Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवाद प्रवेश:
46
~~
अथवा, स नामाधाय निरुद्धयते ? इति एतदप्ययुक्तम्, वास्यवासकयोर्युगपदभावात् । किञ्च
59
वासकाद् वासना भिन्ना, अभिन्ना वा भवेद् यदि । भिन्ना स्वयं तया शून्यो नैवान्यं वासयत्ययम् ॥१॥ अथाभिन्ना न सङ्क्रान्तिस्तस्या वासकरूपवत् । वास्ये सत्यां च संसिद्धिर्द्रव्यांशस्य प्रसज्यते ॥ २॥ असत्यामपि सङ्क्रान्तौ वासयत्येव चेन्ननु । अतिप्रसङ्गः स्यादेवं, कल्पिता चेत् तयोऽपि किम् ||३|| एतेन यस्मिन्नेव सन्ताने आहिता कर्मवासना ।
फलं तत्रैव सन्ताने कर्पासे रक्तता यथा ॥ ४ ॥
६१
इत्याद्यपि निरस्तमवगन्तव्यम् ।
"
यच्चोक्तम् -' अन्यथात्मनो व्यवस्थितत्वाद् वेदनाभावाद् भावेऽपि विकारान्तराभावात् प्रतिपक्षाभ्यासेनाप्यनाधेयातिशयत्वाच्च मुक्त्यसम्भवः' इत्येतदपि न नः क्षतिमावहति, अनभ्युपगमात् नये कान्तनित्यमस्माभिरात्मादिवस्त्विष्यते ।
किन्तर्हि ? कथञ्चिद्, यथा वास्य नित्यानित्यता सदस द्रूपता च, तथोक्तमेव - नित्यानित्यादिधर्मवैत्येव च ग्राह्यग्राहकभावस्वकृतकर्मफलोपभोग सम्यग्ज्ञानभावनादयो युज्यन्ते, कथञ्चिदवस्थितत्वाद्, अनुभवसिद्धत्वाद्, न चानुभवसिद्धे वस्तुनः
१. यदि हि वास्यो वासकश्च युगपत्स्याताम् तदा वासको वास्ये वासमनाधाय निरुध्यते इत्येतद् घटते । न च वास्यवास कज्ञानक्षणयोर्युगपत्ताभ्युपगम्यते बौद्धैः । २. वासनया । ३. वास्यं । ४. वासको ज्ञानक्षणः । ५. वासनायाः । ६. यथा वासकस्य स्वरूपमभिन्नं सद्वासका वास्येन । सङ्क्रामति । एवं वासनाऽपि वासकादभिन्ना वास्येन संक्रामेत् । ७. सन्तानान्तरवर्त्तिनामपि ज्ञानक्षणानां वासनाप्रसक्तेः । ८. अथ बासना कल्पिता तया मह भेदाभेदविकल्पानुपपन्नाविति चेत् । ९. कल्पितयां वासनया किश्चिदसत्वात् । १०. कर्म । ११. वस्तुनः । १२. वस्तुनि । १३. कथञ्चिदवस्थितत्वं च तस्यैव प्राद्यादेस्तथैव वृतेविशिष्टग्राह्यादि ।
,
For Private And Personal Use Only

Page Navigation
1 ... 64 65 66 67 68 69 70 71