Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
"
अनेकान्तवादप्रवेश:
WWWWWW
दयंच प्रतिक्षणनिरन्वयनश्वरत्वे सत्यात्मादिवस्तुनो न घटामुपति ? " इति ।
तदप्ययुक्तम्, प्रतिक्षणनिरन्वयनश्वरात्मपक्ष एव युज्यमानत्वात् तथाहि नैरात्म्यवादिनः क्षणिकाः पदार्थाः, यथा हेतुसन्निधानं विक्रियामात्मसात्कुर्वाणाः समुपरोधहेतुभिर्यदा पीड्यते दुःखविशेषाध्यासितोत्तरोत्तरक्षणोत्पत्सितः, ततस्ते निर्विद्यन्ते, निर्विद्योत्तरोत्तरक्षण समुत्पादानिर्विण्णास्तदुत्तरोसरश्रुतभावनादिना अक्लिष्टानेकक्षणपरम्परोत्पादनेन दानदमसंयमाद्यनेकप्रकार शुभधर्माध्यासाद् रागादिबीजोन्मूलन समर्थमार्गभावातः प्रतिकलमवदायमानविशुद्धि पर्यन्तवर्तिक्षणोत्पादाधिगतविमुक्तयः कथ्यते इत्यनवद्यम् अन्यथा, आत्मनो व्यवस्थितत्वाद्वेदनाभावेऽपि विकारान्तरभावात्, प्रतिपेक्षा. भासेनाप्यनाधेयातिशयसम्भवाश्च मुक्त्यसम्भवः,
इति ॥
,
"
५५
"
"
एतदपि तवापरिज्ञानविजृम्भितमेव भवत्पक्षेऽपि विशिष्ट हेतुफलभावानुपपत्तेः तथाहि किं वैशिष्ट्यं नाम ? किं हेतुफलयोरैक्यम् ? तयोरेवैककालता ? अथ कारणधर्म संङ्क्रान्तिः ? उत साधारणवस्तुसम्बन्धित्वम् ? किं वैकार्थक्रियाहेतुत्वम् ? किं वा विशिष्टकारणजन्म ? किं वा तदनन्तरभावित्वम् ? किं वा विशिष्टक्रिया हेतुत्वम् ?
किं चातः ?
यदि हेतुफलयोक्यम्, तर्हि हेतुफलभावानुपपत्तिरेव, सकत्वान्मृत्पिण्डत्कादीनामपि घटपटाद्यभेदतो जलाद्यानयनाविकार्यप्रसाधकत्वप्रसङ्गात्, घटादीनामपि वा प्रसङ्गात् ।
१. मुक्तेः । २ मते । ३. ज्वरादिभिः । ४. प्रबन्धेन निवृताः सन्तः । ५. नैरात्म्य । ६. विशुद्धयमानाच ते विशुद्धिपर्यन्तवत्तिक्षणोत्पादाधिगतविमुक्तयचेति समासः । ७. एवमनभ्युपगमे । ८. अप्रयुतानुत्पन्नस्थिरैकस्वभावतया । ९. वेदनायाः, इति शेषः । १०. शास्त्रविहितेन । ११. जलायानयनादिकार्यस्यात्प्रसक्तेः घटादीनां मृदायभेदात् मृदादिषु जलाद्यानयनादिकार्यस्याभावात् ।
1
For Private And Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71