Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३८
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेश:
1
अंधान्येनानुभवस्योभयस्वभावापत्तिः, तथा च सति स्वभावयोर्धर्मत्वादनुभवस्य च धर्मित्वान्मिथो भेदाभेदोभयविकल्पप्रभवो दोषोऽनिवार्यते इति; मृग्यतां त्राणार्थमुपायः । परिकल्पितोभयस्वभावाभ्युपगमकवचोपायसद्भावात् प्रयासमात्रफ लोsभीष्टफलविकलो दोषाशनिः इति चेत् ? न, प्रचण्डवेगमहास्रोतः प्रवाहापहियमाणकुशकाशावलम्बनप्रायत्वादुपन्यस्तोपायस्यः तथाहि परिकल्पितोभयस्वभावताभ्युपगमेन परमार्थतोऽसौ न विजातीयभेदग्रहणस्वभावो नापि सजातीयभेदग्रहणापटुस्वभावः, इति । अतोऽनुभवस्य स्वभावरहितत्वादननु भवत्वप्रसङ्गः, इति । तदिदं 'पिशाचभयात् पितृवनाश्रयणमायातम्' इति धिग्, अहो दारुणं तमः ।
अपरस्त्वाह-यथैवाक्रमवति सामान्यविशेषोभयस्वभावे वस्तुनि तथाविधक्षयोपशमाभावान्नावग्रहकाल एव भवतः, सतामपीहादिगोचराणां धर्माणामवगमः: अभ्युपगमे वा, गृहीत
१. द्वितीयपक्षे । २. अभ्युपगम एव कवचः । ३. निर्विकल्पः । ४. हे जैन ! तव मते । ५. अवग्रह्णमवग्रहः, अनेर्देश्यसामान्यरूपमात्रार्थग्रहणमित्यर्थः । तथा ईहनमीहा, सद्भूतार्थपर्यालोचनरूपा चेष्टा ईहा, ईह चेष्टायामिति वचनात् । किमुक्तं स्यात् ? अवग्रह। दुत्तरकालमपा ( वा ) यात्पूर्वं सद्भूतार्थविशेषोपादानोऽ भिमुखोऽसद्भूतार्थवशेषपरित्यागाभिमुखः । प्रायोऽत्र मधुरत्वादयः शाखादिशब्दधर्माी श्यन्ते न खरकर्कशनिष्ठुरतादयोः शार्ङ्गादिशब्दधर्माः इत्येवंरूपो मतिविशेष ईहेत्यर्थः । तथा तस्यैवावगृहीतस्येहितस्य चार्थस्य निर्णय रूपोऽध्यवसायो (वा) पायः, एवं शाङ्ख एवायं शार्ङ्गएवायमित्यादिरूपोऽवधारणात्मकः प्रत्ययोsवा (पायः, इति भावः । तस्यैवार्थस्य निर्णीतस्य धरणं धारणा, सा च त्रिधा, अविच्युतिः, वासना, स्मृतिश्च । तत्र तदुपयोगादावच्यवनं अविच्युतिः, सा चान्तर्मुहूर्तप्रमाणाः ततस्तया अहितो यः संस्कारः, सा वासनाः सा च संख्येयमसंख्येयं वा कालं यावद्भवति, संकपेयवर्षायुषां संख्यं कालमसंख्येयवर्षायुवामस पेय कालमिति भावार्थः, ततः कालान्तरे कुक्षिनाशार्थदर्शन-दिकात् कारणात् संस्कारस्य प्रबोधे यज्ज्ञानमुदयते तदेवेदं यन्मया प्रागुपलन्धमित्यादिरूपं सा स्मृतिः । एताश्वाविच्युतिवासनास्मृतयों धरणलक्षणसामान्यान्वर्थयोगाद्धारण|शब्दवाच्याः । अवग्रहादयोऽनेनैव क्रमेण स्युः तथाहि - नानवगृहीतमह्यते, न चानीहितमवगम्यते नचानवगतं धार्यते । ६. अवगमस्य ।
>
"
For Private And Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71