________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः .ww.mmmmmmmmmmmmmmmmmmmmmm
स्यादेतद्- कुशलमायाकारविनिर्मितव्यापारविनियुक्तेषु सर्वथा विलक्षणस्वभावमायागोलकेषु विभिन्ननिर्विकल्पोनुभवानुभूयमानेष्वपि विजातीय भेदग्राहकविकल्पवन्न सजातीयभेदआकविकलासंभवो दृष्टः, सादृश्यात्, एवमिहापि भविष्यन्ति । ___एतदप्यसारम् , सादृश्यस्य परिकल्पितत्वात् ; परिकल्पितस्य च सजातीय ग्राहकविकल्पप्रभवाप्रतिबन्धकत्वात् ; प्रतिबन्धकत्वे च विजातीयभेदग्राहकविकल्पोदयोऽपि न स्यात् : तस्य तैरपि सह सादृश्यस्य परिकल्पयितुं शक्यत्वात् ; कल्पनायाः पुरुषेच्छामात्रनिबन्धनत्वात् ; तदैकारणात् तत्कार्यव्यावृत्यादिलक्षणस्य सादृश्यनिबन्धनस्य मिथोऽत्यन्तविलक्षणस्वभावसकलभाववादिनो वाजमात्रत्वात् । तथा हि-सजातीयासजातीयव्यावृत्त्या अविशेषेण विलक्षणत्वे सर्वभावानां कः केन समानकारण: ? समानकार्यो वा? इति स्वदर्शनानुरागं परित्यज्य लोचने निमील्य चिन्त्यताम् , इति । असति च समानकारणत्वादावतत्कारणात् तत्कार्यव्यावृत्तिरिति, कैषा वाचो युक्तिः? स्वकारणप्रभवश्व कार्यसाधकस्वरूपव्यतिरेकेण वस्तुतः सर्वभावानां सर्वभावेभ्य एवाविशेषेण व्यावृत्तत्वात् , इति । - पर्याप्तं प्रसङ्गेन,
प्रकृतं प्रस्तुम:
१. मायागोलाहिते भिनेनाभिन्नेनाविकल्पेनानुभूयमाना वर्तते। २. गोलकेभ्यो विजातीयघटादयः । ३. गोलकानामेव भेदग्रहि । ४. सादृश्यं हि वस्तुनोऽसत्त्वात् न सजातीय भेदग्राहकविकल्पोत्पत्ति प्रतिबध्नाति, प्रतिबध्नाति चोद्विजातीयभेदग्राहकविकल्पोदयभिति प्रतिबनीयात् । . सजातीयेन विविक्तैकस्वभावानामत्यन्तवैलक्षण्यस्य वस्तुत्वाङ्गीकारेण । ६. सादृश्यस्य । ७. परिकल्पितस्य । ८. विजातीयपि । ९. एकान्तवलक्षण्याविशेषेऽपि यथा सजातीयं मिथः सादृश्यं भवद्भिः परिकल्पितमेव विजातीयैरपि सह् तत् परिकल्पयितुं शक्यत एवेत्यर्थः । १०. स। मृत्कारणं यस्य तत्कारणो घटो न तत्कारणोऽतत्कारणः परादिरेवं तजलानयनादिकार्य यस्य स तत्कार्यो घटो न तत्कार्यो तत्कार्यपटादिरेव, तद्वयावृत्त्यादि, आदिपदा दनदाकार...घटादिषु सादृश्यस्य कारणं भण्यते न वाल्मात्रमेव, वस्तुतः सर्वेषां भावानामविशेषणात्यन्तं विसदृशत्वाभ्युपगमात् । ।
For Private And Personal Use Only