________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
....
INNAPAAMANNAANAANAA
Nanwrmarrrrrari
प्रवृत्तिनियमो न स्वाद् विषादिषु तदर्थिनः । मोदकाद्यपृथग्भूत-सामान्याभेदत्तिषु ॥१॥ भेदे चोभयरूपैक-वस्तुवादो न युज्यते । भेदाभेदविकल्पस्तु विरोधेनैव बाधितः ॥२॥ विशेषरूपं यत्तेपुं तत्मवृत्तेर्नियामकम् ।
साध्वेतत्, किन्तु वस्तुत्वं तस्यैवेत्थं प्रसज्यते ॥ ३ ॥ तथा परेणाप्युक्तम्,
सर्वस्योभैयरूपत्वे तद्विशेषनिराकृतः । नोदितो दधि खादेति, किमुष्टुं नाभिधावति ? ॥१॥
तथाहि-उष्ट्रोपि स्याद्दधि, नापिस एवोष्ट्रः, येनान्योऽपि स्यादुष्टः । तथा दध्यपि स्यादुष्टः, नापि तदेवे दधि, येनान्यदपि स्यात् । तदेवमनयोरेकस्यापि कस्यचित्तद्रूपभावस्याभावात्-स्वरूपस्य वाऽतद्भाविनः स्वनियतस्याभावात् न
१. भेदे सामान्यादेषामिष्यमाणे । २. द्वयस्यापि प्रत्येकमेवैकत्वात् । ३. सामान्यविशेषयोः । ४. विषादिषु । ५. विषादिविषयायाः । ६. विशेषस्य । ७. सामान्यविशेषरूपत्वे । उभयग्रहणमनेकत्वोपलक्षणम् । ८. आस्मन् सति किम् ? इत्याह-तद्विशेष०' उष्ट्र उष्ट्र एव, न दधि; दधि दध्येव, नोष्टः; इत्येवंरूपस्य विशेषस्य ॥ ९. पुरुषः । १०. खादितुम् , इति शेषः । ११. केनचित्प्रकारेण । १२. उष्ट्र एव । १३. कारणन । १४. दध्यादि । १५. दध्येव । १६. कारणेन । १७. उष्ट्रादि । १८. एतेन — सर्वस्योभयरूपत्वे ' इति पदं व्याख्यातम् । १९. 'तद्विशेषनिराकृतेः' इत्येतत् 'तदेवमनयोः' इत्यादिना व्याचष्टे । २०. उभयथा हि दध्युष्ट्रयोर्विशेषः स्यात् , दधिरूपाभावो वोष्ट्रो भवेत् , उष्ट्रस्वरूपं वा दध्यसंभविन्युष्ट्रस्वरूप एव नियतं स्यात् । एवं दध्याप वाच्यम् । आद्यस्य तावदसंभवः 'तद्'इत्यादिना द्वितीयस्य च 'स्वरूप'इत्यादिना कथ्यते । २१. दधन उष्ट्रस्य वा ।
For Private And Personal Use Only