________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तावप्रवेश: क्ताद्वितीयाविक्षणास्थितिः परिकल्पिता,इति प्रथमक्षणस्थितिरेखें । तहि द्वितीयादिक्षणास्थितरित्यत्र चोक्तो दोषः । अर्थ क्षणस्थितिधर्म वस्त्वेव द्वितीयादिक्षणास्थितिः,तिन, तस्यैवायोगात् ; तथाहि-"क्षणस्थितिधक क्षणस्थितिस्थमाधमु. च्यते" इत्यादि तदेवावर्तते, इति । अथोच्येत-द्वितीयाविक्षणास्थितौ सत्यां प्रथमक्षणस्थितरभावात् ,भावे वा तदर्नुपपत्तेः, प्रतियोग्यभावादन्यानन्यत्वकल्पनाऽसम्भवतस्तदुत्थदोषाभावः; तथाहि-द्वितीयादिक्षणे तदेव न भवति ।नन्धेवमपि तस्यैवास्थितत्वात् स्थितिवत् तदनवस्थितस्तद्धमत्वमा सङ्गः, अत•म्मत्वे च तदा स्थित्यापत्तिः; तथाहि- द्वितीयक्षणे तस्यैव स्थितिरिति, ततश्च ‘खतुभ्य एव स्थित्यनवस्थितिधर्मकं समुत्पद्यते' इति प्रतिपत्तव्यम् । न चाक्रमवतः कारणात् क्रमवद्धर्माध्यासितकार्योत्पत्तिर्युज्यते, इति । अतो
१. द्वितीयादिक्षणास्थितिः प्रथमक्षणास्यात्.व्य.....वंशेनैव परिकल्पि. ते त्युच्यते।२.प्रथमक्षणं च इति व्यतिरिक्तत्वात् सावित्युक्तदोषाभावः, इति पराशयः । ३. अनन्यत्वपक्षोदितः । ४. अयैकस्मिन् वस्तुन्यन्यानन्यत्व. विकल्पमसम्भावयन्नेवमाह पर:-१५.एत...ये...क्तम्।६.प्रथमक्षणस्थितेः । ७. द्वितीयादिक्षणस्थितेः । ८. यदा द्वितीयादिक्षणास्थितिः , तदा प्रथम. क्षणस्थितेरभावः; यदि स्याद्भावः, तदा तस्या द्वितीयादिक्षणास्थितेरनु. पपत्तिः, तस्य प्रथमक्षणस्थितिभाविनः पदार्थस्य सम्बन्धिनी असौ द्विती. यक्षणभाविनी अस्तु, इति कृत्वा ततश्च पक्षद्वयेऽपि प्रतियोगिनो द्वितीयस्याभावादन्यानन्यत्वविकल्पानुपपत्तिः। ९. यत्प्रथमक्षणेऽभूदिति । १०. सूरिः । ११. स्थितस्यैव । १२. वस्तु । १३. वस्तु । १५. अनवस्थित्यभावे अनवास्थतिकाले । १५. अनपस्थितिधर्मकत्वमेव वस्तुनो दर्शयति । १६. निरंशैकस्वभावत्वेन युगपत्कियाकारिणः ।
For Private And Personal Use Only