________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। प्रास्ताविकम् ।।
इदं प्रकरणं परमकृपालुश्रीमदाचार्यवर्यश्रीहरिभद्रसूरिभिः वयं विनिमीतानेकान्तजयपताख्ये शब्दार्थगभीरग्रंथमहार्णवेऽवगाहितुमशक्तानां जिज्ञासून प्रतनुततुल्यं विनिर्मातम्-इति तु सुनिश्चतं विपश्चिताम्। सटिप्पनकं शोधितं मुदितमस्माभिः । टिपन्नकस्य के नामाचार्या निर्मातारः ? इति नवाहं सम्यग्जा. नामि । जानन्ते ये केचिद् महाशयाः, तेभ्योऽवगच्छन्तु जिज्ञासवः ।
श्रीमद्हरिभद्रसूरीणां सत्तासमयः विक्रमीयशतकं षष्ठम् । ये तूपमितिभवप्रपञ्चकथोपसंहारे विन्यस्तानि श्रीसिद्धर्षिसूरिभिः पद्यानि विलोक्य. नवमे शतके सत्ता व्यवस्थापयितुं संशंसन्ते, तैर्विलोक्या श्रीमदिन्द्रदिन्नसूरीणां कुवलयमालाकथापिठिका, यतः--ते संजाताः सप्तम शतके, स्वमुखेनैव खसत्तासमयः समरादित्यचरितप्रशंसा च कृता ।
धं महरिभद्रसूभिरनेकग्रन्था विनिर्मिताः, तेषां उपलब्ध-संभक्तिमुद्रितानां सामन्यतः टीप्पनकमस्ति मत्पाथै, किंतु-विस्तारभयान्न वितन्यते इह प्रसङ्गमुपलभ्योपढोकयिष्ये कदाचिद् । r श्रीमदाणन्दसागरसूरिभिर्विश्राणितेन एकेनैव पुस्तकेन संशोधितं पुस्तकमिदम् । तेषां सूरीवराणामुपकोः स्मरामिः, शोधनमुद्रणदोषाणां च क्षमा याचे विद्वद्भयः ।
पाटण
।
विदुषामनुचरः
क्षेत्रपालपाटके
प्रभुदासः
For Private And Personal Use Only