________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहं ।
श्रीहरिभद्रमुरिविरचितअनेकान्तवादप्रवेशः
टिप्पनसहितः।
-
-
-
जयात विनिर्जितरागः सर्वज्ञस्त्रिदशनाथकृतपूजः । सदतवस्तुवादी शिवगतिनाथो महावीरः ॥ १॥
इह केचिदनादिकर्मवासनोद्भुतमहामोहाकुलीकृतचेतसो यथास्थितं सदसन्नित्यानित्याद्यनेकरूपं वस्त्वनुभवन्तोऽपि न प्रतिपद्यन्ते; प्रत्यवतिष्ठन्ते च-कथमेकमेव घटादिरूपं वस्तु "चासश्च भवति ? तथाहि-सत्वमसत्त्वपरिहारेण व्यवस्थिन्, असत्त्वमपि सत्वपरिहारेण, अन्यथा तयोरविशेषात् । रश्च तद्यदि सत्, कथमसत् ? अथासद्, कथं सत् ? त्येक सदसत्त्वयोर्विरोधात् । तथा चोक्तम्---
यस्मात्सत्वमसत्त्वं च विरुद्धं हि मिथो द्वयम् । वस्त्वेकं सदसद्रूपं तस्मात् खलु न युज्यते ॥१॥
किं च;-सदसद्रूपं वस्त्वभ्युपगच्छता सत्वमसस्वं च वस्तुधर्मतयाभ्युपगतं भवति । ततश्चात्रापि वक्तव्यम् ; धर्मधमिणोः किं तावद्भेदः ? आहोश्चिदभेदः ? आहोश्चिभेदाभेदः? इति । तत्र यदि तावद्भेदः, ततः सदसत्त्वयोभिन्नत्वात् १. आदिशब्दाज्झानादि । २. अर्थक्रियासमर्थ च सद्, अन्यदसदुच्यते ।
समावेशो न चैकत्र तयोः प्रोक्तो विरोधतः ॥१॥ ३. असत्त्वानापत्त्या। ४. अभेदात् । ५. एवकारार्थे । ६. धर्मिणः सकाशात् ।
For Private And Personal Use Only