________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः कथमेके सदसद्रूपम् ? इति । अथाभेदः, ततः सदसत्त्वयो. रेकत्वम् , एकस्माद्धर्मिणोऽभिन्नत्वात् , तत्स्वरूपवद; अतोऽपि कथमेक सदसद्रूपम् ? इति । धर्मिणो वा भेदः, सदसत्त्वयो. रभिन्नत्वात् , तत्स्वात्मवत् : इत्थमपि कथमेकमुभयरूपम् ? । अथ भेदाभेदः, अत्रापि येनाकारेण भेदः तेन भेद एप ? येन चाभेदः तेनाभेद एव ? तदेवमापि नैकमुभयरूपम् ; अथ येनैवाकारेण भेदस्तेनैवाभेदः, येनैवः चाभेदः तेनैव भेदः, इति ? एतदप्यचारु, विरोधात्; तथाहि-यदि येनाकारेण भेदः, कथं तेनैदाभेदः ? अथाभेदः, कथं भेदः ? इति । अथ येना. प्याकारेण भेदः, तेनापि भेदश्चाभेदश्च, इत्युभयम् ? येनापि चाभेदः, तेनाप्यभेदश्च भेदश्च, इत्युभयमेव ? अत्रापि येनाका रेण भेदः, तेन भेद एव; येन चाभेदः, तेनाभेद एव; इति तदेवावर्तते ।
किं च;-भेदाभेदमभ्युपगच्छतावश्यमेवेदमङ्गीकर्तव्यम् , इह धर्मधर्मिणोधर्मधर्मितया भेदः, स्वभावतः पुनरभेदः, स्वभावतोऽपि हि तयोर्मेदेऽङ्गीक्रियमाणे परस्परतः प्रविभक्तरूपं पदार्थद्वयमेवाङ्गीकृतं स्यात्, न पुनरेक द्विरूपम् ; इति । तदत्रापि निरूप्यते,-न ह्यनासादितस्वभावभेदयोधर्मधर्मिणोर्धमधर्मितयाऽपि भेदो युज्यते । तथाहि-यदि यो धर्मस्य स्व.
१. एकमिति न स्याद् , अभेदहेतुत्वात्तस्य । २. अभेदो हि द्विधा भवति । सत्तासत्त्वधर्मों धर्मिणा सह भिन्नौ विद्येते ? आहोश्चिद्धी सत्त्वा - सत्त्वधर्माभ्यां सह भिन्नो भवति ? इति बिकल्पद्वयं निराकरोति, ३. धार्मिणो धर्मावभिन्नौ चेत् । ४. धर्मिणारभेदे सति एकेन धर्मिणाऽभेदात सत्त्वासत्त्वयोधर्मयोरेकत्वं स्यात् । ५. धर्मिस्वरूपवत् । ६. एकमेव हि तद् , इति भावः । ७. वाशब्दः पक्षान्तरसूचकः । अथ वा धर्मधर्मिगोरभेदे सति धर्मिणः पक्षस्थापि सत्त्वासत्त्वाभ्यां धर्माभ्यां द्वाभ्यां सहाभ दात् । ८. धर्म° । ९. (कमिति न स्यात् , किं तुभयमेव स्यात् । १०. धर्मधर्मिणोः । ११. भेदाभेदामीकारे तत्त्वतः पूर्वोक्तदोषानतिक्रमात् । १२. चक्रकमनवस्था वा । १३. नियतस्वरूपतया । १४. वस्तुतः । १५. धर्मधर्मिरूपम् । १६. वस्तु । १७. धर्मधमिनियतरूपतया । १८ वस्तुत्वलक्षणः ।
For Private And Personal Use Only