Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवाद प्रवेशः
दानादू" इत्यादि तथा 'यः कुशले प्रवर्तते, स यद्यपि तदैव सर्वथा विनश्यति, तथापि निरुध्यमानः स्वानुरूपकार्याइपादनसमर्थ सामर्थ्य विज्ञानसन्ततावाधाय निरुध्यते' इत्यादि च
अत्र विशेषत उच्यते-सर्वमिदमयुक्तम् , सामाधानस्यासिद्धत्वात् ; तथाहि-किमिदं सामर्यः नाम ? किमुत्तरः कार्यभाव एव ? उत तद्वतकार्यान्तरनिर्वर्तनसमर्थः शक्तिविशेषः? , आहोश्चिद्वासना ? इति, यदि-'उत्तरः कार्यभाव एव तमाधाय निरुध्यते' इत्यभ्युपगम्यते, हन्त ! तहि. क्षणिकत्वविरोधः, नह्यनुत्पनो विरुद्धो वाऽसौ तदाधानकर्तृत्वे प्रमुः, उदयकालाधानाभ्युपगमे च द्वयोरपिः तुल्यकालप्रसङ्गः। अथ तद्गतः कान्तिरनिवर्त्तनसमर्थः शक्तिविशेषस्तमाधाय निरुद्धयते, शत पूर्वोक्तदोषः, तस्य कार्यव्यतिरेकेणानभ्युपगमातं , तदात्मलाभकाल एव चोत्तरकालभाविनोऽपि तन्निवर्गस्य कार्यास्तरस्य भवनप्रसङ्गः, तद्भवमात्रापेशित्वाद, इतरस्यापि भावमात्रेणैव जनकत्वात् , अनन्तरभवने वा तन्निर्वापत्तेरति. प्रसङ्गात् ।
. १. सामर्थ्य । २. कार्यभावं । ३. कुशल । ४. उत्तरकार्यगत । - ५. तस्मादुत्यनोऽविनेष्टश्चत्तरं कार्य जनयतातिः प्राप्तम् । एवं च. क्षणिकत्वं
कुशलकारिणो द्वितीयक्षणेऽप्यवस्थानप्राप्तः । ६. अथ कुशंलकारी कुशलकारणक्षण एवोत्तरकार्य जनयतीत्यभ्युपगम्यते तदा कार्यकारणयोरककालताप्रपर:
७. दूषणान्तरमाह-तदित्यादि तस्याहितविशेषस्य कार्यस्य य अ त्मकालस्त. स्मिन्नेव तनिष्पाद्यमग्रेतनकार्यभाविकार्योत्तरमपि प्राप्नोते । एवं तस्मादप्यने तनं यावत्तदेव सुखदुःखोपभोगप्राप्तिरित्यर्थः । ८, कार्यान्तरस्य । ९. यतस्त. स्य कार्यस्याहितविशेषस्य यद्भावमात्रं तदेवापेक्षते कार्यान्तरम् , नान्यात्कश्चिकारणान्तरं, तद्भावस्य समर्थस्यैवोत्पन्नत्वात् । १०. आहितविशेषस्य कार्यस्यापि । ११. न कारणान्तरायेक्षया । १२. अथाहितविशेषस्य कार्यस्यानन्तरं तस्मिन् । विनष्टे कार्यान्तरं भवतीत्यभ्युपगम्यते प्राच्यदोषपरिहाराय, तदा तेन समर्थन कार्यणानन्तरभूतेन यन्निवत्त्य कार्यान्तरं तस्यापतेरतिप्रसङ्गात् , इदमुक्तं स्याद्यथा तदनन्तरभाविस्वसन्ताने निवत्यं कार्यान्तरमेवमन्यसन्तानेऽपि तदनन्तर• भाविसर्वकार्यान्तरं तन्नित्यं प्रमजतीत्यर्थः । १३. कुशलकारीक्षणः । .
For Private And Personal Use Only

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71