Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 45
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra अनेकान्तवादप्रवेशः काकाशसंयोगान्यथानुपपत्तेः । अथान्येन; आयातं तर्हि सदेशत्वमाकाशस्य । स्यादेतद् अदेशत्वाद् वियतो यथोक्तविकल्पासम्भवः, तत्रैकैस्मिन्नेव तेषामवस्थितत्वाद् । इदमप्ययुक्तम् , वस्तुतः पूर्वोक्तदोषानतिवृत्तेः । न च सर्वव्यापिनो विन्ध्यादयः, इति; येन तस्मिन्नेव तेषामवस्थितत्वाद् , इति सफलं भवेद् , इति; यतो यंत्र विन्ध्यभावो यत्राभावः, इत्यनयोनभोभागयोरन्यत्वम् ? अनन्यत्वं च ? इति वाच्यम्। किंचातः ?। - यद्यन्यत्वम् , किं सर्वथा? आहोश्चित् कथंचित् ? यदि सर्वथा, हन्त ! तर्हि यत्र विन्ध्यभावस्तत्राप्यभावः स्यात् , तदभाववत्, नभोभागाव्यतिरिक्तत्वात् , तद्भाववनभोभागस्य विपर्ययो वा। अथ कथंचिद् , अनेकान्तवादाभ्युपगमात् स्वकृतान्तप्रकोपः । अथान्यत्वम्, किं. सर्वथा : उत कथंचित् ? यदि सर्वथा, अन्यतमस्यानभोभागस्य(त्व प्रसङ्गः, सर्वथा भेदान्यथानुपपत्तेः। अथ कथंचित्, स्वदर्शनपरित्यागदोषः, इति । . स्यादेतद् , भागानभ्युपसमाद् व्योम्नो यथोक्तदोषानुपपत्तिः, इति । ..... अनभ्युपगममात्रभक्तो देवानांप्रियः सुखैधितो नापत्तिप्राप्तानपि भागानवगच्छति, इति । ननु 'विशिष्टभावभावाभाव ... १. देशेन । २. निःप्रदेशे । ३. विन्ध्यादीनां । ४. विन्ध्यायेकत्रावस्थानप्रसङ्गः । ५. पूर्वोक्तदोषानतिवृत्तवन्यथा समय नाह-न चेति । ६. देशे । ७. बिन्ध्यभावयुक्त । ८. विन्धभावयुक्तस्य नभोभागस्य । ९. यत्र भावस्त- . त्रापि भावप्राप्तिः सिद्धान्त । १०. यत्र विन्ध्यभावो यत्राभाव इत्यनयोरेकस्य । .. ११. सर्वधर्मवलक्षण्ये हि सर्वथा भेदस्तस्मिंश्च सत्येकस्य भावरूपताऽपरस्य चापिनेति अनोभागत्वमेव भवतीति भावना । १२. मूर्खः, इत्यर्थः । १३. शास्त्रग्रहणे परिश्रमत्यागेन सुखद्धितः । १४. विन्ध्यभाव.भावाभ्यां । १५. एतद्भावनायैवाह । १६, विशिष्टभावोऽन्यव्यावृत्ततया विन्ध्यभाव एव तस्य सत्वासत्त्वाभ्यां । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71