Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवावप्रवेशः
यरूपाः सामर्थ्यप्रकर्षवता रूपभेवनानुगतानन्यान् कालोपाधि प्रकर्षप्रापितरूपभेदान् , तेऽप्यन्यान्मात्रया, इति क्रमेणोत्तरोतरप्रसवपरम्परायं विवक्षितफलापेक्षया चरमक्षणकालभाविनो भावाः परतस्तमतिशयमासादयन्ति, यतः कार्यजन्मेति तदेव वैशिष्टयमिष्यते, इति । . एतदप्ययुक्तम्, विहितोत्तरत्वात् , 'नहि यस्तानामपि कारणे विशेषाधानमन्तरेण समस्तलक्षणकार्यविशेषो युज्यते, अतिप्रसङ्गाद् । विशेषाधानस्य चैकक्षणमधिकृत्य निराकृतत्वात् , प्रबन्धचिन्तायामपि तुल्यत्वात् , क्षणव्यतिरेकेण प्रबन्धायोगात्, उक्तश्च" विशेषहेतवस्तेषां प्रत्यया न कथश्चन । । नित्यानामिव युज्यन्ते क्षणानामविवेकतः ॥ १॥"" इत्यादि।
अथ तदनन्तरभावित्वम् , तदप्ययुक्तम् , अतिप्रसङ्गात , तस्य हि तत्कालोपजातसकलपदार्थेष्वविशिष्टत्वात, तथा च
" तदनन्तरभावित्वात् तत्फलत्वं प्रसज्यते । विश्वस्य कारणं तद्धि न चेत् सर्वस्य सम्मतम् ॥१॥"
१. यदा हि समस्ता अन्यान् समस्तान् जनयन्ति, तदाऽमीषां सहोत्पत्रः क्षित्यादिभिरतिशयः स्यात् ; यदा तु तेऽन्येऽपि समस्ता अपरान् मनस्तान् जनयन्ति, तदा तेऽन्ये समस्ता अन्यूनानतिरिक्तकारणत्वात् , कथमपरसमस्ते. ध्वतिशयमादधतीत्याह-कालेति, काललक्षणो योऽसौ उपाधिर्विशेषस्तेन कृत्वाऽन्यैः समस्तैः प्रापितो रूपभेदो येषामारसमस्तानां तान् । २. किश्चिदधिकमित्यर्थः । ३. व्यस्ता हि. समस्ता लक्षणं विशिष्ट कार्य तदा जनयन्ति, यदि तेषु कोऽपि विशेषः स्यात् । विशेषोऽपि व्यस्तेषु तदैव स्याद् यदि तेषां कारणेऽपि विशेषाधानं स्यात् । ४. जन्म यदि कारणे विशेषमन्तरेणैव कार्यविशेषस्तदा कुशूलस्थापि बीजस्याङ्कुरोत्पत्तिः स्यात् । ५. क्षणे एव प्रतिबन्ध .. इत्यभ्युपगमात् । ६. अव्यतिरेकात् , ७. सकलनामपि पदार्थानां फलत्वप्रसङ्गः । .
८. तस्य. विवक्षितकारणस्य मृदादेः । ९. विवक्षितं मृदादि।
For Private And Personal Use Only

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71