________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रबेशः
च विश्वमदरिद्रं स्यात् । तते एव कटककुण्डलाधुत्पत्तेः, न च 'तस्मानिरुपाख्यतयाऽविशिष्टात् कस्यचिदेव भावः, न सर्वस्य' इति वक्तुं युज्यते, हेत्वभावात् । अतः श्रद्धागम्यमेवेदं सद सद्पं वस्तु, इति । तथा चोक्तम्
न च प्रत्यक्षसंवेद्यं, कार्यतोऽपि न गम्यते । श्रद्धागम्यं यदि परं वस्त्वेकमुभयात्मकम् ॥ १ ॥
इति प्रथम पूर्वपक्षः ॥ १ ॥ एतेनं नित्यानित्यमपि प्रत्युक्तमेवमवगन्तव्यम् , विरोधादेव । तथाहि-अप्रयुतानुत्पन्नस्थिरेकस्वभावं नित्यमाख्या यते, प्रकृत्येकक्षणस्थितिधर्मकं चानित्यमिति । ततश्च यदि नित्यम् , कथमनित्यम् ? अनित्यं चेत्, कथं नित्यं ? इति ।।
स्यादारेका-'नहि कूटस्थनित्यतया नित्यं द्रव्यमभ्युपगम्यतेऽस्माभिः, परिणामिनित्यताभ्युपगमात्; किंतु पूर्वोत्तरक्षणप्रविभागेन प्रबन्धवृत्त्या । न ह्यस्य पर्यायाणामिवोच्छेदः, तद्ररेण तातितेः । पर्याया एव हि पर्यायरूपेण निरुध्यन्ते,
१. अभावादेव । २. अभावात् । ३. मृदादेरिव घटादेः । ४. मृदादेवि घटादौ प्रतिनियतशक्त्यभावेन । ५. एकत्रानेकविरुद्धधर्माध्यासायोगेन । ६. अप्रच्युतो निवृत्तिस्वभावतयाऽनुत्पन्नः सदाभावेन स्थिरः, एवरूपतया एकः स्वभावो यस्य । क्षणस्थितिस्वभावमपि एकस्वभावं स्यात्, तद्वयवच्छेदार्थ स्थिरग्रहणम् । स्थिरैकस्वभावमपि मुक्तवस्तु केश्चिन्नित्यामध्यते, तद्वयवच्छेदायानुत्पन्नेति । अनुत्पन्नस्थिर कस्वभावमपि स्वप्रच्युतिसमयं यावत् कैश्चिन्नित्यामिष्यते ( घटप्रागभावादिः ), तद्वय बच्छेदायाप्रच्युतति । ७. स्वभावेन । ८. एकरूपतया । ९. मीमांसकैरिवेति शेषः । १२. पूर्वोत्तरक्षणयोः कालसमयलक्षणयो रकमनुष्ययारित्र परस्परं यः प्रविभागोऽत्यन्तभेदरूपः, तेनोपलक्षिता या प्रबन्धवृत्तिः सर्व क्षणेष्वेकद्रव्यानुवृत्तिलक्षणा, तया नित्यवमायते जनः । ११. द्रव्यस्य । १२. पूर्वोत्तरक्षणप्रविभागेन द्रव्यरूपेण । १३. उच्छेदन । १४. तत्तत्क्षणस्थितिस्वभावतया विनश्यन्ति । १५. तत्स्वभावतया तनिरोधबीजम् ।
For Private And Personal Use Only