________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६.
अनेकान्तवाद प्रवेशः
एतदप्ययुक्तम् दृष्टविरोधात् । न च दृष्टेऽनुपपन्नं नाम, अनुवृत्तव्यावृत्तस्वभावं च वस्त्वध्यक्षतोऽवसीयते । न चाऽऽविद्वदङ्गनादिप्रतीतानुभवापलापः शक्यते कर्तुम् । अनुभवा पुरोऽवस्थिते घटादौ तदद्वैप एवोपजायते; अन्यथा तदभाव
प्रसङ्गात् ॥
स्यादेतद्, – एकस्वभाव एवासावनुभवो घटप्रतिच्छायतयोपजायमानः घटादिप्रतिभासव्यवच्छेदेन ख्याप्यते । न पुनरस्य भावतो द्वे रूपे । तथा चोक्तम्- “ऐकोपलम्भानुभवाद् 'इदं नोपलम्भे' इति बुद्धेः 'उपलम्भे वा' इति कल्पितायाः समुद्भवति " ।
एतदप्ययुक्तम्, – विहितोत्तरत्वात्, 'तत्स्वरूपसत्वमेव पररूपासत्त्वम्' इति निलठितम् ॥
किञ्च - एकान्तपर्यायनयमतानुसारिपक्षे कल्पनायोगात् ; तथाहि - सा वस्तुनि समुत्पन्ने वा स्याद् ? अनुत्पन्ने वा ? न तावदनुत्पन्ने, तस्यैवासस्यात् ; उत्पन्नेऽपि च गृहीते वा स्वाद ? अगृहीते वा ? न तावदगृहीते, अतिप्रसङ्गात्; गृहीतेऽपि च तद्ग्राहकशानस्याविकल्पकत्वात् विकल्पज्ञानस्व चातद्विषयत्वात्, तद्भावकाले च तदसवात् । तत्रैव कल्पना, इति चेत् ? न, विकल्पानुपपत्तेः तथाहि - तंत्राप्युत्पन्ने वा स्याद् ? अनुत्पन्ने वा ? नानुत्पन्ने, असखात् ; नाप्युत्पन्न, उत्पत्त्यनन्तरोपवर्गित्वात् । विकल्पनारूपमेवोत्पद्यते इति चेत् ? न तस्य हेत्वयोगात् । हेत्वयोगश्च स्वलक्षणादनुत्पतेः । स्वलक्षणानुभवाहित संस्कारात् तज्जन्म, इति चेत् ? न, संस्का
"
१. सङ्कीर्णत्वेन नियतत्वासिध्धेः । २ वस्तु । ३. नीलादौ । ४. एकात्मैव घटादेरुपलम्भानुभवात् परम 'इदं पटादिकं समुपलम्भे, इदं घटादिकमुपलम्भेवा इति विकल्पिकाया बुध्धेः समुद्भवः स्यात् । ५. वस्तुनि । ६. उत्पन्नवस्तु । ७. उत्पन्नवस्त्वविषयत्वात् । वर्तमानकालभावि स्वलक्षणानुभवजसंस्कारात् । ८. विकल्पज्ञान । ९ उत्पन्नवस्तु । १०. ज्ञाने एव, न तु बाह्येऽर्थे विषये । ११. ज्ञानेऽपि । १२ विनाशित्वात् ।
"
For Private And Personal Use Only