________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
न तु द्रव्यम्; इति नित्यमभ्युपगम्यते ' ॥
इयमप्ययुक्ता, यस्माद्, एषाप्यत्र नित्यता न संभवति, पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः; तथाहि - न पर्यायव्यतिरिक्तं द्रव्यमस्ति तथानुभवाभावात्; व्यतिरिक्तभावे वा, अनेकरूपैकवस्तुवादहानिप्रसङ्गः । तथा चोक्तम्
पर्याया भेदिनो नित्यं द्रव्यं स्यात्तत्स्वरूपवत् । स्याद्वादविनिवृत्तिश्च नानात्वे संप्रसज्यते ॥ १ ॥ व्यतिरिक्ताव्यतिरिक्तपक्षस्तु विरोधाघ्रातत्वादनुद्घोष्य
एव ॥
इति द्वितीयपूर्वपक्ष: ॥ २ ॥
पैतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यम् । तथाहि - एकं सामान्यम्, अनेके विशेषाः; तथा नित्यं सामान्यम्, अनित्या विशेषाः; तथा निरवयवं सामान्यम्; सावयवा विशेषाः; तथा अक्रियं सामान्यम्, सक्रिया विशेषाः; सर्वगतं सामान्यम्, असर्वगता विशेषाः । ततश्च तद्यदि सामान्यरूपम्, कथं विशेषरूपम् ? विशेषरूपं चेत्, कथं सामान्यरूपम् ? इति ।
किं चः - सामान्यविशेषोभयरूपत्वे सति वस्तुनः सकललोकप्रसिद्धसंव्यवहारनियमाच्छेदप्रसङ्गः ; तथाहि - विषमोदकक्षीरकदिव्यत्याभिन्नं नानास्वभावमेकं सामान्यं वर्तते । ततश्च न विषं विषमेव मोदकाद्यभिन्न सामान्याव्यतिरेकात्; नापि मोदको मोदक एव, विषाभिन्नसामान्याभेदात् ॥
१. न हि पिण्डशिवकादिव्यतिरिक्तं मृ-हव्यमनुभूयते । २. पर्यायेभ्यो द्रव्यस्य । ३. पर्यायस्य तावत् । ४. पर्यायद्रव्ययोः । ५. नित्यानित्यनिराकरणेन । ६. श्वेताश्वः । ७. आदिशब्दाद्द्वजादिः । ८. भेदः । ९. सत्त्वादि । १०. मोदकस्य । ११. इतरेतराभिन्नसामान्यभेदेन ।
For Private And Personal Use Only