरभावात् ,भावे वा तदर्नुपपत्तेः, प्रतियोग्यभावादन्यानन्यत्वकल्पनाऽसम्भवतस्तदुत्थदोषाभावः; तथाहि-द्वितीयादिक्षणे तदेव न भवति ।नन्धेवमपि तस्यैवास्थितत्वात् स्थितिवत् तदनवस्थितस्तद्धमत्वमा सङ्गः, अत•म्मत्वे च तदा स्थित्यापत्तिः; तथाहि- द्वितीयक्षणे तस्यैव स्थितिरिति, ततश्च ‘खतुभ्य एव स्थित्यनवस्थितिधर्मकं समुत्पद्यते' इति प्रतिपत्तव्यम् । न चाक्रमवतः कारणात् क्रमवद्धर्माध्यासितकार्योत्पत्तिर्युज्यते, इति । अतो
१. द्वितीयादिक्षणास्थितिः प्रथमक्षणास्यात्.व्य.....वंशेनैव परिकल्पि. ते त्युच्यते।२.प्रथमक्षणं च इति व्यतिरिक्तत्वात् सावित्युक्तदोषाभावः, इति पराशयः । ३. अनन्यत्वपक्षोदितः । ४. अयैकस्मिन् वस्तुन्यन्यानन्यत्व. विकल्पमसम्भावयन्नेवमाह पर:-१५.एत...ये...क्तम्।६.प्रथमक्षणस्थितेः । ७. द्वितीयादिक्षणस्थितेः । ८. यदा द्वितीयादिक्षणास्थितिः , तदा प्रथम. क्षणस्थितेरभावः; यदि स्याद्भावः, तदा तस्या द्वितीयादिक्षणास्थितेरनु. पपत्तिः, तस्य प्रथमक्षणस्थितिभाविनः पदार्थस्य सम्बन्धिनी असौ द्विती. यक्षणभाविनी अस्तु, इति कृत्वा ततश्च पक्षद्वयेऽपि प्रतियोगिनो द्वितीयस्याभावादन्यानन्यत्वविकल्पानुपपत्तिः। ९. यत्प्रथमक्षणेऽभूदिति । १०. सूरिः । ११. स्थितस्यैव । १२. वस्तु । १३. वस्तु । १५. अनवस्थित्यभावे अनवास्थतिकाले । १५. अनपस्थितिधर्मकत्वमेव वस्तुनो दर्शयति । १६. निरंशैकस्वभावत्वेन युगपत्कियाकारिणः ।
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
यदैव स्थितिस्तदैवास्थितिः स्यात्, कुतः क्षणस्थितिधर्मकत्वम् इति । सत्यां वा स्थिती, क्षणस्थायित्वे तयां स्थित्या विरोधात्, प्रथमक्षणवत् सदा स्थितिप्रसङ्गः । न च 'निरंशतत्वभावेभ्यो हेतुभ्यस्तत्स्वभावमेवोत्पद्यते,' इत्युच्यमानं विद्ध ज्जनसमवाये राजते, युक्तिवैकल्याद्, उभयत्र कारणे कार्य च स्वभावान्तरकल्पनाया अपि शक्यत्वात् । __ स्यादेतदू, अशक्या स्वभावान्तरकल्पना, अर्थक्रियाऽभावप्रसङ्गात्, इति ।
एतदप्यभद्रकम्, क्षणस्थितिधैर्मक एव वस्तुतस्तदभावप्रसङ्गात; तथाहि-यथोक्तस्वभावं वस्त्वेवार्थक्रिया, यथोक्तम् -' भूतिर्येषां क्रिया सैव' इत्यादि, तञ्च न घटामटति, इति निदर्शितमेतद्, अलं विस्तरणेति । .
१. इदमुक्तं भवति, यदि द्वितीयादिक्षणे तदेव न भवति इति कोऽर्थः? क्षणनश्वरं वस्त्वभ्युपगम्यते, तदोक्त नीत्या 'यदैव स्थितिस्तदैवास्थितिः इति, क्षणमात्रमपि वस्तुनः स्थितिर्न स्यात् । अथैवं वक्षि-यथा 'क्षणनश्वरं वस्त्वभ्युपगम्यते, तथा क्षणस्थाय्यपि, क्षणस्थायित्वं स्थितौ सत्यां सम्भवति,' इति 'यदैव स्थितिः तदैवास्थितिः' इतिः दोपाभावः, न, एवं सति या प्रथमक्षणस्थितिर्वस्तुनः, एवं द्वितीयादिक्षणेष्वपि सदा स्थितिः प्रसज्यते, तया स्थित्या सह द्वितीयादिक्षणानामप्यविरोधात् । २. प्रथमक्षणभाविन्या। ३. क्षणस्थितिधर्मक । ४. क्षणस्थितिधर्मकमेव कार्यम् । '५. 'नित्यस्वभावात् कारणान्नित्यस्वभावमेव कार्यमुपपद्यते' इत्यस्याः । ६. नित्यस्वभावकल्पना । ७. नित्यं हि वस्तु, अप्रच्युतानुत्पनस्थिरैकस्वभावत्वान्नार्थक्रियां क्रमेण युगपद्वा कर्तुमलम् । ८. वस्तुनि । ९. अर्थक्रिया । १०. क्षणिकमृत्पिण्डादितः क्षाणकघटादेः सत्ता अक्रियावादिनः ।
क्षणिकाः सर्वसंस्काराः अस्थितानां कुतः क्रिया ॥ भतिर्येषां क्रिया सर्वकारणं सैव चोच्यते ॥ १ ॥..............
For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
૧૮
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
किं चं- अत्रापि धर्मधर्मिणोर्नानाम् ? अनानात्वं च ?' इति वाच्यम् । यद्यनानात्वम्, कि सर्वथा ? उत कथंचिद् ? यदि सर्वथा, ततः स्थित्यस्थित्योरेकत्वम्, एकस्माद् धर्मिणोऽनानात्वा तत्स्व । एवं च स्थिति
सङ्गोऽस्थितिप्रसङ्गो वा; धर्मिणो वादः स्थित्यस्थित्योरनानात्वात्, तत्स्वात्मैपदक तथा च-जन्यंदेव स्थितिमद् अन्यैव तच्छून्यम् इति कुतः क्षणस्थितिधर्मकत्वम् १ | अथ कथंचिद्, अभ्युपगमविरोधः । अथ नानात्वम्, तदपि सर्वथा ? कथंचिद्वा । इति; यदि सर्वथा, हन्त ! तहि स्थित्यस्थितिस्वभावशून्यत्वान्निःस्वभावत्वात् कुतोऽभीष्टवस्तुस्थिति: ? । अथ कथंचिदू, अश्रोक्तो दोषः ॥
स्यादेतद्, परिकल्पितो धर्मधर्मिभावः, न पुनर्वास्तवः इति; एवमपि धर्मधर्मिणोः परिकल्पितत्वाच्छ्रन्यताप्रसङ्गः तदेवमापे कुतः क्षणस्थितिधर्मकत्वम् ? इति ।
तेदितव्यावृत्तिद्वारायाता धर्मा एव परिकल्पिताः, न धर्मी, इति चेत् ? एवमपि स्थित्यस्थित्यादिलक्षणपरिकल्पितधर्मव्यतिरिक्तस्य धर्मिणः के स्वरूपम् १ इति वाच्यम् ।
क्षणस्थितिधर्मकत्वम् ? इति चेत्, न तस्यैवायोगादू : इत्यादि तदेवावर्त्तते इत्यलं प्रसङ्गेन ॥
१. क्षणिकवादिमते । २. धर्मि । ३. वस्तुनः स्थितिर्वा स्याद् ? अस्थितिर्वा ? । ४. अभिन्नत्वात् । ५. वस्तु । ६० वस्तु । ७. स्थिति । ८. भेदः । ९ अत एव । १०. क्षणस्थितिधर्नकः । असत्त्वात् ।११. नश्वराद व्यावृत्तोऽनश्वरः, तस्माच्च व्यावृत्तो नश्वरः, इत्यादि, व्यावृत्तिद्वारायातत्वान्नश्वरादयो धर्मा एवापारमार्थिकाः, एकस्वरूपं वस्तु पुनः परमार्थसदेव !
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
1
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
२९.
तदेवमिहापि विज्ञानादिकार्यायोगः इति स्थितम् । नित्यं [ नित्यं ] पुनः कथञ्चिदवस्थितत्वादनेकस्वभावत्वा जनयतीति विज्ञानादिकमित्यतोऽवगम्येते इति ।
pa
नित्यानित्यत्वं च वस्तुनो द्रव्यपर्यायोभयरूपत्वादनुवृतव्यावृत्ताकारसंवेदन ग्राह्यत्वात् प्रत्यक्षसिद्धमेव, तथाहि - मृत्तिण्ड शिवकस्थास घटकपालादिष्यविशेषेण सर्वत्रानुवृत्तो मृदन्वयः संवेद्यते, प्रतिभेदं च पर्यायव्यावृत्तिः; तथा च-न यथाप्रतिभासं मृत्पिण्डे संवेदनं तथाप्रतिभासमेव शिवकादिषु, आकारभेदानुभवात् । न च यथाप्रतिभासभेदं तद्विजातीयेषूदकदहन पवनादिषु तथा प्रतिभासभेदमेव शिवकादिषु, मृदन्वयानुभवात् । न चास्य स्वसंवेद्यस्यापि संवेदनस्यापह्नवः कन्तु युज्यते, प्रतीतिविरोधात् । न चे निराकारं संवेदनम थान्तरस्येव ततो विवक्षितार्थापैरिच्छेदात् । नैं हाथकारानुमवव्यतिरेकेणापरोऽर्थपरिच्छेदः, अतिप्रसङ्गात्, सर्वस्य सर्वापरिच्छेत्तृत्वांपत्तेश्च । न चं ' इदं संवेदनं भ्रान्तम्' इति शक्यते वक्तुम्, देशकालनरावस्थान्तरे विशेषेण प्रवृत्तेः; तथाहि - देशान्तरे कालान्तरे नरान्तरेऽवस्थानान्तरे च मृत्तिण्डादिषु यथोक्तसंवेदनं प्रवर्त्तते । न चार्थप्रभवमविसंघ दिसं वेदनं विहाय जातिविकल्पेभ्यः पदार्थव्यवस्था युज्यते, प्रतीतिबाधितत्वेन तेषामनादेयत्वात् । न चैकान्तनित्यषु यथोक्त
"
•.
१. द्रव्यरूपतया । २. नित्यानित्यं वस्तु । ३. यथाकारम् । ४. मृत्पिण्ड । ५. निराकारं बोध... ममवे संवेदनमुच्यते । ननु साकारम्, अतोऽनुवृत्तव्यावृत्ताकारं संवेदनमसंवेदनमेव इति न वाच्यम् इत्यर्थः । ६. निर्विषयस्यैव विषयारूढस्यापि ततो निराकारात् सकाशात् परिच्छेदाभावात् । ७. एतद्भावयति । ८. अतिप्रसङ्गश्च तदाकारताभावे निर्वियस्येव सर्विषयस्याप्यपरिच्छेदेन । ९. परिच्छेद्यवदपरिच्छेद्याकारशून्य. स्वाविशेषाद् इति हृदयम् । १० अन्वयव्यतिरेकवत् । ११. ननु गननावनति मायोदकस्थाणुपुरुषशङ्खादिपातादिसंवेदनवद् देशान्तरादावन्यथा रूपम्, इति । १२. व्यतिरिक्ताव्यतिरि कलक्षणेभ्यः। १३. अनुवृत्तव्यावृत्ताकार |
For Private And Personal Use Only
む
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेश
संवेदनसम्भवः, व्यावृत्ताकारनिवन्धनस्य पर्यायभेदस्याभावाद् ; अन्यथा, एकान्तनित्यत्वानुपपत्तेः, तथा चोक्तम्
भावेष्वेकान्तनित्यषु नान्वयव्यतिरकवत् । संवेदनं भवेद धैर्ममेदाभावादिह स्फुटम् ॥१॥ इत्यादि ।
तथा एकान्तनश्वरेष्वपि नाधिकृतसंवेदनभावो युज्यते, अनुवृत्ताकारनिबन्धनस्य द्रव्यस्यान्वयाभावात् । न च निरन्वयनश्वरवादिनः तदन्यप्रभवः सम्भवति, सर्वथा हेतुनिवृत्ताः वहेतुकत्वेप्रसङ्गाद; अन्यथा, अन्वयसिद्धेः, इति । उक्तं च
" सतथा कारणोच्छेदाद्भवेत् कार्यमहेतुकम् । .. तच्छक्त्यवयवाधारस्वभावानामनन्वयात् ॥१॥ इत्यादि।।
नचाऽस्य संवेदनस्य बाधकः प्रत्ययोऽस्ति, कदाचिदप्यनुपलब्धेः। न च 'योगिप्रत्ययो बाधक: ' इति युज्यते वक्तुम् , प्रमाणाभावाद । उक्तं च
क्षणिक योगी विजानाति, न नित्यं चेति का प्रेमा । देशनायो विनेयानुगुण्येनापि प्रवृत्तितः॥१॥" इत्यादिन
१. पर्यायभेदे सति । २. पर्यायभेदात् । ३.अन्वयव्यातिरेकवत् ।४.ततो निरन्वयनश्वराद्वस्तुंनस्तत्सदृशस्यान्यप्रभव उत्पादः ५. मृत्पिण्डाद्यभावमाश्रित्य घटादेरुत्पादात् । ६. तत एव तद्भावे । ७. स्वभावाद भावभूते । ८. तच्छक्ते:-कारणशक्तेः, अवयवाः-शक्तिशक्तिमतौरभेदात् कारणावयवा एव; तच्छक्त्यवयवाश्च ते आधारस्वभावाश्च, इति, प्रक' मात् कार्यस्य, इति विग्रहः, तेषामन्वयादुच्छेदेन। ९. अन्वयव्यतिरेकवतः। १०. जातिविकल्पभावनाकालेऽपि. अपास्ताशेषप्रपञ्चः । ११. योगिप्रत्ययाग्रहणाद्, इत्यर्थः । १२. न किंचित्प्रमाणं तज्ज्ञानाग्रहणात् १३. 'देशना प्रमाणं भविष्यति'इति। एतदपोहायाह-भूतात्मनो द्वैताद्वैतदेशनावद्, ब्राह्मणस्य मृतजायामृतदेशनावच्चेति ।
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SHITAVAILA
Shri Mahavir Jain Aradhana Kendra
अनेकान्तवादप्रवेशः
तस्माद् ' अन्वयाविनाभूतो व्यतिरेकः, व्यतिरेका घिनाभूतश्चावैयः, इति' वस्तुस्वभाव:, तथा चोक्तम्
" नान्वयः सहभेदित्वान्न भेदोऽन्वयवृत्तितः । मृद्भेदद्वय संसर्गवृत्तिजात्यन्तरं घटः ||१|| " इत्यादि ।
तस्माद् तद्यत एव नित्यम्, अत एवानित्यम् ; द्रव्या त्मना नित्यत्वात् तस्यै चाभ्यैन्तरीकृतपर्यायत्वात् । यत एकः चानित्यम्, अत एव नित्यम्; पर्यायात्मनाऽनित्यत्वात् तस्यः चाभ्यन्तरीकृतद्रव्यत्वात् । उभयरूपस्य चानुभवसिद्धत्वात् । एकान्तभिन्नस्य चोभयस्याभावात् । उक्तं च
३२
द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः ।
क्वं कदा केन किंरूपी दृष्टा मानेन केन च || १ ||" इत्यादि । स्यादेतत्- पर्यायानेवृत्तौ द्रव्यनिवृत्तिर्भवति किं वा न ? इति । किं चातः ?
"
यदि भवति, अनित्यमेव तत्, निवृत्तिमच्चात् पर्यायस्वात्मवत् । अथ न भवति, हन्त ! तर्हि द्रव्यपर्याययोर्भेदप्रसङ्गः; तथाहि - पर्यायेभ्योऽन्यद्द्रव्यम्, तन्निवृत्तावपि तस्य निवृत्तेः क्रमेलकादिव कर्कः, इति । एतदप्ययुक्तम् कैथं विनिवृत्तिभावात् । अस्य चानुभवसिद्धत्वात्; तथाहि
"
१. तद्गर्भत्वात् । २. तद्गर्भत्वात्
,
३. स घटो नान्वय एव कुतः, इत्याह- उद्धवी दिरूपेण भेदित्वात् एवं न भेंद एव कुतः ? अन्वय वृत्तितो मृदूपेण प्रवृत्तेः किं तर्हि ? अन्वयव्यतिरेकसम्बन्धवर्त्तः मानं जात्यन्तरं घटः । ४. द्रव्यात्मनः । ५. द्रवति तांस्तान् पर्यायान् सद्भावपरिणामेन इति; अन्यथा, द्रवणानुपपत्तिः, इति भावना । ६. पर्यायात्मनः । ७. अन्यथा, पर्ययणायोग; इति हृदयम् । ८. देशे ९० प्रमात्रा । १०. इतरेतरवैकल्येन नीरूपतापत्तेः इत्यर्थः । ११. प्र. त्यक्षादिना । १२ पर्याय । १३. द्रव्यस्य । १४० * तन्निवृत्तत्वलक्षणेन..... * तस्य द्रव्यस्य संबन्धी निवृत्त
*******a
For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
अनका
अनेकान्तवादप्रवेश घटपर्यायनिवृत्तौ कपालकालेऽपि तंबुध्या मृदनुभूयत एव; तदेकान्तनिवृत्ती चोद्ध्ापि पर्यायवनानुभूयेत ।'ऊर्धादि निवृत्तित एव भेदसिद्धिः' इति चेत् न ऊ देरपि मृदः सर्वथा भेदासिद्धेः । न चासौ कपालमृद् घटमृदः सर्वथाऽन्यैव, तँदत्यन्तभेदे तयाँ अमृत्त्वप्रसङ्गात् ; यथोदकं न मृत् , तंतोऽत्यन्तभेदाद ; एवमसावपि स्यात् , तस्याविशेषाद् , इति ।
स्यादेत:-अमृत्स्वभावेभ्यो व्यावृत्तत्वात् कपाल पदार्थस्य मृत्स्वभावता, नोदकस्य, तेभ्यो व्यावृत्त्यभावाद , इति ।
एतदप्यसमीक्षिताभिधानम् , वस्तुनो सजातीयेतरव्या वृत्ताव्यावृत्तोभयस्वभावापत्तेः; तथाहि-अमृत्स्वभावेभ्य एवोदकादिभ्यो व्यावृत्तखभाषः; एवं सति कपालपदार्थः स्यात् । न तु मृत्पिण्डशिवघटादिभ्यो मृत्स्वभावेभ्योऽपि, तघ्यावृ. त्तावमृत्स्वभावत्वप्रसङ्गात् ; यथैवामृत्स्वभावेभ्यो व्यावृत्तः सं मृत्स्वभावो भवति, एवं मृत्स्वभावेभ्योऽपि व्यावृत्तोऽमृत्स्वभाव स्यात् , न्यायानुगतमेतद्, अन्यथा, अमृत्स्वभावव्यावृत्तावपि मृत्स्वभावानुपपत्तेः ।
१. कपाल ।२. मृदा सहात्यन्तभेदः । ३. मृनिवृत्ती...मूर्द्धादिपर्यायवभानुभूयते, नहि मृनिवृत्तावूर्खादिपर्यायोऽनुभूयते । ४. मृदनिवृत्तावपि सत्यामूर्खादिनिवृत्तित एव कारणादूदे......द्धिः, इति चेत् ? । ५. पर्याय ६. सकाशात्। ७. मृत्स्वरूपाननुविद्धयो दिपायानुपलम्भात् । घटमृदा सहात्यन्तभेदे।
८. घटमृदः ९. कपालमृदः १०. घटमृदःकपालमृत् ११. अमृदेव ।
१२. उदकादिभ्यः । १३.नयुदकममृत्स्वभावेभ्यो व्यावृत्तम् । १४. अमृत्त्वादेव । १५.कपालमृदादेः । १६. मृत्स्वभावव्यावृत्यभ्युयगमे सति १७व्यावृत्तस्वभावः। १८. मृत्स्वभावेभ्योऽपि । १९. सन् । कपालपदार्थः । २०. न्यायश्च 'यो यत्स्वभावेभ्यो व्यावर्तते, नासौ तत्स्वभावो भवति
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः wwwmwwwmammmmmmmmmmmmmmmmmmmmmmmm
स्यादेतद्, वस्तुनः सजातीयेतरव्यावृत्तस्वरूपत्वात् प्रतिनियतैकस्वभावत्वात्सर्वभावानां यथोक्तदोषाभावः, तथा चयथैवासी कपालभाव उदकादिभ्यो व्यावृत्तः सन् मृत्स्वभावः, एवं घटादिभ्योऽपि तस्यैकस्वभावत्वात्तेनैव रूपेण व्यावृत्तत्वाद्, इति ।
एतदप्ययुक्तम्, अनुभवविरुद्धत्वात् ; तथाहि-यदि, से यनैव स्वभावनामृत्स्वभावेभ्यो व्यावृत्तः, तेनैव मृत्स्वभावेभ्योपि; हन्त ! तर्हि, यथैवामृत्स्वभावभावैकान्तविभिन्नावभासहेतुः, तथैव मृत्स्वभावापेक्षयापि स्यात् । न च भवति, मृत्स्वभावस्यानुभूयमानत्वात् तस्यैव तथा परिणतिदर्शनात् ; अनुभवस्य चापह्रोतुमशक्यत्वात् 'अनुभवप्रमाणकाश्च सन्तोऽ
धिगमे' इति । प्रतिनियतकस्वभावानुभवनिबन्धनाभ्युपगमे च पर्यायतः समानपरिणाम एवाभ्युपगतः, इति न काचिन्नो बाधा । इत्यलं विस्तरेण । ... तथैकान्तानिवृत्तौ तद्विलक्षणबुद्धधभाव एव, इति न स्थाकपालबुद्धिः, विशेषाभावात् ; तस्याप्रच्युतात्पन्नस्थिरैकस्वभावत्वात्, इति । एतेन स्वादारेका-'नहि कूटस्थनित्यतया-' इत्ययम् । १. अत एव । २. कपालादीनाम् । ३. अमृत्स्वभावव्यावृत्तावपि । मृत्स्वभावत्वानुपपत्त्यवसानदोषाभावः । ४. व्यावृत्तो मृत्स्वभाव एव । ५. एकस्वभावेन । ६. कपालभावः। ७. उदकादिभ्यः। ८. हन्त इति विषादे । ९. तर्हि इत्यक्षमायाम् । १०. उदकादिभ्यः । ११. तदेकान्तविभिन्नावभा.सहेतुरेव । १२. कपाले । १३. शिष्टा अनुभवमेव प्रमाणं अर्थाधिगमविषये वदन्तीत्यर्थः । १४. ननु ज्वरादिशमनौषधनिदर्शनेन प्रतिनियतं मृत्पिण्डादिषु तथैकत्त्वस्वभावानुभवनिबन्धनं किञ्चिदिष्यत इत्येतदाशङ्कयाह-प्रतीतिप्रतिनियतं च तदेकस्वभावानुभवनिबन्धनं च तुल्यस्वभावानुकारणं चेति विग्रहः । १५. अत्र च वस्तुनि न किञ्चिदेकान्तेन निवर्तते, नापि तिष्ठति, तर्हि वस्त्वेकतत्तथा- भवतीति प्रसिद्धमेतत् , न चेह वस्तुनि किञ्चिनिवर्त्ततेऽपि किञ्चित् अन्यथा दोषः, इत्याह-एकान्तेत्यादि । १६. घटविलक्षणबुद्धयभावः । १७. कपाले बुद्धयभावहेतुर्विशेषाभावोऽपि तस्य घटवस्तुनः कुतः ? इत्याह-अप्रच्युतेत्यादि।
For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
इत्यादि यदाशङ्कयोक्तम्-'पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धिः' इत्यादि । तदपि प्रतिक्षिप्तमेधावगन्तव्यम् , कथंचिव्यतिरेकसिद्धेः, इति । तथाचोक्तम्
" द्रव्यपर्याययोः सिद्धो भेदाभेदः प्रमाणतः। संवेदनं यतः सर्वमन्वयव्यतिरेकवत् ॥ १॥ स्वसंवेदनसिद्धे च विरोधोद्भावनं नृणाम् । व्यसनं धीजडत्वं वा प्रकाशयति केवलम् ॥२॥ इत्यादि कृतं विस्तरेण ॥ इति नित्यत्वानित्यत्ववादः ॥२॥
(३)
यञ्चोक्तम्-" एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यम्" इत्यादि । तदप्ययुक्तम् , सामान्यविशेषरूपस्य वस्तुनोऽनुभवसिद्धत्वात् ; तथाहि- घटादिषु 'घटो घटः ' इति सामान्याकारा बुद्धिरुत्पद्यते, 'मार्तिकस्ताम्रो राजतः' इति विशेषाकारा च; पटादिर्वा न भवेति, इति । नार्थसद्भावोऽर्थसदावौदेव निश्चीयते, सर्वसत्त्वानां सर्वशत्वसङ्गात् । सर्वार्थानामेव सद्भावस्याविशेषात् ।
किं तर्हि ?
अर्थविज्ञानसद्भावान्निचयः, शानं च सामान्यविशेषाकारमेवोपजायते । इत्यतोऽनुभवसिद्धत्वात्सामान्यविशेषरूपं वस्तु इति । न च 'अयमनुभवो भ्रान्तः' इति युज्यते, घटादिसन्निधावविकलतदन्यकारणीनां सर्वेषामेवाविशेषणोपजायमानत्वात् ॥
१. भेदाभेद । २. 'घटः' इत्येवंरूपोल्लेखः । ३. कारणादेव । ४. कुतः प्रसङ्गः ? इत्याह- । ५. भवनोदरवर्तिनाम् । ६. सर्वसद्भावस्य । ७. सति । ८.सम्पूर्णालोकादिकारणामामित्यर्थः । ९. प्रमातॄणां सामान्येन भिक्षपायकादीनामपि।
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
-
स्यादेतद्-विकल्पोयं 'घटो घटः इत्येतद्रपपरावृत्तवस्तुजन्यः, संकेतवासनोत्थोपि तत्त्वान्न वस्तुस्वरूपप्राही, तग्राही तु सजातीयासजातीय व्यावृत्तवस्तुस्वलक्षणविषयत्वान्न यथोक्तप्रकारः; इत्यतो 'अनुभवसिद्धत्वाद् ' इत्ययुक्तम् ।
न, निर्विकल्पकानुभवस्यापि तत्त्वतो यथोक्तप्रकारात्, गृहीतग्राहित्वेन विकल्पस्य प्रामाण्यानभ्युपगमात्; अन्यथा, गृहीतग्राहित्वानुपपत्तेः; एकस्याकारभेदेनाप्रतिभासनात् , हेत्वयेगेन च परपंक्षे विकल्पाभावस्य प्रतिपादितत्वात् । इति ॥
किं च-यद्यसौ सजातीयासजातीयव्यावृत्सवस्तुस्वलक्षणप्रभवो निर्विकल्पकानुभवः, इति ।
अथ कस्मात्तत्पृष्ठभावी तत्सामर्थ्यजन्मा विजातीयभेदग्राहकविकल्पवत्सर्वथा सजातीयभेद ग्राहकविकल्पो न भवति? न च भवति, तथानुभवाभावात्। तस्मात्समानासमानपरिणामविशिष्टवस्तुप्रभव एवासावपि प्रतिपत्तव्यः, युक्तियुक्तत्वात्।
१. 'घटो घटः' इत्येवंरूपोल्लेखः । २. एतस्य घटस्य यद्पं सजातीयासजातीयव्यावृत्तिलक्षणम् , तस्मात् परावृत्तं-निवृत्तं पराभिमतत्वेन वस्तु सामान्याख्यम् , तज्जन्यः। ३. सामान्यविशेषाकारः । ४. सामान्यविशेषाकारत्वात् । ५. यदि निर्विकल्पकं सामान्यविशेषाकारं न स्यात्तदा सविकल्पकस्य यद् गृहीतं इत्येवंकारेण वा विशेषाकारा। ६. प्राहित्वमभ्युपगम्यते तन्नोपपद्यते, यदि हि सामान्यविशेषौ निर्विकल्पेन गृहीतौ सविकल्पं गृहणाति, तदैव तद्गृहीतग्राहित्वादप्रमाणं स्यात् । अथैकस्वभावाद् वस्तुतः सामान्यविशेषानिर्विकल्पोत्पत्तिरिति न वाच्यम् , यदि हि वस्त्वेकस्वभावं स्यात् तदा आकारभेदेन प्रतिभासभेदो न स्याद् , अविकल्प एवाकारभेदेन प्रतिभासते नाविकल्प इत्यपि न वाच्यम् । हेत्वयोगेन परपक्षे विकल्पस्यैवाभाव इति सत्त्वासत्त्वपरिच्छेदे सा कल्पना वस्तुनि समुत्पन्ने वेल्यादिविकल्पैरुक्तत्वात् तस्मानत्वतः परमतेऽविकल्पस्यैव सामान्यविशेषात्मकत्वम् । ७. बौद्धमते । ८. ' हेत्वयोगश्च स्वलक्षणादनुत्पत्तेरित्यादिग्रन्थेन पूर्वमेवास्माभिर्विकल्पज्ञानाभावस्य प्रतिपादितत्वात् । ९. यथा निर्विकल्पाद्विजातीयपटादिभेदग्राहको विकल्पः स्याद् एवं सजातीयेभ्यो घटेभ्योऽपि भेदग्राहको घटविकल्पः कुतो न भवति ? १०. निर्विकल्पानुभवः ।
For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः .ww.mmmmmmmmmmmmmmmmmmmmmm
स्यादेतद्- कुशलमायाकारविनिर्मितव्यापारविनियुक्तेषु सर्वथा विलक्षणस्वभावमायागोलकेषु विभिन्ननिर्विकल्पोनुभवानुभूयमानेष्वपि विजातीय भेदग्राहकविकल्पवन्न सजातीयभेदआकविकलासंभवो दृष्टः, सादृश्यात्, एवमिहापि भविष्यन्ति । ___एतदप्यसारम् , सादृश्यस्य परिकल्पितत्वात् ; परिकल्पितस्य च सजातीय ग्राहकविकल्पप्रभवाप्रतिबन्धकत्वात् ; प्रतिबन्धकत्वे च विजातीयभेदग्राहकविकल्पोदयोऽपि न स्यात् : तस्य तैरपि सह सादृश्यस्य परिकल्पयितुं शक्यत्वात् ; कल्पनायाः पुरुषेच्छामात्रनिबन्धनत्वात् ; तदैकारणात् तत्कार्यव्यावृत्यादिलक्षणस्य सादृश्यनिबन्धनस्य मिथोऽत्यन्तविलक्षणस्वभावसकलभाववादिनो वाजमात्रत्वात् । तथा हि-सजातीयासजातीयव्यावृत्त्या अविशेषेण विलक्षणत्वे सर्वभावानां कः केन समानकारण: ? समानकार्यो वा? इति स्वदर्शनानुरागं परित्यज्य लोचने निमील्य चिन्त्यताम् , इति । असति च समानकारणत्वादावतत्कारणात् तत्कार्यव्यावृत्तिरिति, कैषा वाचो युक्तिः? स्वकारणप्रभवश्व कार्यसाधकस्वरूपव्यतिरेकेण वस्तुतः सर्वभावानां सर्वभावेभ्य एवाविशेषेण व्यावृत्तत्वात् , इति । - पर्याप्तं प्रसङ्गेन,
प्रकृतं प्रस्तुम:
१. मायागोलाहिते भिनेनाभिन्नेनाविकल्पेनानुभूयमाना वर्तते। २. गोलकेभ्यो विजातीयघटादयः । ३. गोलकानामेव भेदग्रहि । ४. सादृश्यं हि वस्तुनोऽसत्त्वात् न सजातीय भेदग्राहकविकल्पोत्पत्ति प्रतिबध्नाति, प्रतिबध्नाति चोद्विजातीयभेदग्राहकविकल्पोदयभिति प्रतिबनीयात् । . सजातीयेन विविक्तैकस्वभावानामत्यन्तवैलक्षण्यस्य वस्तुत्वाङ्गीकारेण । ६. सादृश्यस्य । ७. परिकल्पितस्य । ८. विजातीयपि । ९. एकान्तवलक्षण्याविशेषेऽपि यथा सजातीयं मिथः सादृश्यं भवद्भिः परिकल्पितमेव विजातीयैरपि सह् तत् परिकल्पयितुं शक्यत एवेत्यर्थः । १०. स। मृत्कारणं यस्य तत्कारणो घटो न तत्कारणोऽतत्कारणः परादिरेवं तजलानयनादिकार्य यस्य स तत्कार्यो घटो न तत्कार्यो तत्कार्यपटादिरेव, तद्वयावृत्त्यादि, आदिपदा दनदाकार...घटादिषु सादृश्यस्य कारणं भण्यते न वाल्मात्रमेव, वस्तुतः सर्वेषां भावानामविशेषणात्यन्तं विसदृशत्वाभ्युपगमात् । ।
For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः mmawww.wwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
स्यादेतद् , असौ निर्विकल्पानुभवो विजातीयभेदग्रहणेऽभ्रान्तः, सजातीयभेदग्रहणे पुनर्भ्रान्तः, इति; अतस्तद्ग्राहकविकल्पासम्भवः, इति । .....
...... ____ एतदप्यसद् , एकस्य भ्रान्ताभ्रान्तत्वायोगाद् , अभ्रान्तविशेषणानुपपत्तेश्च । ___ अथोच्थेत-असौ विजातीयभेदग्रहणे पटुः, इतरंभेदग्रहणे पुनरपटुः; पवनुभवाहितसंस्कारप्रकोप॑सामर्थ्याच्च विजातीयभेदग्राहकविकल्पनिष्पादनायैवालम् , न, 'ईतरभे इशाहकविकल्पनिष्पादनाय' इत्येतदप्यनल्पस्य तमसो विजृम्भितम् ; यतःअसावनुभवो येन स्वभावेन विजातीयभेइग्रहणे पटुः, किं तेनै वेतरभेदग्रहणे पटुः ? आहोश्चिदन्येम ?
किश्चातः?
यदि तनैव विजातीयभेदग्रहणवत् , तत एव सजातीयभेदग्रहणमेप्पविकलं स्याद् ; विपर्ययो वा, तथा च सत्युभयत्र पटुत्वेतराविशेषवत् तदनुभवाहितसंस्कारप्रकोपसामर्थ्यस्य तुल्यत्वात् , विजातीयभेदग्राहकविकल्पवदितरभेदग्राहकविकल्पोऽपि स्थान् विपर्ययो वा, तदोहितसंस्कारस्य विकल्पनिबन्धनत्योभयत्र तुल्य त्वात् ।
१. अथाहो बै.द्ध एव मन्यसे । २. निर्विकल्प,नुभवेन हि सजातीयभेदो ...भेदश्चोभावपि...भावेव । परं विजातीयभेदग्रहेऽभ्रान्त...तिपृष्टभाविनं विजातीयभेदग्राहकं विकल्पमुत्यादयति सजातीयभेदग्रहेतु भ्रान्त उत्पन्नइति ।...... विनं सजातीयभेदग्राहकं विकल्प नोत्पादयतीति न पूर्वोक्तदोषः । ३. सजातीयभेद। ४. प्रत्यक्षं कल गाढमभ्रान्त मत्येवं यनिर्विकल्पकमभ्रान्तत्वेन विशिष्यते तस्याघटना...तं स्वस्पा सुपगमात् । ५. निर्विकल्पानुभवः । ६. सजातीयः । ७. उद्रेक । ८. सजातीय । ९. निर्विकल्प । १०. सजातीय । ११. स्वभावस्य । १२. विजातीयसजातीयभेदग्रहणयोः । १३. स्वभावस्यैकत्वात् । १४.
सजातीयभेदा....सजातीयभेदस्य ग्रहणं स्यात् खभावस्यैकत्वात्य...पटत्वापट. - त्वयोरविशेष पलनेवं संस्कारसामर्यस्त्रापि तु यत्वात् । १५. अनुभवः ।
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३८
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेश:
1
अंधान्येनानुभवस्योभयस्वभावापत्तिः, तथा च सति स्वभावयोर्धर्मत्वादनुभवस्य च धर्मित्वान्मिथो भेदाभेदोभयविकल्पप्रभवो दोषोऽनिवार्यते इति; मृग्यतां त्राणार्थमुपायः । परिकल्पितोभयस्वभावाभ्युपगमकवचोपायसद्भावात् प्रयासमात्रफ लोsभीष्टफलविकलो दोषाशनिः इति चेत् ? न, प्रचण्डवेगमहास्रोतः प्रवाहापहियमाणकुशकाशावलम्बनप्रायत्वादुपन्यस्तोपायस्यः तथाहि परिकल्पितोभयस्वभावताभ्युपगमेन परमार्थतोऽसौ न विजातीयभेदग्रहणस्वभावो नापि सजातीयभेदग्रहणापटुस्वभावः, इति । अतोऽनुभवस्य स्वभावरहितत्वादननु भवत्वप्रसङ्गः, इति । तदिदं 'पिशाचभयात् पितृवनाश्रयणमायातम्' इति धिग्, अहो दारुणं तमः ।
अपरस्त्वाह-यथैवाक्रमवति सामान्यविशेषोभयस्वभावे वस्तुनि तथाविधक्षयोपशमाभावान्नावग्रहकाल एव भवतः, सतामपीहादिगोचराणां धर्माणामवगमः: अभ्युपगमे वा, गृहीत
१. द्वितीयपक्षे । २. अभ्युपगम एव कवचः । ३. निर्विकल्पः । ४. हे जैन ! तव मते । ५. अवग्रह्णमवग्रहः, अनेर्देश्यसामान्यरूपमात्रार्थग्रहणमित्यर्थः । तथा ईहनमीहा, सद्भूतार्थपर्यालोचनरूपा चेष्टा ईहा, ईह चेष्टायामिति वचनात् । किमुक्तं स्यात् ? अवग्रह। दुत्तरकालमपा ( वा ) यात्पूर्वं सद्भूतार्थविशेषोपादानोऽ भिमुखोऽसद्भूतार्थवशेषपरित्यागाभिमुखः । प्रायोऽत्र मधुरत्वादयः शाखादिशब्दधर्माी श्यन्ते न खरकर्कशनिष्ठुरतादयोः शार्ङ्गादिशब्दधर्माः इत्येवंरूपो मतिविशेष ईहेत्यर्थः । तथा तस्यैवावगृहीतस्येहितस्य चार्थस्य निर्णय रूपोऽध्यवसायो (वा) पायः, एवं शाङ्ख एवायं शार्ङ्गएवायमित्यादिरूपोऽवधारणात्मकः प्रत्ययोsवा (पायः, इति भावः । तस्यैवार्थस्य निर्णीतस्य धरणं धारणा, सा च त्रिधा, अविच्युतिः, वासना, स्मृतिश्च । तत्र तदुपयोगादावच्यवनं अविच्युतिः, सा चान्तर्मुहूर्तप्रमाणाः ततस्तया अहितो यः संस्कारः, सा वासनाः सा च संख्येयमसंख्येयं वा कालं यावद्भवति, संकपेयवर्षायुषां संख्यं कालमसंख्येयवर्षायुवामस पेय कालमिति भावार्थः, ततः कालान्तरे कुक्षिनाशार्थदर्शन-दिकात् कारणात् संस्कारस्य प्रबोधे यज्ज्ञानमुदयते तदेवेदं यन्मया प्रागुपलन्धमित्यादिरूपं सा स्मृतिः । एताश्वाविच्युतिवासनास्मृतयों धरणलक्षणसामान्यान्वर्थयोगाद्धारण|शब्दवाच्याः । अवग्रहादयोऽनेनैव क्रमेण स्युः तथाहि - नानवगृहीतमह्यते, न चानीहितमवगम्यते नचानवगतं धार्यते । ६. अवगमस्य ।
>
"
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेश:
ग्राहित्वेनेहादीनामप्रमाणत्वप्रसङ्गात् । तथाऽस्माकमप्यर्वाग्रहशां क्लिष्टचित्तत्वात् सतोऽपि सजातीयभेदस्य तदानवगमः; सकलरागादिवासनाकलङ्कविकलास्तु योगिनोऽवगच्छन्त्येव, इति ।
पदप्ययुक्तम् , ईहादिगोचराणां प्रायोऽवग्रहोत्तरकालं प्रमातृभिर्गृह्यमाणत्वात् , सजातीयभेदस्य च काचित् कैन्धिदापि ग्रहणानुपपत्तेः; 'योगिनो गृह्णन्ति'इत्येतदपि श्रद्धागम्यम्, प्रमाणाभावाद् , इत्युक्तम् ।
यश्चोक्तम्-"एकं सामान्यम् , अनेके विशेषाः;" इत्यादि,तदप्ययुक्तम् , अनभ्युपगमात् । नहि यथोक्तस्वभावं सामान्यमभ्युपगम्यतेऽस्माभिः, युक्तिरहितत्वात् ; तथाहि-तदेकादिस्वभावं सामान्यमनेकेषु दिगदेशसमयस्वभावभिन्नेषु विशेषेषु सर्वात्मना वा? देशेन वा वर्सेत ? न तावत्सर्वात्मना, सामाम्यानन्त्यप्रसङ्गाद , विशेषाणामनन्तस्थात् , एकविशेषव्यतिरेकेण वान्येषां सामान्यशन्यतापत्तेः, ऑनन्त्ये चैकत्वविरोधात् । नापि देशेन, सदेशवप्रसङ्गात् । न च गगनवद् व्यापित्वाद् वर्तते, पति अकलङ्गन्यायानुसारि चेतोहरं वचः, अविचारितरमणीयत्वात् । कायंदेशव्यतिरेकेण वृत्त्यदर्शमात् ।।
उभयव्यतिरेकेण नभसो वृत्तिः, इति चेत् ? ने, असिदस्वात्, नभसः सप्रदेशत्वाभ्युपगमात् । निःप्रदेशत्वे चानेकदोषप्रसङ्गात् । तथाहि-येन देशेन विन्ध्येन सह संयुक्तं नमः हिमवन्मन्दरादिभिरपि किं तेनैव ? आहोश्चिदन्येन ? इति । यदि तेनैव, विन्ध्यहिमवदादीनामेकत्रावस्थानादिप्रसङ्गः, निःप्रदेशै
१. अर्वाग्दर्शितःकाले । २. यदाऽवग्रह दयः सामस्त्येन स्युस्तदाऽवग्रहोनरकालमीहादिगोचरा गृह्यन्ते, यदात्वेते सामस्त्येन न स्युस्तदा न गृह्यते, अपि यतो दृश्यत एवेहाद्यभावेऽपि क्वचिददग्रहमात्रम् । तथा निरवायेहानिद्धारणश्चावायस्तथा तदनुभवगिद्धेः, इति व्यवच्छेदार्थ प्रायो ग्रहणम् । ३. एकमित्यगिरवयवाक्रियसवंगरूपम् । ४. घटादिषु । ५. अन्येषां सामान्य शून्यतापरिहाराय सामान्यानामानन्त्येऽभ्युपगम्यमाने एकसामान्यामिति विरुध्यते, । ६. भावेषु । ७. अधिकृतनभोवृत्तिः । ८. जनः । १.. निःप्रदेशं च तदेकाकाशं च तेन
गम्बन्धः ।
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
अनेकान्तवादप्रवेशः
काकाशसंयोगान्यथानुपपत्तेः । अथान्येन; आयातं तर्हि सदेशत्वमाकाशस्य ।
स्यादेतद् अदेशत्वाद् वियतो यथोक्तविकल्पासम्भवः, तत्रैकैस्मिन्नेव तेषामवस्थितत्वाद् ।
इदमप्ययुक्तम् , वस्तुतः पूर्वोक्तदोषानतिवृत्तेः । न च सर्वव्यापिनो विन्ध्यादयः, इति; येन तस्मिन्नेव तेषामवस्थितत्वाद् , इति सफलं भवेद् , इति; यतो यंत्र विन्ध्यभावो यत्राभावः, इत्यनयोनभोभागयोरन्यत्वम् ? अनन्यत्वं च ? इति वाच्यम्।
किंचातः ?। - यद्यन्यत्वम् , किं सर्वथा? आहोश्चित् कथंचित् ? यदि सर्वथा, हन्त ! तर्हि यत्र विन्ध्यभावस्तत्राप्यभावः स्यात् , तदभाववत्, नभोभागाव्यतिरिक्तत्वात् , तद्भाववनभोभागस्य विपर्ययो वा। अथ कथंचिद् , अनेकान्तवादाभ्युपगमात् स्वकृतान्तप्रकोपः । अथान्यत्वम्, किं. सर्वथा : उत कथंचित् ? यदि सर्वथा, अन्यतमस्यानभोभागस्य(त्व प्रसङ्गः, सर्वथा भेदान्यथानुपपत्तेः। अथ कथंचित्, स्वदर्शनपरित्यागदोषः, इति । . स्यादेतद् , भागानभ्युपसमाद् व्योम्नो यथोक्तदोषानुपपत्तिः, इति । ..... अनभ्युपगममात्रभक्तो देवानांप्रियः सुखैधितो नापत्तिप्राप्तानपि भागानवगच्छति, इति । ननु 'विशिष्टभावभावाभाव
... १. देशेन । २. निःप्रदेशे । ३. विन्ध्यादीनां । ४. विन्ध्यायेकत्रावस्थानप्रसङ्गः । ५. पूर्वोक्तदोषानतिवृत्तवन्यथा समय नाह-न चेति । ६. देशे । ७. बिन्ध्यभावयुक्त । ८. विन्धभावयुक्तस्य नभोभागस्य । ९. यत्र भावस्त- . त्रापि भावप्राप्तिः सिद्धान्त । १०. यत्र विन्ध्यभावो यत्राभाव इत्यनयोरेकस्य । .. ११. सर्वधर्मवलक्षण्ये हि सर्वथा भेदस्तस्मिंश्च सत्येकस्य भावरूपताऽपरस्य चापिनेति अनोभागत्वमेव भवतीति भावना । १२. मूर्खः, इत्यर्थः । १३. शास्त्रग्रहणे परिश्रमत्यागेन सुखद्धितः । १४. विन्ध्यभाव.भावाभ्यां । १५. एतद्भावनायैवाह । १६, विशिष्टभावोऽन्यव्यावृत्ततया विन्ध्यभाव एव तस्य सत्वासत्त्वाभ्यां ।
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
अनेकान्तवादप्रवेश: www.mmmww.inwwwwwwwwwwwwwwwwwwwwwww गम्या एव भागाः' इत्यवगमे निवेश्यतां चित्तम् , इति । अलं प्रसङ्गेन ।
एतेन नित्यव्यापि (त्यनिरवयवाऽक्रिययाप्य०) निर्देश सामान्यवृत्तिरपि प्रत्युक्ता
आह-अनुभवसिद्धत्वात् सामान्यस्य न युज्यते सहृदयतार्किकस्य तत्प्रतिक्षेपेणात्मानमायासयितुम् , आयासस्य निप्फलत्वात् ; तथाहि-यदि 'सनातनं-वस्तुसद-व्यापि एकम्अनवयवं' सामान्यवस्तु न स्यात् , न तदा देशकालस्वभावभेदभिन्नेषु घटाशरावो (ष्टिकोदञ्चनादि)वञ्चनालिन्तरादिषु(?) विशेषेषु सर्वत्र ‘मृद्, मृद्,' इत्यभिन्नौ बुद्धिशब्दो स्याताम् । न खलु हिमतुवारकरकोदकाङ्गारमुर्मुरज्वालानलझञ्झामण्डलिकोत्कलिकापवनखदिरोदुम्बरिकादिषु अत्यन्तभिन्नेषु बहुषु वि. शेषेष्वेकाकारा बुद्धिर्भवति, नाप्येकाकारः शब्दः प्रवर्त्तते, इति, अतोऽस्थ यथोक्ताभिन्नबुधिशब्दद्वयप्रवृत्तिनिबन्धनस्य वस्तु
सतः सामान्यस्य सत्त्वमाश्रयितव्यम् , इति । - अत्रोच्यते-न खल्वस्माभिर्यथोक्तबुद्धिशब्दद्वयप्रवृत्तिनिबन्धनं निषिध्यते ।
किं तर्हि ?।
एकादिधर्मयुक्तं परपरिकल्पितं सामान्यम् , इति । तच्च यथा विशेषवृत्त्ययोगेन न घटां प्राञ्चति, तथा निदर्शितमेव ।
आह-किं पुनर्न यथोक्तबुद्धिशब्दद्वयप्रवृतिनिबन्धनम , ... इति ।
१. नहि निभीगे परमाणौकार्यस्य यणुकक्वचिद्भावः काचिनेति स्वदशनस्थित्याऽप्यवगमे निवेश्यतां चित्तम् । २. एकसामान्यवृत्तिनिराकरणेन । ३. नित्यस्यैकस्वभावतया कालभिन्नासु व्यक्तिषु वृत्त्ययोगः । व्यापिनः सर्वगतत्वेन निर्देशस्य देशाभावेनेति भावनीयम् । ४. विशेषेषु । ५ नित्यं ।
६. परमार्थसत् । ७. विरलामिकणा मुर्मुरः ८. मूलाग्निविच्छिन्नज्वाला । - ९. जातिभेदापेक्षया। १०. मृमृदित्यादि । ११. मृमृदित्यादिरूपतया ।
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"अनेकान्तवादप्रवेशः mirmwom.wwwwwwwwwwwwwwwwwwwww ... उच्यते-अनेकधर्मात्मकस्य वस्तुनः समानपरिणामः, इति । न चात्र सामान्यवृत्तिपरीक्षोपन्यस्तविकल्पयुगलकप्रभवदोषसम्भवः, समानपरिणामस्य तद्विलक्षणत्वात् , तुल्यपरिच्छेद्यवस्तुरूपस्य समानपरिणामत्वात् ; अस्यैवं च सामान्यभावोपपत्तेः, 'समानानां भावः सामान्यम् इति, यत्समानस्तथा भूयते' इत्यन्वर्थयोगात् , अर्थान्तरभूतभावस्य तद्व्यतिरेकेणापि तत्समानत्वेऽनुपयोगाद् , अन्यथा, 'समानानाम् ' इत्यभिधाना. भावादयुक्तैव तत्कल्पना । समानत्वं च भेदाविनाभोव्येव, तदैभावे च सर्वथैकत्वतः समानत्वानुपपत्तिः, इति समानपरिणाम एव समानबुद्धिशब्दद्वयप्रवृत्तिनिमित्तम् । यतश्चैवम् अतो न य एवासौवेकस्मिन् २२विशेषे, स एव विशेषान्तरे ।
किं तर्हि ?
समाने, इतिः कुतः सामान्यविचारोदितभेदद्वयसमुत्थापरौधावकाशः ? इति । न चैवं सति परस्परविलक्षणत्वाद् विशेषाण समानबुद्धिशब्दद्वयप्रवृत्त्यभावः, सत्यपि वैलक्षण्ये समातपरिणामलामीतः प्रवृत्तेः । असमानपरिणामनिबन्धना
१. स त्वज्ञेयत्वादि।. घटशरावादेः । ३. मृन्मदित्यभिनबुद्धिशब्दद्वयप्रवर्तकः । ४. समान परिणामे । ५. देशकावृत्तिरूा-सामान्यानन्यादानां । ६. एकादिवर्मक पामान्यविलक्षगत्वात् । ७. वैलक्षण्यमेवाह । ८. समानपरिणामस्य । ९. उत्पत्ति पि कुतः? इत्याह-समानानामिति । १०. यदिति क्रियाविशेषगं । ११. समानस्तयाभूपते इत्यनेन समानानाभित्यत्र कतीरे षष्ठतिज्ञापितम् । १२. समानतया । १३. ...मत्वर्थः समानानामित सम्बन्धषष्ठी-नः परस्य पक्षे...त्येकार्थेति , । १४. सम्बन्धपक्षे समानानां सम्बन्धिनः तेषां सतानानां समानत्वे प्रकृत्यैवेति भावः । १५. अन्तरेण ते समाना इति कृत्वा । १६. अन्यथान नभ्युपगते, अन्तरंग प्रकृत्या तदसमानत्वे समाना-... नामित्यभिधानाभावात् । १७. आधेकृतभावकल्पनासमानानां भाव इत्येतत्सम्बन्धिनां समानानाभितिकृत्वा । १८. तुल्यत्वं । १९, अयं अनन्यसमान इति नातेः । २.. भेदाभत्र । २१. सानपरिगामः । २२, घटादौ । २३. शरावादो। २४. देश कात्स्यें। २५. सदेशत्वादे । २१. घटशराबादीनाम् । २७. हिमा- . झारादीनामिव । २८. व्यतिरेकमाह-। .
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेश:
४३
WWW
च विशेषबुद्धिरिह । इति यथोदितबुद्धिशब्दद्वप्रवृत्तिः इति ।
तथा चोक्तम्
" वस्तुत एव समानः परिणामो यः स एव सामान्यम् । असमानैवस्तु विशेषो वस्त्ववमनेकरूपं तु ॥ १ ॥
ततश्च तद्यत एव सामन्यरूपम्, अत एव विशेषरूपम्, समानपरिणामस्यासमान परिणामाविनाभूतत्वात् । यत एव 7 विशेषरूपम् अत एव सातान्यरूपम् समानस्यापि समानपरिणामविनाभूतत्वाद् इते । न चानयोर्विरोधः, समानासमानपरिणामयोरुभयोरपि स्वसंवेदनस्योभयरूपत्वाद्; उभयरूपतायाश्च व्यवस्थापितत्वात् ॥
"
यश्वोक्तम् - " सामान्यविशेषरूपत्वे सति वस्तुनः संकललोकप्रसिद्ध संव्यवहारनियमोच्छेदप्रसङ्गः" इत्यादि - तदपि जिनमतानभिज्ञतासूचकमेव केवलं, न पुनरिष्टार्थप्रसाधकम् इति । न हि ' मधुरकलडुकादिविशेषानर्थान्तरम् - सर्वथैकस्वभावम्एकम् - अनवयवं सामान्यम्' इत्यभिदधंति जैनाः । अतः किमु च्यते ? " न विषं विषमेव, मोदकाद्यभिन्नसामान्याव्यतिरेकाद् ” इत्यादि ।
किं तर्हि ? |
"
समनिपरिणामः स च भेदाविनाभूतत्वात् । न य एव विषादभिन्नः स एव मोदकादिभ्योऽपि सर्वथा तदेकत्वे समानयोगात् ।
,
स्यादेतत् समानपरिणामस्यापि प्रतिविशेषेमन्यत्वादसमानेपरिणामवत् तद्भावानुपपत्तिः, इति ।
१. घटादेः । २. मृदादिः । ३. ऊर्ध्वत्वादिः । ४. सामान्यविशेषोमरूपम् । ५. मृदाद्यात्मतया । ६. ऊर्ध्वादिरूपापेक्षया । ७. समानासमानयोः परिणामः | ८. वस्त्वनुत्पत्तिरूप इष्टोऽर्थः । ९. विष । १०. सामान्यमित्याहुजैना: । ११ घटशरावादि । १२ यथाऽसमान परिणामस्य समानपरिणामभावानुपपत्तिरेवं समानपरिणामस्य समान परिणामानुपपत्तिः । उभयोरप्यन्यत्वा विशेषात् ||
For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेश:
. : एतदययुक्तम् , सत्यप्यन्यत्वे समानाऽसमानपरिणामयोर्मिनस्वभावत्वात् ; तथाहि-समानधिषणाध्वनिनिबन्धनस्वभावः समानपरिणामः, तथा विशिष्टबुद्धयऽभिधानजननस्वभाव. स्त्वितरः, इति यथोक्तसंवेदनाभिधान संवेद्याभिधया एव विषादयः, इति प्रतीतमेतद् ; अन्यथा यथोक्तसंवेदनाद्यभावप्रसङ्गात् । अतो यद्यपि यमप्युभयरूँपं तथापि विषार्थी विष एव प्रवर्तते, तद्विशेषपरिणामस्यैव तत्समान रिणामाविनाभूतस्वात् , न तु मोदके, तलमानपरिणामाविनाभावाभावात् तद्विशेषपरिणामस्य, इति । अतः प्रयासमात्रफला प्रवृत्तिनियमोच्छेदन्वोदनैव, इति । ... एतेन " विषे भक्षिते मोदकोऽपि भक्षितः स्याद्" इत्याधपि प्रतिक्षिप्तमवगन्तव्यम् , तुल्ययोगक्षेमत्वाद् , इति । । यच्चापरेणाप्युक्तम्-"सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः" : इत्यादि-तदपि कूटनटनृत्तमिवाभावितोऽनुष्ठानं न विदुषां मनोहरम् , इत्यपकायेतव्यम् , वस्तुतः प्रदत्तोत्तरत्वात् , इति । अलं विस्तरेण वचसाम् ॥ ३॥ - ते सामान्यविशेषोभयरूपैकवस्तुवादः ॥ ३ ॥
RE
"SAR
। यञ्चोक्तम् । एवमाभलाप्यानाभलाग्यमपि विरोधबाधित... १. परिणामस्म । २. यतः खलु शरावादिषु मन्मदित्यविशेषेण भवतो . धीध्वनी। स समानपरिणामः । यतः खलु घटादिवेव घट: शरावमित्यादिविशेषेण भवतो धावानःस वितरः । ३. सामान्यविशेषरूप । ४. तथा हि सत् सादात विषादयः संवेद्यन्तेऽभ धोयन्ते च, तथा विषं मोदक इत्येवं चति प्रतीतामदम् । ५. आदेपदादभिधानम् । ६. विषं मोदकश्च । ७. सामान्यविशेषरूपम् । ८. विष । ९. विष । १०. मोदक । ११. विष । १२. पूर्वोदितेन ग्रन्थेन । १३. जैनदर्शनभावार्थबारेणामशून्यत्वेन. । १४. अत्रन्य ज्ञापकलं काःसमानेतरबुद्धिश्चेत्यादिरूपा दश
इति सामान्यविशेषोभयवस्तुवादटिप्पनकम् ॥ ३ ॥
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनकान्तवादप्रवेश: nwr.mmmwww.inwwwm.ww.meww.www.www.wmarawm त्वादेवानुद्धोष्यम्" इत्यादि, तदध्ययुक्तम् ; अन्यथा, व्यवहारोच्छेदप्रसङ्गात् । तद्यदि एकान्तेनैवानभिलाप्यमभ्युपगम्यते, कथं तर्हि शब्दविशेषादर्थविशेषप्रतीत्यादिः ? दृश्यते च 'अनलाद्यानय' इत्युक्ते विनीतानां धूपध्वजादौ प्रवृत्तिः ।
स्यादेतद् , असी शब्दाद्विकल्पं प्रतिपद्यने, तस्माच दृश्यविकल्पेऽर्था (०पार्था वकीकृत्य प्रवर्तते । न पुनः शब्दादेव, अप्रतिपन्नविकल्पस्य कस्यचित्प्रवृत्त्यदर्शनात् । सङ्केतवशाच्च शयादर्थ प्रवृत्तिः, तस्य च विकल्पमन्तरेणान्यत्र कर्तुमर्शक्यत्वाद् , इति: इतीत्यमेवदमङ्गोकर्त्तव्यम् , इति ।
पनदध्ययुक्तम , विकल्पप्रतिपत्तावपि दृश्यविकल्प्याथैकीकरणाभावतः, प्रवृत्त्ययोगाइ, एकीकरणाभावश्च दृश्यविकहप्यार्थयोरत्यन्तभेदवादिनः कथंचिदपि समानत्वानुपपत्तेः, एकस्य चोभयानुभवितुरभावात् ।
किं च स खल्वेकीकुर्वन् तदा द्वयमपि भेदन प्रतिपद्येकीकुर्याद् ? अप्रतिपद्य वा ? । यद्याद्यः पक्षः, ततो भेदेनैवोभय... .. १. विरोधासिद्धम्तदसिदिश्चाभिलाप्यानभिल. यस्यैव प्रमाणसिद्धत्वात् तथैवार्थक्रि योपलब्धेरिनि शेषः। २. अभिलाग्यानभिलाप्यतां विहाय । ३. आदिशब्दात्प्रवृत्ति समास दननिवेदनपरिग्रहः । ४. तथाविधक्षयोपशमयुक्तानां । '.. अन्यापोहाभिधायकाः शब्दः इति कृत्वा शब्दादन्यापोहमन्याभावः प्रतिपद्यते । ६. अन्याभावबोधात । ७. म्वलक्षणसामान्यलक्षणौ । ८. ननु शब्दादस्त्वेव प्रतिपय प्रवर्तते । १. विशपमाह । १०, बाद्धः । ११. अपोहम् । १२. विशषे १३. अशा पवन विशेष मलम्य वस्तूनाभानन्यान् प्रतिवस्तु समवायकरणेन व्यवहार नुपयोगात् सईतम्य । १४. विकल्पविषय एवं शब्दः, इति शब्दात । १५. स्वलक्षणविकल्पाविरूद्ध सामान्यरूप । १६.. दृश्ये । १७. रातस्तव । १८. साधाय वर्क करणनिमिनं । १९. समानत्वं सदपि उमयोः समानयोग्रणे गृहाते न च तयारेकः कश्चिद् ग्रहोताऽभ्युपगम्यते परैः । २०. दृश्यविकल्प्याथद्वयम् । २१. ज्ञान्या : २२. अराकीर्णत्वेन ।
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
_
अनेकान्तवादप्रवेश xnxxmamimmammam प्रतिपत्तेः किमेकीकरणेन ? । अथोपरः, इति, अप्रतिपन्नयोश्चैकीकरणमयुक्तम् , अतिप्रसङ्गात् । तथाहि-अप्रतिपन्नेनापि वि. वैक्षितेनैव दृश्येनकीकरोति, न दृश्यान्तरण, इति किमत्र नियामकम् ? ।
स्यादेतद् , असौ तत्समानजातीयदृश्यसंवेदनाहितवासनाप्रकोपप्रबोधितस्वबीजजन्माविकल्पः, इति; अतो 'न रश्यान्तरेण' इत्येतदप्यसङ्गतम् , दृश्यसंवेदनाहितवासनाप्रकोपस्य तत्प्रबोधाक्षमत्वाद् , इति ।
एतदावेदितं प्रोग, अतो नेह प्रयत्नः, इति; अलं विस्तरेण ॥
यश्चाक्तम्-" सङ्केतवशाच शब्दात्प्रवृत्तिः, तस्य च विकल्पमन्तरेणान्यत्र कर्तुमशक्यत्वात्" इति; एतदघटमानकम् , विकल्पेऽपि सङ्केतस्य कर्तुमशक्यत्वात् , तस्याप्युत्पत्तिः, अ-. नन्तरोपवर्गित्वात् । तथाहि-तस्मिन्नपि सङ्केतविधिरनुत्पन्ने वा क्रियते ? उत्पन्ने वा ? विनष्टे वा? इति विकल्पाः । न तावदनुत्पन्ने, असत्वात् । नाप्युत्पन्ने, तस्योत्पादसमन्तरमेवाविगमात् ; क्षणस्थितिधर्माण च सङ्केतस्य कर्तुमशक्यत्वात् । नापि विनष्टे, विनष्टस्यासत्वात्।
१. योजनाभावान्न किञ्चिदित्यर्थः २. अप्रतिपाद्यैकीकुर्यादित्ययं पक्षः । ३. भेदेनागृहीतयोः । ४. भेदानागृहीतनापि । १. घटेन । ६. विकल्प्यमर्थ घटादिस्वलक्षणेन । ७. अप्रतपन्नत्वाविशेषात् । ८. तस्य तदानी प्रवृत्तिविषयस्व । घटस्वलक्षणस्य यः सजातीयो दृश्यो घटस्वलक्षणान्तरं तस्य यत्सङ्केतग्रहणादिकाले संवेदनं तेन यश्चहितः सस्कारविशेषस्तेनोवोधितविकल्पस्य यत्
स्वं बीजं शब्दज्ञानं तज्जन्मा । ९. ननु पटादिस्वलक्षणनेकीकरोति । १०. विकल्प । ३११. सत्त्वासत्त्वाधिकारे स्वलक्षगानुभवाहितसंस्कारात् तजन्मेति चत् , न,
संस्कारस्यानि स्वलक्षगेतररूपानतिक्रमादित्यादिना निवेदितम् । १२. अपोहं । १३. स्वलक्षणेऽपि विकल्पो ह्ययमपोहः, स च त्रिधा एकस्तावव्यावृत्तम् स्व. लक्षणमेव, अन्यव्यवच्छेदमात्रं द्वितीयः, विकल्पबुद्धिप्रतिभासस्तु तृतीयः, तत्र प्रथमपक्षाश्रयेणाह-विकल्पेऽपीत्यादि । १४. स्वलक्षणरूपविकल्पस्य । १५. विनाशित्वात् ।
For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनकान्तवादप्रवेश: www.mmmmmmmmmmmmmmmmmmmmmmmmmmmam
स्यादेतद्, यदविकल्पव्यावृत्तं विकल्परूपं सकलविकल्पसाधारणम् , तत्र सङ्केतः, इति ।
एतदपि असमीक्षिताभिधानम् , सकलविकल्पसाधारणस्यासत्वाद् अविकल्पेभ्य इव सर्वथा सर्वविकल्पानामेवं मिथोऽपि व्यावृत्तेः। न च 'अन्येन स्वभावेन विजातीयेभ्यो व्या. वृत्तः, अन्येन च सजातीयेभ्य' इति वक्तुं युज्यते, अनेकधमात्मकवस्तुप्रसङ्गाद् इति।
स्यादेवम् शब्दो हि विकल्पजन्मा विकल्पेहतुर्थं वर्तते; उक्तं च--
" विकल्पयोनयः शब्दाः, विकल्पाः शब्दयोनयः" इति । ततश्चासौ शब्दो यथाभूतादेव वक्तृविकल्पादुत्पद्यते तथाभूतस्यैव श्रोतृविकल्पस्य जनकः, इति, एतावतं शेन तत्र सङ्केतः, इति प्रतिपाद्यते, न पुनः शृङ्गं ग्राहिकया क्रियते । नथा च-तैमिरिकद्वयद्विचन्द्रप्रतिपादनं न्याय एवावितथशब्दार्धव्यवहारझरनल्पधीधनैः प्रतिपादितः । उक्तं च
रूपान्तरं विकल्पे यदुभयोः प्रतिभासते ।
सत्यर्थे तंत्र सङ्कतः एकत्वाध्यबसायतः ॥१॥ १. अन्यव्यवच्छेद... कृत्याह । २. निर्विकल्प । ३. उक्तन धर्मकीर्तिनाअर्थानां घटादीनां यच सामान्यमन्यव्यावृत्तिलक्षणं, यनिष्ट श्च इमे शशास्तस्य रूपं न किचनति, निःस्वभावत्वमिद्धिस्तुच्छत्वसिद्धिरसत्त्वसिद्धिरिति यावत् । ४. ...मर्वेऽपि विकल्पा अविकल्पेभ्योऽत्यन्तव्यावत्ता एवं मिथ्योऽपि, सोऽपि हि खलक्षणानि सजातीयविजातीयव्यावृत्तानीति कृत्वा विजातीयेभ्यो विकल्पेभ्यः । ५. विकल्पेभ्यः ! ६. विकल्पोऽपि स्वसवित्तो वस्तु । ७. अर्थवं मन्यसे । ८. विकल्पबुद्धिप्रतिभासपक्षत्याह-जन.. विकल्पकारणः ९. घटाद्यपोहप्रतिभासिनः । १०. बाजाङ्कुरनात्वा । ११. पृच्छति । १२. म्वलक्षणादन्यत् सामान्यलक्षणाख्यम् । १३. वक्तृात्रोः । १४. सात विद्यमानेऽर्थऽपोहाश्रये स्वलक्षणे इत्यर्थः । १५. तत्र सङ्केत...न्यसङ्केत्य इत्यर्थः । १६. केल्याह-एकत्वाध्यवसायतः।
For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
अनेकान्तवादप्रवेशः
__ यादृशाद्या समुत्पन्नः स भवत्येव कारणं ।
ताग्विधविकल्पस्य ध्वनिः सङ्केतसंस्थितिः ॥२॥ किमेतदिति सङ्केत्य इतरोप्येवमित्यदः। न कल्पयति यावद्धीस्तावन्न समयोद्भवः ॥३॥
वक्तुः श्रोतुश्च तुल्याभे बुद्धी तेनैकगोचरे । . तत्त्वेन बहिरर्थोऽस्ति न कश्चिच्छब्दगोचरः॥४॥ ...
स्वबुद्धिप्रतिभासस्य संवित्तावपि जायते । - बहिरर्थग्रहे मानस्तुल्यतै.मरबुद्धिवत् ॥५॥
एतदप्ययुक्तम् , क्वचिद् वक्तृविकल्पसदृशश्रोतृविकल्पाविकल्पान्तरस्यैकत्वाध्यवसायेनेत्यर्थः, । १. तत्किं तत्र रूपान्तरे शृङ्गग्राहिकयासङ्केतः स्यान्नेत्याह-याशादित्यादि, विकल्पात् । २. श्रोतारमधिकृत्य तादृशस्यैव विकल्पस्य निमित्तं स्यात् शब्दः । ३. यदाहि यादृशाद्रिकल्पाद्यः शब्द उत्पन्नः स तादृशमेवापरं विकल्पं जनयति तदा ते सदृशा विकल्पा अनेके तस्यैकस्य शब्दस्याभिधेया इत्यायातमिति चेतसि निधायोक्तवान् सङ्केतस्थिति ... रियमेव । ४. अनन्तरश्लोकोक्तमेव द्रढयति किमेतदित्यादिना । ५. बुद्धिसत्कं रूपमधिकृत्य किमेतदित्येवं सङ्कल्यः पुमान् इतरोऽपि सङ्केतक एवमित्यादि । एतन्न विकल्पयात यावत्तावन्न समयोद्भवो न सङ्केतजन्म । यत एवं तेन कारणेन .. वक्तुः श्रोतुश्च द्वयोरपि समानाकारे बुद्ध एकगोचरे अपोहाषापेक्षया । ६. परमार्थेन न कश्चिद्वहिरर्थः शब्दगोचराऽस्ति । ७. कथं बाह्यऽभिमानः ? इत्याहस्वबुद्धयाकारस्यापि संवित्तो मया बायोऽर्थी गृहीत इत्यभिमानो भवति, तुल्यतैमिरिकबुद्धिवत् । तैमिरिको हि नामरिकस्य चन्द्रद्वयं प्रतिपादयति, स्वबुद्धिप्रतिभासं, इतरोऽपि स्वबुद्धप्रातभ समेव प्रतिपाद्यते । बाह्यस्य चन्द्रद्वयस्याभ वादिति भावना नरे मन्दप्रज्ञ, विषमशस्त्रस्य श्रयण हि न यांदशो विकल्यो व्याख्यातुरास्त शब्दात् तादृशः श्रीतुः सम्भवति तथोपलव्धे; अन्यथा श्रेतुस्तच्छास्त्र नवगमाभावाद्वक्तृविकल्पसदृशविकल्पोत्पादेन, अनभ्युपगमे चानवगमाभावस्य प्रतीतिविरोधः । ८. क्वचिदनवगमप्रतीतेः, क्वाचन सम्भवेऽपि वक्तृविकल्पसदृशश्रोतृविकल्पस्य अयं श्रातृविकल्पो वक्तृविकासदृशः, इति परिज्ञानाभावात् । xतदवगमसम्भवात् , असम्भवश्व परचेतसोऽप्रत्यक्षत्वात् ।। . .. xअयं श्रोतृविकल्पो ववतविकल्पसंदशः ।
For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
**
सम्भवापू, एकान्तक्षणिकवादियो जन्यजनकभावानुपपत्तेख ; इति वक्ष्यामः ।
1
अमेकान्तवादप्रवेशः
एवमेकान्ताभिलाप्यत्वमनलाचलादिशब्दोचारने पदनदाहपूरणादिप्रसङ्गान्नाङ्गीकर्त्तव्यम् । न चैवंवादिनः क्वचिदप्युप लभ्यन्ते इति अतो नेह यत्नः, इति । तस्माद् व्यवहारान्यथानुपपत्तेरभिलाप्यानभिलाप्यमिति स्थितम् । न चात्र विरोधबाधा, अभिन्ननिमित्तत्वात् : तथाहि अभिलाप्य के धर्मकलापनिमित्तापेक्षया तदभिलाप्यम्, अनभिलाप्यधर्मकलापनिमित्तापेक्षया चानभिलाप्यम्, इति धर्मधर्मिणोका कयचिद्भेदः, इति प्रतिपादितम् । ततश्च तद्यत एवानभिलाप्यम् अभिलाप्यधर्मकलापनिमित्तापक्ष अभिलाप्यत्वाद्, अभिलाप्यधर्माणां चानभि लाप्यधर्माविनाभूतत्वादः यत एव चानभिलाप्यम्, अत पत्र चाभिलाप्यम्, अनभिलाप्य धर्मकलापनिमित्तापेक्षयैव, अनभि लाग्यत्वाद, अनभिलाप्यधर्माणां चाभिलाप्यधर्माविनाभूतत्वाद्, इनि ।
.
स्यादेतद्, यदि तदभिलाप्यानभिलाप्य धर्मकम् एवं तहिं अभिलाप्यानां शब्देनाभिधीयमानत्वात् किमित्यकृतसङ्केतम्य पुरोऽवस्थितेऽपि वाच्ये शब्दान संप्रत्ययप्रवृत्ती भवतः ? इति ।
अत्रोच्यते, तज्ज्ञानावरणकर्मक्षयोपशमाभावात् तस्य त्र सङ्केताभिव्यङ्गयत्वात् : तथाहि वस्वभावस्यात्मनो मिथ्यात्वादिजनितज्ञानावरणादिकर्ममटपटलाच्छादितस्वरूपस्य सङ्केततपश्चरणदानप्रतिपक्षभावनादिभिस्तदावरणकर्मक्षयोपशमक्षयाचेवापायेते तेती विवक्षितार्थाकारसंवेदमं प्रवर्त्तते इति अन्यथा, एकान्ताभिलाप्यत्ववादिनः । २. वह चाभिलाप्यधर्मा अभिवेयपरणामाः । ३. अतोऽन्ये सम्बन्धवशात् तथा नाभिधीयन्ते इत्यनभिष्ठाप्याः । ४. सायभिधेयपरिणामानां । ५ तथाविधस्व संबंधानाख्येयधर्माबिनाभूतत्वात् । ६. धर्माणाम् । ७. श्रीतुः । ८. तस्मिन्नकृतं संकेतवाच्ये । ९. क्षयोपशमस्य । १०. आदिपदादविरत्यादिप्रहः, मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः, इति वचनात् । ११. आदिपदाद् दर्शनावरणादिग्रहः । १२. आदिशब्द एतेTea arecare: | १३. क्षयोपशमादेः
For Private And Personal Use Only
,
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
.
अनेकान्तवादप्रवेशः wwwwwmammawwwww तत्प्रवृत्त्यभावात् । तत्प्रथमतयैव सर्वत्रादृष्टसङ्केतानामर्भकाणां सङ्केतस्य कर्तृमशक्यत्वात् ; तथाहि-न शब्दादप्यसङ्केतितात्तदर्थे प्रतिपत्तियुज्यते, तसङ्केतकरण च तत्राप्ययमेव वृत्तान्तः, इति, अनवस्थाप्रसङ्गः। कचिदवस्थाने चासन्मतानुवाद एव, नहि कथं चिद्वास्तवसम्बन्धाभावे सत्यवस्थानं प्रयुज्यते, इति । ___ स्यादेतद् , अर्भकोऽप्यसकृद् 'अयम्' इत्यादिशब्दसङ्केत्यार्थसन्निधावुश्चार्यमाणमाकर्ण्य व्यवहर्तश्च तथा व्यवहारे प्रवर्तमानान् दृष्टवा प्रतिपद्यते शब्दार्थम् , इति; तथाहि-नादिभिरपि कस्यचित्सङ्केतः क्रियते, इति; दृश्यते च तत्प्रति पत्तिः , इति ।
अत्रोच्यते, दृश्यते खल्वियं प्रतिपत्तिः, इक तु. २६३६क्षे न युज्यते, अँसकृदर्शनपक्षे तत्प्रथमतया शात् प्रतिपल्य. भावाद् , भावे च कथंचिद्वास्तवसम्बन्धसिद्धः, अनौदिसंसारपक्षेऽपि कथंचिद्वास्तवशब्दार्थसम्बन्धसिद्धेः, 'शब्दो हि विकल्पजन्मा' इत्यादिनिराकरणेन च सङ्केतस्य निषिद्धत्वात् , तथा प्रकरणादभिव्यक्तक्षयोपशमान केषांचित्सङ्केतमन्तरेणैव शब्दा र्थप्रतिपत्तिदर्शनाद् । अलं प्रसङ्गेन । इति अभिलाप्यानभिलाप्योभयरूपैकवस्तुवादः समाप्तः ॥२॥
१. अभावोऽपि कुत इत्याह... २. तजन्मांपेक्षया । ३. सक्षेतशब्दादपि सकाशात् । ४. सङ्केतशलाः । ५. अयुक्ता च संतवैयर्थ्यप्रसङ्गात् प्रसङ्गंध: सङ्केतितादपि सङ्केतशब्दानः तदर्थ प्रतीतेः । ६. सङ्केतशब्दम्य । ७. अपरसङ्केतशन्दे । ८. यदुत तत्सङ्केतकरणमेव । ९. शब्दान्तरे। १०. अशकिलादेव तत् प्रतीताभ्युपगम्यमानायामिवंधः । १२. अयं घट इत्यादिरूपम १२. नदानयनादौ । १३. अयमित्यादिना शदन पुरोऽवस्थितार्थरूपम् । १४. एन. देव भावयति तथा हीत्यादिना । १५. अर्भकस्य । १६. घटादेः । १७. कालेन । १८. तजन्मापेक्षया । १९. प्रथमशब्दात । २०. प्रतिपत्त्यभवश्वासतितत्वात शब्दार्थयोः । २१. अनादित्वात् संसारस्यासकृच्छुतत्वात सर्वशब्दानां तत्र तत्र व्यवहारे आद्यशब्दश्रवणाद्वाच्यप्रतीतिसिद्धिरिति चेत्ततश्चाद्यशब्दात प्रतिपत्त्यभाव इत्यचारु । एतदाशङ्कयाह-अनादि इत, अनादावपि संचारे तम्भ विवाश्चत. स्यायमित्यादेः शब्दस्य पुरोऽवस्थितभावाबकत्वेन श्रवणवाच्या प्रनानि गाडेः इत्येवमनादिमान् वाच्यवाचकभावः गदापयोरिति । २२. समुच्चये ग्राम ।
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेश:
यदप्युक्तम्-" विरोधिधर्माध्यासितस्वरूपत्वाद्वस्तुनोऽनेकान्तवादिनो मुक्त्यभावप्रसङ्गः" इति-एतदपि सूक्ष्मेक्षिकया मुक्तिमार्गमनालोच्यैवोक्तम् , इति, उक्तवत्सत्त्वानित्यत्वादीनां विरोधित्वासिद्धः, अन्यथा वस्त्वभावप्रसङ्गात् ॥
किं च विरोधिधर्माध्यासितस्वरूपाभाव एव वस्तुन एकान्तवादिन एवं मुक्त्यभावप्रसङ्गः; तथाहि-यदि 'तदात्माननाभवनमणिकनकधनधान्यादिकमेकान्तेनैवानात्मादिकधर्मयुक्तं भावनालम्बनमिष्यते, हन्त ! तर्हि सर्वथाऽनात्मकत्वाद्भावकभाव्याभावान तत्परिज्ञानोत्तरकालभाविभावनाऽभावतः कुतः? कस्य वा ? मोहादिप्रहाणम् ? इति कथ्यतामिदम् ॥
स्यांदतत्-परपरिकल्पिताऽविचलितकस्वभावात्मापेक्षया नदनात्मकमभ्युपगम्यते, न पुनःप्रतिक्षणनवरात्मापेक्षया, इति॥ ___एतदप्यसारम् , विकल्पानुपपत्तेः; तथाहि-तत्कथंचित्प्रतिक्षणनश्वरं स्यात् ? सर्वथा वा ? । यदि कथंचिद् , अर्हन्मतानुवाद एवः तथा चोक्तमहन्मतानुसारिभिः
सर्वव्यक्तिषु नियतं क्षणेऽन्यत्वमथ च न विशेषः।। संत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ॥१॥"इति।
अथ सर्वथा, हन्त ! त.हिकामुष्मिकसकललोकसंव्यवहागभावप्रसङ्गः; तथाहि-प्रतिक्षणनिरन्वयेन नश्वरत्वे सत्यास्मादिवस्तुनः ग्राहाग्राहकभावस्मरणप्रत्यभिज्ञानकुतूहलविरमणाद्याविहदङ्गनादिप्रतीतमपि नोपपद्यत, नहि ग्राह्यार्थतग्राहकसंवेदनयोः कथंचिदपि तुल्यकालताऽभ्युपगम्यते परैः, तयोहेतुफलभावाभ्युपगमात् । उक्तं च
१. अनेकान्नात्मकवस्त्वभाव इत्यर्थः । २. एकान्तेनैवात्मकत्वादिवस्तु । ३. अश्वंमन्यरो । ४. वस्तु । ५. वस्तुपर्यायापेक्षया । ६. घटाद्यास । ७. क्षणसम्बन्धभेदात । ८. कथमित्सदादिरूपतया । ... भावाश्रमाह-सत्योरिति, चित्रमहकारितामयन १०. संस्थानगत्त्व । ११. अननुवृत्तिनशनशीलन्चे सति । १२. धर्मकीनिना।
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
.
।
अनेकान्तवादप्रवेश ग्रोधताविदुहेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम्" इति । " एवं च सति प्राह्यार्थाभावे एव प्राहकसंवेदनप्रसूतेः, तंदभावभावित्वात् संवेदनस्य, कुतस्तस्य तशाहकत्वम् ? इतरस्य च तग्राह्यत्वम् ? इति; आदाय युक्तिप्रदीपं तिरस्कृत्य स्वदर्शनाभिनिवेशतिमिरं निभाज्यतामेतद्, इति । ... आकारार्पणक्षमत्वमपि तस्यानिश्चितमेव । महि 'अनन्तरातीतविषयाकारमेवेदं संवेदनम्' इति विनिश्चेतुं शक्यते, तस्याग्रहणाद् । अग्रहणंच तदानीमसत्त्वाद् । असति च तस्मिस्तदाकारमेतदर्ताकारं न भवति, इति अवगमानुपपत्तिः।
सविधमानादेव संवेदनाकारीत् तदाकारत्वावगमः, इति चेत् ? तथाहि-यद्यग्राहकं न भवति, तेसदाकारं न भवति, पीताम्राहकमिव नीलसंवेदनम् , तद्ग्राहक चैतद् इति कथं तदवगमानुपपतिः इति ।
एतदप्ययुक्तम्-तत्प्रत्यक्षतानुपपत्तेरनुमीयमानत्वात् । न चानुमानताऽप्यत्र, एवंविधाविनाभावव्यवस्थाकारिणः क्षणय. ग्राहिणो विज्ञानस्याभावाद् , अमावस्य क्षणिकत्वविरोधात् ।
तदेव विशिष्टं तद्यवस्थाकारि, इति चेत् ? न, कारणविज्ञानबोधान्धयव्यतिरेकेण कार्यविज्ञानस्य वैशिष्ट्यायोगाद् , अतिप्रसङ्गात् , तद्वदपरस्यापि वैशिष्टयोपत्तेः ॥
१. भित्रकालं कथं ग्राह्य मति चेत् । २. अर्थस्य । ३. अनुमानविदः । ४. वस्तुस्थित्या । ५. किमित्यत आह । ६. ग्राह्यत्वेनाभिमतार्थ । ७. अर्थस्य । ८. तदुसरकालभाविसंवेदनमा ह्यत्वम् । ९. सूक्ष्माभागहस्तेन । १०. अथस्य । ११. अनन्तरातीतविषयस्य । १२. संवेदनकाले । १३. विषयस्य । १४. विषयाकारं । १५. अन्याकारं । १६. संवेदनगताकारात । १७. अनन्तरातीतविषयाकारत्वावगमः । १८. यथा नीलसंवेदनं पीताकारं पाताप्राहकं । १९. अनन्तरातीतविषयाकारस्य । २०. विशिष्टप्राह्यप्राहकभावव्यवस्थेति प्रत्यन्तरे । २१. अर्थसंवेदनयोः । २२. विज्ञानेभ्यः। ...
* ज्ञानस्य, अविनाभावः ।
१२
.
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
...
.
अनेकान्तवावप्रवेशः aamannmammiummmmmmmmmmmmaamirmiremainamam
- स्यादेतत्-समानकालयोरेव पायग्राहकभावः, तथाहिस्वहेतुभ्य एव तद्विज्ञानं विशिष्टसमानकालभाविभावग्राहकस्वभावम् , भावोऽपि तनाथस्वभाव एवोत्पद्यते; इति यथोक्त
दोषानुपपत्तिः। . न, तयोस्तादात्म्यतदुत्पत्त्यनुपपत्तेः प्रतिबन्धाभावात्।
इत्यलं प्रसङ्गेन, विजृम्भितमेवाऽत्रास्मत्स्वयूथ्यैः; इति ॥ स्मरणाद्यसम्भवस्तु प्रतिक्षणनिरन्वयेन नश्वरत्वे सति वस्तुनः सु. भाव्य एव । महन्येनान्यस्लिमनुभूतेऽन्यस्याम्योपलब्धौ स्मरणप्रत्यभिशादयो युज्यत इति । ऐवम् , ऐहिकसकललोकसंव्यवहाराभावः, इति स्थितम् , आमुष्मिकव्यवहारस्तु सुतरामसङ्गतः, कृतनाशाकृताभ्यागमप्रसङ्गात् । तथाहि-यः कुशले प्रवर्तते स तदैव सर्वथा विनश्यति, कुशलमपि च कर्मात्मलाभसमनन्तर
मेव निरन्धयमपैति, अतःकृतनाशः, क्षणान्तरस्य चिरविनष्टा- स्कर्मणः पुनरायत्यां फलोदयाभ्युपगमे सत्यऽकृताभ्यागमः, इ. त्येतचासमञ्जसम् ॥ ......
तथा मुक्तिरपिप्राणिनामसङ्गतैव; तथाहि-तीव्रतरवेदनाधि-- भिन्नशरीरः संसारविमुखया प्रईया विभावितसंसारदोषो निरास्थो जिहासुर्भवमुपारिनिर्वाणं रागादिलेशपक्षविक्षोभक्षममामुलीकृत्य मार्गममलं क्रमेणाचदायमानचित्तसन्ततिनिरतिशयपेशलरसैमास्वादयति निर्वृतिमिति न्यायः, अयं च प्रतिक्षणनिरन्वयनश्वरत्वे सति आत्मादिवस्तुनो न घटोमुपैति, त-'. था-हिअन्य एव दुःखैः सांसारिकैः पीड्यते, अन्यश्च निर्विद्यते,
१. स्वहेतोरेव । २. भावात् । ३. अर्थसंवेदनयोः । ४. समकालतयेति भावः । ५. दिवाकरादिभिः । ६. सचेतनादेः । ७. प्रमात्रा । ८. प्रमेये । । १. प्रमातुः । १०. प्रमेयान्तरोपलब्धी । ११. यथोक्तनीत्या। १२. पारत्रिकः। । १३. कर्मफलसम्बन्धादिभिः । १४. तदा फलमदत्त्वैव नाशात् । १५. निर• न्वयनश्वरत्वात् । १६. सन् । १७. लोकोत्तरया । १८. जन्मादिभावेन । १९. संयोगवियोगसारत्वात् संसारम्य । २०. सम्यग्दर्शनादि । २१. प्रीतिं । २२. ततोऽत्यन्तभेदात।
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेश:
ANNA
१४..
अन्यस्य च विराग मुक्ती, झते, अशोभनमेतद्, अतिप्रसङ्गात्, एवमामुामक व्यवहारोऽप्यसङ्गतः, इति स्थितम् ।
स्यादेतद्-विशिष्टहेसुफलभावनिबन्धनः सर्व एवायमैहिका मुष्मिकव्यवहारः; तथाहि-विशिष्टां रूपादिसामग्री प्रतीत्य वि. शिष्टमेव संवेदनमुपजायते, ततश्च तदेव तस्य ग्राहकमभिधीयते, न पुन न्यद् , अतिप्रसङ्गात् ; एवं स्मरणााद्यपि भावनायम् इति कृतनाशाकृताभ्यागमप्रसङ्गोऽप्यत्रानवकाश एव, क्षणभेदेऽप्युपादानोगदेयभावेनैकस्यामेव सन्ततावाहितसामर्थ्यस्य केमणः फलदानात् , अतो य एव सन्तानः कर्ता, स एव भोक्ता, इति; तथाहि-यः सकुशले प्रवर्तते, स अद्यपि तदैव सर्वथा विनश्यति, तथापि निरुद्धयमानः स्वानुरूपकार्योत्पादनसमर्थ सामर्थी विज्ञान लन्तती आधाय निरुध्यते; यतः-सामर्थ्य विशे. पादु तरो तरक्षण गरेणामेन कालान्तरपरिणामसजातवासनापरिपाकात् सहकारेप्रत्ययसमवधानांपनीतप्रबोधात् , फलमिष्टमनिष्टं चोपजायते; अतोन यथोक्तदोषः। प्रतीतश्चायमर्थः; तथाहिरसायनादिभिः प्रथमोपनिपातवेलायामाहितो विशेषों देहे तदुत्तरोत्तरावस्थाभेदोपजननेन पश्चाहेहातिशयस्य बलमेधारोग्यादनिष्पादकः, तथा लाक्षारसनिषेकोपनीतसामर्थ्य मातुलि
ङ्गकुसुममुत्तरोत्तरांवशेषोपजननेन फलोदारान्तर्वर्तिनः केसरस्य - रक्तताहेतुर्भवत्येव; इति दृष्टत्वान्मुच्यतामभिनिवेशवैशसम् ।।
यथोक्तम्-" मुक्तिरपि प्राणिनामसङ्गता" इत्यादि-" याव
१. सन्तानान्तरे सन्तानान्तरफलापत्तनानात्वाविशेषात् । २. कारणकार्यभाव । ३. अक्षपकार्यजननसमा । ४. उद्दश्य । ५. संवेदनान्तरं । ६. सर्वस्य सर्ववित्वापत्तेः । ७. तत्संस्कारानेबन्धनत्वेन । ८. विशिष्ट कार्यकारणभावपक्षे । ९. हेतुफलभावेन । १०. प्रतीत्यभवनद्वारेण करणात् । ११. तदुक्तम्" यस्मिन्नेव हि सन्ताने, आहिता कर्मवासना । फलं तत्रैव सन्धत्त, कासे रकता यथा ॥१॥” १२. सामान्यन । १३. प्रवृत्तिकाल । १४. विशि
वतात्योत्पादितः १५. आहितात् । १६. प्रशान्त "हितया । १७. ज्वरादिविवातवीजभूतः । १८. विशिष्टविशिष्टतरभेदतः । १९. तत्सन्तान एव । २०. सिद्ध नवादिना ।
हि
..HA
For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
"
अनेकान्तवादप्रवेश:
WWWWWW
दयंच प्रतिक्षणनिरन्वयनश्वरत्वे सत्यात्मादिवस्तुनो न घटामुपति ? " इति ।
तदप्ययुक्तम्, प्रतिक्षणनिरन्वयनश्वरात्मपक्ष एव युज्यमानत्वात् तथाहि नैरात्म्यवादिनः क्षणिकाः पदार्थाः, यथा हेतुसन्निधानं विक्रियामात्मसात्कुर्वाणाः समुपरोधहेतुभिर्यदा पीड्यते दुःखविशेषाध्यासितोत्तरोत्तरक्षणोत्पत्सितः, ततस्ते निर्विद्यन्ते, निर्विद्योत्तरोत्तरक्षण समुत्पादानिर्विण्णास्तदुत्तरोसरश्रुतभावनादिना अक्लिष्टानेकक्षणपरम्परोत्पादनेन दानदमसंयमाद्यनेकप्रकार शुभधर्माध्यासाद् रागादिबीजोन्मूलन समर्थमार्गभावातः प्रतिकलमवदायमानविशुद्धि पर्यन्तवर्तिक्षणोत्पादाधिगतविमुक्तयः कथ्यते इत्यनवद्यम् अन्यथा, आत्मनो व्यवस्थितत्वाद्वेदनाभावेऽपि विकारान्तरभावात्, प्रतिपेक्षा. भासेनाप्यनाधेयातिशयसम्भवाश्च मुक्त्यसम्भवः,
इति ॥
,
"
५५
"
"
एतदपि तवापरिज्ञानविजृम्भितमेव भवत्पक्षेऽपि विशिष्ट हेतुफलभावानुपपत्तेः तथाहि किं वैशिष्ट्यं नाम ? किं हेतुफलयोरैक्यम् ? तयोरेवैककालता ? अथ कारणधर्म संङ्क्रान्तिः ? उत साधारणवस्तुसम्बन्धित्वम् ? किं वैकार्थक्रियाहेतुत्वम् ? किं वा विशिष्टकारणजन्म ? किं वा तदनन्तरभावित्वम् ? किं वा विशिष्टक्रिया हेतुत्वम् ?
किं चातः ?
यदि हेतुफलयोक्यम्, तर्हि हेतुफलभावानुपपत्तिरेव, सकत्वान्मृत्पिण्डत्कादीनामपि घटपटाद्यभेदतो जलाद्यानयनाविकार्यप्रसाधकत्वप्रसङ्गात्, घटादीनामपि वा प्रसङ्गात् ।
१. मुक्तेः । २ मते । ३. ज्वरादिभिः । ४. प्रबन्धेन निवृताः सन्तः । ५. नैरात्म्य । ६. विशुद्धयमानाच ते विशुद्धिपर्यन्तवत्तिक्षणोत्पादाधिगतविमुक्तयचेति समासः । ७. एवमनभ्युपगमे । ८. अप्रयुतानुत्पन्नस्थिरैकस्वभावतया । ९. वेदनायाः, इति शेषः । १०. शास्त्रविहितेन । ११. जलायानयनादिकार्यस्यात्प्रसक्तेः घटादीनां मृदायभेदात् मृदादिषु जलाद्यानयनादिकार्यस्याभावात् ।
1
For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५६
अनेकान्तवादप्रवेश:
अथ तयोरेककालता तत्र वक्तव्यम्, किं सर्वात्मना ? उत कथञ्चित् ? यदि सर्वात्मना, ततोऽसम्भव एव, कार्याभावात् नहि सर्वात्मना कारणतावादवस्थ्ये कार्यजन्म युज्यते इति प्रतीतम् । अथ कथञ्चिद् एवं तर्ह्यस्मन्मतानुवाद एघ, केने चिदात्मना कार्यकारणयोरेकत्वाभ्युपगमात् ।
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अथ कारणधर्मसङ्क्रान्तिः साऽप्यघटमाना, कार्यकारणयोरत्यन्तं भेदाभ्युपगमात् कारणव्यतिरिक्तस्य च धर्मस्यासम्भवात् मान्तौ वान्वयप्रसिद्धिप्रसङ्गात् ।
j
"
"
,
अथ साधारणवस्तुसम्बन्धित्वम्, तदप्ययुक्तम्, साधारणवस्तुनोऽभावात् स्वलक्षणानां वस्तुत्वात् तेषां च मिथोऽत्यन्तभिन्नत्वात् अतस्कारणात् तत्कार्यव्यावृत्तेश्च वाक्यात्रत्वात् स्वरूपव्यतिरेकेण सर्वभावानामेव सर्वभावेभ्यो विशेपेण व्यावृत्तेः । विशेषभ्युपगमे च पर्यायतः समानपरिणामाभ्युपगमप्रसङ्गात् ।
"
अथैकार्थक्रियाहेतुत्वम्, तदप्यसङ्गतम्, तस्यासिद्धत्वात्; नहि हेतुफलयोरेकार्थक्रिया हेतुत्वमस्ति यौगपद्याभावात् हेतु
१. हेतुफलयो । २. यदि सर्वेण स्वरूपेण कारणं कार्यश्च एकस्मिन् कालेऽभ्युपगम्यते, तदैतयोरेककालताया असम्भव एव । ३. द्रव्य स्वरूपेण ४. नहि कारणाद् व्यतिरिक्तः कश्चित् कारणधर्मः । ५. कारणः । ६. मृत्पिघटयोर्यत्साधारणस्ततो मृदः सम्बन्धित्वमिदमेव वैशिष्ट्यं हेतुफलयोः । ७. उभयसाधारणस्य मृदादिसामान्यस्याभावात् । ८ स मृत्स्वभावः कारणं यस्यासी तस्करण मृघटादिर्न तत्कारणे तत्कारणी जलादिः । एवंतस्य मृत्स्वभावस्य कार्य तत्कार्यं घटादिः, न तत्कार्यमतत्कार्यजलायेव तद्व्या... साधारणाया अत्सम्बन्धित्वं मृण्डवः सविशेष हेतुफलभाव इति चेत्, न । ९. सजा तीयेभ्यो विजातीयेभ्यश्व । १०. नहि यथा विजातीये व्यावृत्तिस्तथैव स जातीयेऽपि कथञ्चिदव्यावृत्तिरपीति । ११ तथाहि हेतुफलयो यौगपद्यं स्यादेवकत्वं स्यात् । अथ यौगपद्यमेतयोरप्युपगम्यते तदा हेतुफलजव एव न घटते । नहि समसमयभाविनोगोविवाण याहेतुफलभावः ।
-
For Private And Personal Use Only
4
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवाद प्रवेश:
फलभावानुपपत्तेः फलस्यैवार्थक्रियारूपत्वाद्, यथोक्तम्- “ भूति येषां क्रिया सैव " इत्यादि ।
;
;
अथ विशिष्टकारणजन्म, तदव्यसाधु, कारणवैशिष्ट धातुपपत्तेः तथाहि तत्प्रत्ययान्तरसम्बातात् प्रतिकलमाहिताति यं तन्निर्वर्त्तयद्विशिष्टमुच्यते इति । एतच्चायुक्तम्, प्रत्ययान्तरसम्पातेऽप्यतिशयायोगात् तथाहि स तस्यातिशयः प्रत्ययान्तरसम्पातजन्मानुत्पन्नस्य वा त्याहू ? उत्पद्यमानस्य वा ? उत्पन्नस्य वा ? निवर्त्तमानस्य वा ? निवृत्तस्य वा ? इति वि कल्पाः । न तावदनुत्पन्नस्य तस्यैवासरखात् । नाप्युत्पद्यमानस्य उत्पद्यमानावस्थानाभ्युपगमात् । नाप्युत्पन्नस्य, अनाधेयातिशयत्वाद्, अतिशयाधाने च तदन्यत्वप्रसङ्गात् । नापि निवर्तमानस्य निवर्त्तमानावस्थानाभ्युपगमात् । नापि निवृत्तस्य, तस्यैवाविद्यमानत्वात् ।
F
'स्यादेतद्, - ननकक्षणमङ्गीकृत्यातिशयचिन्ता । कितर्हि ?
प्रबन्धम् : तथा चोक्तम्
"उपकारी विरोधी च सहकारी च यो मतः Heaापेक्षया सर्वे काले कथञ्चन ॥ १ ॥
तत्र व्यस्ता उपादान सहकारिप्रत्ययाः समस्तान् स्त्रानु रूपकायोपजननयोग्यान् जनयन्ति, समस्ताश्च तैरुपहितातिश
१. तथा फलमेवार्थक्रियाऽभ्युपगम्यते । ततश्च हेतोरर्थक्रियाफलमेव । फलस्य चान्यया कयाऽप्यर्थक्रियया भाव्यमिति कथं हेतुफलयोरेकार्थकियाहेतुत्वम् । २. बीजादि । ३. क्षित्यादिसहकारिणः । ४. अङ्कुरादिकार्यम् । ५. बीजादेः कारणस्य । ६. सोऽतिशयः कारणाद्भिन्नः प्रसज्यते । ७. एकैकशः । ८. बीजक्षित्यादयः । ९. यदा जलायां पृथ्व्यां बीजमुप्तं तदा बीजमपि क्षित्यादीन् सर्वान् जनयति । क्षितिरपि क्षितिबीजादीन् सर्वान् । एवमन्येऽपि । १०. स्वनिष्पाद्याङ्कुरादिकार्य जननसमर्थान् क्षणान्। ११. एकैकशो बीजेक्षित्यादिसमस्तजननस्वभावा बीजादयः । १२. आत्मना आत्मना सह जातैः क्षित्यादिभिः ।
For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवावप्रवेशः
यरूपाः सामर्थ्यप्रकर्षवता रूपभेवनानुगतानन्यान् कालोपाधि प्रकर्षप्रापितरूपभेदान् , तेऽप्यन्यान्मात्रया, इति क्रमेणोत्तरोतरप्रसवपरम्परायं विवक्षितफलापेक्षया चरमक्षणकालभाविनो भावाः परतस्तमतिशयमासादयन्ति, यतः कार्यजन्मेति तदेव वैशिष्टयमिष्यते, इति । . एतदप्ययुक्तम्, विहितोत्तरत्वात् , 'नहि यस्तानामपि कारणे विशेषाधानमन्तरेण समस्तलक्षणकार्यविशेषो युज्यते, अतिप्रसङ्गाद् । विशेषाधानस्य चैकक्षणमधिकृत्य निराकृतत्वात् , प्रबन्धचिन्तायामपि तुल्यत्वात् , क्षणव्यतिरेकेण प्रबन्धायोगात्, उक्तश्च" विशेषहेतवस्तेषां प्रत्यया न कथश्चन । । नित्यानामिव युज्यन्ते क्षणानामविवेकतः ॥ १॥"" इत्यादि।
अथ तदनन्तरभावित्वम् , तदप्ययुक्तम् , अतिप्रसङ्गात , तस्य हि तत्कालोपजातसकलपदार्थेष्वविशिष्टत्वात, तथा च
" तदनन्तरभावित्वात् तत्फलत्वं प्रसज्यते । विश्वस्य कारणं तद्धि न चेत् सर्वस्य सम्मतम् ॥१॥"
१. यदा हि समस्ता अन्यान् समस्तान् जनयन्ति, तदाऽमीषां सहोत्पत्रः क्षित्यादिभिरतिशयः स्यात् ; यदा तु तेऽन्येऽपि समस्ता अपरान् मनस्तान् जनयन्ति, तदा तेऽन्ये समस्ता अन्यूनानतिरिक्तकारणत्वात् , कथमपरसमस्ते. ध्वतिशयमादधतीत्याह-कालेति, काललक्षणो योऽसौ उपाधिर्विशेषस्तेन कृत्वाऽन्यैः समस्तैः प्रापितो रूपभेदो येषामारसमस्तानां तान् । २. किश्चिदधिकमित्यर्थः । ३. व्यस्ता हि. समस्ता लक्षणं विशिष्ट कार्य तदा जनयन्ति, यदि तेषु कोऽपि विशेषः स्यात् । विशेषोऽपि व्यस्तेषु तदैव स्याद् यदि तेषां कारणेऽपि विशेषाधानं स्यात् । ४. जन्म यदि कारणे विशेषमन्तरेणैव कार्यविशेषस्तदा कुशूलस्थापि बीजस्याङ्कुरोत्पत्तिः स्यात् । ५. क्षणे एव प्रतिबन्ध .. इत्यभ्युपगमात् । ६. अव्यतिरेकात् , ७. सकलनामपि पदार्थानां फलत्वप्रसङ्गः । .
८. तस्य. विवक्षितकारणस्य मृदादेः । ९. विवक्षितं मृदादि।
For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्ववादप्रवेश mmmmmmmmmm
विशिष्टकार्यजननस्वभावं हीष्यते यतः । मुक्त्वोपलम्भ कार्यस्य कारणानन्तरं कथम् ॥ २ ॥ गम्यते तत्स्वभावत्व से च तुल्यः फलान्तरे । तत्रैव तस्य. व्यापारम्, इति चेत् तम युज्यते ॥३॥ क्षणभासमुच्छेदा व्यापारो नासतो यतः । उत्पत्तिव्यतिरेकेण व्यापारी नेष्यते इति चेत् ? ॥४॥ व्यापस्किालभावित्वात कारणाभिनकालता । फलस्यापि च सत्येवं कार्यकारणता कुतः ॥५॥"
न चापि विशिष्टक्रियाहेतुत्वम्, इत्यतिव्याप्तेस्तस्य स. बस्य समानत्वात्। सर्व एव हि पदार्था विशिष्टक्रियाहेतवः। इत्यलं प्रसङ्गेन ।
तदेवं वैशिष्ट्याभावातुफलभावानुपपत्तिः, इति स्थितम् । ' 'असति चालिन विशिष्ट रूपादिसामग्री प्रतीत्य विशिटमेव संघदनमुपजायते' इत्यादि यदुक्तम् , तत्सर्वमपाकृतमेवावगन्तव्यम् । तथाप्यत्यन्तमवगणय्याऽनुभवभावितमेव वि. द्वजनोपहास्यं मुग्धजनविभ्रमकरं यदुक्तम्-"क्षणभेदेऽप्युपादा. नोपादेयभावेनैकस्यामेव सन्ततावाहितसामर्थ्यस्य कर्मणः फल.
१. किमिति तत्कारणं सर्वस्व न मम्मतमित्याह-विशिष्टेति २. मृ. दादेघटादिजननस्मभावत्वं तदैवाव...पते अदि मृदादेरनन्तरं घटादेरुपलम्भः. स्थात् स. चोपलम्भः फलान्तरे पटादावपि तुल्यः, मृदोऽनन्तरं पटस्याप्युपलभ्यमानत्वात् । ३. कारणानन्तरं कार्यस्योपलम्भ इति कारणस्य विशिष्टकार्यजननस्वभावत्वं नाभ्युपगम्यते, किश तस्य कारणस्य तत्रैव विशिष्ट कार्ये व्यापार इति क रणस्य तत्स्वभावत्वाभ्युपगम इति चंत । ४. क्षणनश्वरत्वे निर• न्वयोच्छेदात् । ५. कारणस्य । ६. कार्यस्यात्तत्तिरेव कारणस्थ कार्ये व्यापार इति चेत् । ७. नहि कारणमन्तरेणोत्पत्तिलक्षणो व्यापारो भवतीत्यर्थः । ततश्च कारणफले अभिन्नकाले प्राप्त । ८. अथाष्टमं मौलं विकल्पमाह । ९. अतः सर्वेऽपि पदार्था मिथो हेतुफलता प्राप्नुयुः । १०, प्राच्यं युक्तियुक्तं मदुक्तम् ।
For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवाद प्रवेशः
दानादू" इत्यादि तथा 'यः कुशले प्रवर्तते, स यद्यपि तदैव सर्वथा विनश्यति, तथापि निरुध्यमानः स्वानुरूपकार्याइपादनसमर्थ सामर्थ्य विज्ञानसन्ततावाधाय निरुध्यते' इत्यादि च
अत्र विशेषत उच्यते-सर्वमिदमयुक्तम् , सामाधानस्यासिद्धत्वात् ; तथाहि-किमिदं सामर्यः नाम ? किमुत्तरः कार्यभाव एव ? उत तद्वतकार्यान्तरनिर्वर्तनसमर्थः शक्तिविशेषः? , आहोश्चिद्वासना ? इति, यदि-'उत्तरः कार्यभाव एव तमाधाय निरुध्यते' इत्यभ्युपगम्यते, हन्त ! तहि. क्षणिकत्वविरोधः, नह्यनुत्पनो विरुद्धो वाऽसौ तदाधानकर्तृत्वे प्रमुः, उदयकालाधानाभ्युपगमे च द्वयोरपिः तुल्यकालप्रसङ्गः। अथ तद्गतः कान्तिरनिवर्त्तनसमर्थः शक्तिविशेषस्तमाधाय निरुद्धयते, शत पूर्वोक्तदोषः, तस्य कार्यव्यतिरेकेणानभ्युपगमातं , तदात्मलाभकाल एव चोत्तरकालभाविनोऽपि तन्निवर्गस्य कार्यास्तरस्य भवनप्रसङ्गः, तद्भवमात्रापेशित्वाद, इतरस्यापि भावमात्रेणैव जनकत्वात् , अनन्तरभवने वा तन्निर्वापत्तेरति. प्रसङ्गात् ।
. १. सामर्थ्य । २. कार्यभावं । ३. कुशल । ४. उत्तरकार्यगत । - ५. तस्मादुत्यनोऽविनेष्टश्चत्तरं कार्य जनयतातिः प्राप्तम् । एवं च. क्षणिकत्वं
कुशलकारिणो द्वितीयक्षणेऽप्यवस्थानप्राप्तः । ६. अथ कुशंलकारी कुशलकारणक्षण एवोत्तरकार्य जनयतीत्यभ्युपगम्यते तदा कार्यकारणयोरककालताप्रपर:
७. दूषणान्तरमाह-तदित्यादि तस्याहितविशेषस्य कार्यस्य य अ त्मकालस्त. स्मिन्नेव तनिष्पाद्यमग्रेतनकार्यभाविकार्योत्तरमपि प्राप्नोते । एवं तस्मादप्यने तनं यावत्तदेव सुखदुःखोपभोगप्राप्तिरित्यर्थः । ८, कार्यान्तरस्य । ९. यतस्त. स्य कार्यस्याहितविशेषस्य यद्भावमात्रं तदेवापेक्षते कार्यान्तरम् , नान्यात्कश्चिकारणान्तरं, तद्भावस्य समर्थस्यैवोत्पन्नत्वात् । १०. आहितविशेषस्य कार्यस्यापि । ११. न कारणान्तरायेक्षया । १२. अथाहितविशेषस्य कार्यस्यानन्तरं तस्मिन् । विनष्टे कार्यान्तरं भवतीत्यभ्युपगम्यते प्राच्यदोषपरिहाराय, तदा तेन समर्थन कार्यणानन्तरभूतेन यन्निवत्त्य कार्यान्तरं तस्यापतेरतिप्रसङ्गात् , इदमुक्तं स्याद्यथा तदनन्तरभाविस्वसन्ताने निवत्यं कार्यान्तरमेवमन्यसन्तानेऽपि तदनन्तर• भाविसर्वकार्यान्तरं तन्नित्यं प्रमजतीत्यर्थः । १३. कुशलकारीक्षणः । .
For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवाद प्रवेश:
46
~~
अथवा, स नामाधाय निरुद्धयते ? इति एतदप्ययुक्तम्, वास्यवासकयोर्युगपदभावात् । किञ्च
59
वासकाद् वासना भिन्ना, अभिन्ना वा भवेद् यदि । भिन्ना स्वयं तया शून्यो नैवान्यं वासयत्ययम् ॥१॥ अथाभिन्ना न सङ्क्रान्तिस्तस्या वासकरूपवत् । वास्ये सत्यां च संसिद्धिर्द्रव्यांशस्य प्रसज्यते ॥ २॥ असत्यामपि सङ्क्रान्तौ वासयत्येव चेन्ननु । अतिप्रसङ्गः स्यादेवं, कल्पिता चेत् तयोऽपि किम् ||३|| एतेन यस्मिन्नेव सन्ताने आहिता कर्मवासना ।
फलं तत्रैव सन्ताने कर्पासे रक्तता यथा ॥ ४ ॥
६१
इत्याद्यपि निरस्तमवगन्तव्यम् ।
"
यच्चोक्तम् -' अन्यथात्मनो व्यवस्थितत्वाद् वेदनाभावाद् भावेऽपि विकारान्तराभावात् प्रतिपक्षाभ्यासेनाप्यनाधेयातिशयत्वाच्च मुक्त्यसम्भवः' इत्येतदपि न नः क्षतिमावहति, अनभ्युपगमात् नये कान्तनित्यमस्माभिरात्मादिवस्त्विष्यते ।
किन्तर्हि ? कथञ्चिद्, यथा वास्य नित्यानित्यता सदस द्रूपता च, तथोक्तमेव - नित्यानित्यादिधर्मवैत्येव च ग्राह्यग्राहकभावस्वकृतकर्मफलोपभोग सम्यग्ज्ञानभावनादयो युज्यन्ते, कथञ्चिदवस्थितत्वाद्, अनुभवसिद्धत्वाद्, न चानुभवसिद्धे वस्तुनः
१. यदि हि वास्यो वासकश्च युगपत्स्याताम् तदा वासको वास्ये वासमनाधाय निरुध्यते इत्येतद् घटते । न च वास्यवास कज्ञानक्षणयोर्युगपत्ताभ्युपगम्यते बौद्धैः । २. वासनया । ३. वास्यं । ४. वासको ज्ञानक्षणः । ५. वासनायाः । ६. यथा वासकस्य स्वरूपमभिन्नं सद्वासका वास्येन । सङ्क्रामति । एवं वासनाऽपि वासकादभिन्ना वास्येन संक्रामेत् । ७. सन्तानान्तरवर्त्तिनामपि ज्ञानक्षणानां वासनाप्रसक्तेः । ८. अथ बासना कल्पिता तया मह भेदाभेदविकल्पानुपपन्नाविति चेत् । ९. कल्पितयां वासनया किश्चिदसत्वात् । १०. कर्म । ११. वस्तुनः । १२. वस्तुनि । १३. कथञ्चिदवस्थितत्वं च तस्यैव प्राद्यादेस्तथैव वृतेविशिष्टग्राह्यादि ।
,
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेश: सदसद्पादित्वे विरोधिधर्माध्यासितस्वरूपाभिधानं न्याय्यम् । अतथा भावे तदभावप्रसङ्गतो विरोधासिद्धेः, इत्युक्तं प्राक् । न च परैरपि स्वलक्षणेषु साधारणप्रमेयता भ्रान्तौ चाभ्रान्ता स्वसंविनष्यते, तेषां स्वलक्षणादीनां प्रमेयतादिभावापत्तेः, इति । न विपश्चितस्तथा विरोधाभिधानं वैपश्चित्याविरोधि, तत्तथाऽभावे सकलव्यवहाराभावप्रसङ्गात् । अप्रमेयत्वेन स्वलक्षणेषु प्रमाणाप्रवृत्तेः । तौ च स्वसंविदभावप्रसङ्गात् , न चैतदात्माङ्गनाभवनाद्यनात्मकमनित्यमशुचिदुःखमेव, अवयस्यैवात्मत्वात् , तस्य च व्यवस्थापितत्वात् । एवं नानित्यमेव, तदतादवस्थ्यात् । अन्यथा, तदनुपपत्तेः । नाशुच्व, शुभपरिणामभावात् , लोके जलेन शुबिकरणेन तथोपलब्धेः । एवं न दुःखमेव, मुक्तिसुखजनकत्वात् , पारम्पर्येण तत्स्वभावत्वाद् , इति । __किञ्च-अनात्मकं शून्यमसैदिकोऽर्थः, अनिटामस्थिर सदिति च । ततश्च यद्यनात्मकम् , कथमनित्यम् ? अथानित्यम् , कथमनात्मकम् ? इति । कथं च बुद्धधर्मसङ्घलक्षण परमनिवृ. तितो निद्वारे महारत्नत्रये सति इदं वक्तुमुचितम् ? यदुत सर्वसेवाशुचि, सर्वमेव दुःखम् , इतिः तदाशातनापत्तरसदभिधानात् । अन्यथा, रत्नत्रयायोगः, तदन्या शुच्याद्यविशेषात् ; योगे धातिप्रसङ्गः। . एवं च, 'तथा ह्येते तदात्मानना भवनमणिकनक इत्यादि द्वष इति कृत्वत्यन्तं यदुक्तम् , तत्परपक्षे उक्तिमात्रमेव, उक्त
१. कोण वर्तनात् । २. गदगदपाभावे । ३. वस्तु। ४. बौद्धः । .. स्वाभ्युपगतेपु वस्तुपु । ६. सामान्य । ७. विरोधिधर्माभिधानं । ८. विरोवेव । ९. तेषां स्वलक्षणादीनां साधारणप्रमेयतादिरूपेणाभावे । १०, व्यवहाराभावमा दर्शयति । ११. साधारणप्रमेयताभाव । १२. विकल्यात्मिकायाम् । १३. तुच्छ म बन्न तादव पानुपपनः । १४. मुक्तिमुखजनकत्वात् । १५. पयायशब्दाः खल्यने इत्यर्थः । १६. अपनत्रयम्याशुच्यादि इत्थं चैतदीकनगम् । अन्यथा नद्रत्नत्रयमेव न स्यात् । १७. तस्मादनत्रयादन्ये ये शुच्यादयः । आदिपद दुःखग्रहः नैः सह विषेशः म्पादनत्र गम्य । १८. अशुन्यादाविशेषेऽपि रत्नत्रय योग । १५.. कृत्वा ।
For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
धनिर्विषयत्वाद्, अतो विरोधिधर्माध्यासितस्वरूप एब वस्तुः न्यनेकान्तवादिन एव सकलव्यवहारसिद्धिः। पीडानिर्वेदादीन । नां च कथञ्चिदेकाधिकरणत्वान्मुक्तिसिद्धिश्च नान्यस्य । .तस्माद् व्यवस्थितमेतद्-एकान्तवादिन एक मुक्त्यभाव- । प्रसङ्गः , इति । . . . . .
.
. . . . . कि स्यादेतद्-विरोधिधर्माध्यासितस्वरूपत्वे सति वस्तुन ए.
वाभावात् तन्निबन्धनव्यवहाराभावः, न हि शीतोष्णस्पर्शवदेकमस्ति, तयोंविरोधाद्, इति । . .
अत्राच्यते-अथ कोऽयं विरोधः ? अन्यतरभावेऽन्यतराभाषः, इति चेत् ? अस्त्वेतत् , किन्तु-शीतोष्णस्पर्शयोर्यो विरोध ___स किं स्वरूपसद्भाव कृत एव ? उतैककालासम्भवात् ? आहो
चिदेकद्रव्यायोमेन ? किमेककालैकद्रव्याभावतः ? उतैककालैका. द्रव्यैकप्रदेशासम्भवेन ? आहोश्चिदभिन्ननिमित्तत्वेनेति ? . किश्चातः ?
__न तावत्स्वरूपसद्भावकृत एव शीतोष्णस्पर्शयोर्विरोधः, । नहि शीतस्पर्शोऽनपेक्षितान्यनिमित्तः स्वात्मसद्भाव एवोष्णस्पर्शेन सह विरुध्यते, उष्णस्पर्शी वेतरेण; अन्यथा, त्रैलोको ऽपि शीतोष्णस्पर्शयोरभाव एव स्यात् । एकस्य वा कस्यचिदवस्थानान्यतरस्य, न चानयोर्जगति कदाचिदप्यसत्ता, सदैव वडवानलतुहिनसद्भावात् । सद्भावश्चाविद्वदङ्गनाद्यविप्रतिपत्तेः, 1 इति । न चैककालासम्भवाद् , यत एकस्मिन्नपि काले तयोः सद्भाव उपलभ्यत एव, यथा-शीता आपः, पर्वते निकुञ्जप्र
स्रवणानि वा, उष्णस्त्वग्निः; न च विरोधः, न चैकद्रव्यायोगेन, .. यत-एकेनापि द्रव्येण तयोोंगो भवत्येव; तथा च शीतकाले
रात्रौ निरावरणे देशे पर्युषिते लोहभाजने शीतस्पर्मो भवति, __ तत्रैव मध्याह्ने दिनकरप्रतप्ते उष्णः, इति न च विरोधः, न
१. युक्तं एक किश्चिद् वस्त्विति । २. व्यापारे । ३. एककालत्वादि । ४. अन्योऽन्यस्य बाधनेन । ५. यद्वा शीतोष्णस्पर्शयामध्ये एकस्य कस्याप्यस्थानं स्यादन्यतरस्य त्वभाव एवेत्यर्थः । ६. निझराणि ।
For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
चैककालैकद्रव्याभावतो विरोधः; यतः-एकस्मिन्नेव काले एकस्मिंश्च द्रव्येऽनयोरभाव एव; तथाहि-धूपकडुच्छकस्थालकेऽग्निसम्बन्धे उष्णस्पर्शी भवति, तस्यैव तु गण्डे शीतः, इति; न च विरोधः, एककालैकद्रव्यैकप्रदेशासम्भवविरोधस्त्विष्ट एव, एकप्रदेशस्त्रावरदेशाभावेनावयवावयविभेदानुपपत्तेभिन्नधर्मत्वात् । भिन्नधर्मयोश्चैकत्वं विरुद्धमेव, अन्यथा तद्भेदाभावप्रसङ्गात् । न चैवं सदसन्नित्यानित्यादिभेदानां भिन्नधर्मत्वम् एकत्रेव भावात् , भावस्य च यतस्तत्स्वद्रव्यक्षेत्रकालभावरूपेण सत् , परद्रव्यक्षेत्रकालभावरूपेण चासद्' इत्यादिना प्रतिपादितत्वात् । ततश्च नासम्भवभाविना विरोधेन नियमभाविनामपि विरोधकल्पना न्याया, अतिप्रसङ्गात् । नहि श्रावणत्वं विरुद्धमपि घटादिसत्त्वेन नासत्तया विरुद्धयते, तथोपलम्भात्, 'अ. नुभवप्रमाणकाश्च सन्तोऽर्थाधिगमे' इति, अन्यथा, तंदभावप्रसङ्गात् । अभिन्ननिमित्तत्वेनापि विरोधः सिद्ध एव । नहि यदेव शीतस्पर्शस्य निमित्तं तदेवोष्णस्पर्शस्य, भेदाभावात् , तत्सङ्करोपलब्धिप्रसङ्गाच्च । न च सदसदादिधर्माणामभिन्ननिमित्तता, निमित्तभेदाभ्युपगमाद् । न चैकस्मिन्निमित्तभेदो न युक्तः, ।
१. दण्डके । २. एक स्मन् काले एकस्मिन् द्रव्ये एक स्मन् प्रदेशेऽसम्भवलक्षणो विरोधः, शतोष्णस्पर्शयोरभ्युपगम्यत एवेत्यर्थः । ३. शीतोष्णस्पर्शयोरभ्युपगम्यत एवेत्यर्थः । ४. शीतोऽगस्पर्शयोः । ५. तयोधर्मयोर्भेदः । ६. यथा शीतोष्णस्पर्शयोस्तथा । ७. विरोधो हि असम्भवे सति भवति, नि भाविनां च को नाम सम्भवः ? । ८. श्रावणत्वं हि घटादिमत्त्वेन सह वि मपि नहि सन् घटादिः श्रावणो नाम । परसत्त्वेनापि सहननविरुद्धयते, 3 तु विरुभ्यत एवं, अन्यथा श्रावणत्वमसद्रूपमेव स्यात् । ततो यदि श्राव घटादिसत्त्वेन सह विरुद्ध, कथं तयसत्त्वेनापि सह विरुद्धं ? अथासत्त्वेन ए विरुद्ध कथन्तर्हि घटादिसत्त्वेनापि विरुद्ध ? सत्त्वेनासत्त्वेन च सहैकस्य विरोधी विरुद्धः, इत्येवं यथा नात्र विरोध कल्पना, तथा दृष्टत्वेन सम्भवाभावाद् , एवं न सदा तदाद्यात्मके वस्तुनि विरोधकल्पना न्याय्येति भावः, । ९. यद्यनुभवप्रमाणकाः सन्तो न भवन्ति तदा ते सन्त एव न स्युरित्यर्थः । १०. शब्द एव । ११. यदि हि शीतोष्णम्पर्शयोरेकत्वमेव स्यात् तदैतया दो न स्यादित्यर्थः । १२. शीतोष्णस्पर्शयोः खद्रव्यादिरूपेण सत् परद्रव्यादिरूपेण चासादेत्युक्तम् ।
-
For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
DOINUAANKINNAVAA KOSMART
अनेकान्तवादप्रवेशः
एकान्तेनैकत्वासिद्धेः धर्मधर्मिरूपत्वाद् । धर्मधर्मिणोश्च भेदाभे दस्य प्रतिपादितत्वाद् । इति कृतं विस्तरेण ।
"
किश्च न च एकदा वस्तुवस्त्वन्तरोपत्तिलक्षगो विरोधः य उच्यते परैश्छायातपोवेत् शीतोष्णवत् सुखदुःखवद् वा, इति । कुसमानत्वात्, नाहे छायातपोवित्प्रतिनियत तया इतरेतरातुविद्धाः सदसदादयः, तद्वत्केवलानुपलम्भार तथा स्वनावत्वात् तथानुभवसिद्धेः इति । छाया आतपानुविद्धा न भवति इति विरोधकल्पनायामपि कः प्रसङ्गः सदसदादिषु ? नहि 'अणुरचेतनः' इति ज्ञानेऽपि तद्वत्तद्विरोधाभिधानं युक्तम्, तत्स्वभावभेदोपपत्तेः ।
3
१
3
,
चोक्तम् - " आत्मात्मीयदर्शनमेव मोहः " इत्यादि, अत्राभिष्वङ्गपूर्वकं सर्वथा स्थेयवासनागर्भमात्मात्मा ग्दर्शनमेव मोहः, इतीष्यत एव, नैरात्म्यै कान्तवादिनस्त्विदमनुपपन्नम्, दर्शनागत् दर्शनायोगस्य च प्रतिपादितत्वाद्, अत एव रागभावः । इत्यलं विस्तरेण ॥ ५ ॥
Mr.
;
इतिमोक्षवादः ॥ ५ ॥
॥ समाप्तमिदमनेकान्तवादप्रवेशकाख्यं प्रकरणम् ॥
|| ग्रन्थानं ७२० ॥
कृतिरियं सिताम्बराचार्यश्रीहरिभद्रसूरीणाम् ॥
,
वस्तुनोऽनेकत्वाभ्युपगमे वस्तुनो वस्त्वन्तरापत्तिर्विरोधः । २. सदनहि छायातादिवत् । न छाया नातपादिसदृशाः । ३ यतः सत्त्वं असत्त्वम् असत्त्वं च सत्त्वं विना नेति नियमेन मिथोऽनुविद्धाः । ४. चेतनत्यविरोधाभिधानं । ५ तयोरणुज्ञानयोः । ६. आश्रयणा वासना ।
॥ इति श्रीमदनेकान्तमतप्रवेशप्रकरणावचूरिः ॥
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving Jin Shasan 025656 gyanmandir@kobatirth.org For Private And Personal Use Only