Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
...
.
अनेकान्तवावप्रवेशः aamannmammiummmmmmmmmmmmaamirmiremainamam
- स्यादेतत्-समानकालयोरेव पायग्राहकभावः, तथाहिस्वहेतुभ्य एव तद्विज्ञानं विशिष्टसमानकालभाविभावग्राहकस्वभावम् , भावोऽपि तनाथस्वभाव एवोत्पद्यते; इति यथोक्त
दोषानुपपत्तिः। . न, तयोस्तादात्म्यतदुत्पत्त्यनुपपत्तेः प्रतिबन्धाभावात्।
इत्यलं प्रसङ्गेन, विजृम्भितमेवाऽत्रास्मत्स्वयूथ्यैः; इति ॥ स्मरणाद्यसम्भवस्तु प्रतिक्षणनिरन्वयेन नश्वरत्वे सति वस्तुनः सु. भाव्य एव । महन्येनान्यस्लिमनुभूतेऽन्यस्याम्योपलब्धौ स्मरणप्रत्यभिशादयो युज्यत इति । ऐवम् , ऐहिकसकललोकसंव्यवहाराभावः, इति स्थितम् , आमुष्मिकव्यवहारस्तु सुतरामसङ्गतः, कृतनाशाकृताभ्यागमप्रसङ्गात् । तथाहि-यः कुशले प्रवर्तते स तदैव सर्वथा विनश्यति, कुशलमपि च कर्मात्मलाभसमनन्तर
मेव निरन्धयमपैति, अतःकृतनाशः, क्षणान्तरस्य चिरविनष्टा- स्कर्मणः पुनरायत्यां फलोदयाभ्युपगमे सत्यऽकृताभ्यागमः, इ. त्येतचासमञ्जसम् ॥ ......
तथा मुक्तिरपिप्राणिनामसङ्गतैव; तथाहि-तीव्रतरवेदनाधि-- भिन्नशरीरः संसारविमुखया प्रईया विभावितसंसारदोषो निरास्थो जिहासुर्भवमुपारिनिर्वाणं रागादिलेशपक्षविक्षोभक्षममामुलीकृत्य मार्गममलं क्रमेणाचदायमानचित्तसन्ततिनिरतिशयपेशलरसैमास्वादयति निर्वृतिमिति न्यायः, अयं च प्रतिक्षणनिरन्वयनश्वरत्वे सति आत्मादिवस्तुनो न घटोमुपैति, त-'. था-हिअन्य एव दुःखैः सांसारिकैः पीड्यते, अन्यश्च निर्विद्यते,
१. स्वहेतोरेव । २. भावात् । ३. अर्थसंवेदनयोः । ४. समकालतयेति भावः । ५. दिवाकरादिभिः । ६. सचेतनादेः । ७. प्रमात्रा । ८. प्रमेये । । १. प्रमातुः । १०. प्रमेयान्तरोपलब्धी । ११. यथोक्तनीत्या। १२. पारत्रिकः। । १३. कर्मफलसम्बन्धादिभिः । १४. तदा फलमदत्त्वैव नाशात् । १५. निर• न्वयनश्वरत्वात् । १६. सन् । १७. लोकोत्तरया । १८. जन्मादिभावेन । १९. संयोगवियोगसारत्वात् संसारम्य । २०. सम्यग्दर्शनादि । २१. प्रीतिं । २२. ततोऽत्यन्तभेदात।
For Private And Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71