Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेश:
ग्राहित्वेनेहादीनामप्रमाणत्वप्रसङ्गात् । तथाऽस्माकमप्यर्वाग्रहशां क्लिष्टचित्तत्वात् सतोऽपि सजातीयभेदस्य तदानवगमः; सकलरागादिवासनाकलङ्कविकलास्तु योगिनोऽवगच्छन्त्येव, इति ।
पदप्ययुक्तम् , ईहादिगोचराणां प्रायोऽवग्रहोत्तरकालं प्रमातृभिर्गृह्यमाणत्वात् , सजातीयभेदस्य च काचित् कैन्धिदापि ग्रहणानुपपत्तेः; 'योगिनो गृह्णन्ति'इत्येतदपि श्रद्धागम्यम्, प्रमाणाभावाद् , इत्युक्तम् ।
यश्चोक्तम्-"एकं सामान्यम् , अनेके विशेषाः;" इत्यादि,तदप्ययुक्तम् , अनभ्युपगमात् । नहि यथोक्तस्वभावं सामान्यमभ्युपगम्यतेऽस्माभिः, युक्तिरहितत्वात् ; तथाहि-तदेकादिस्वभावं सामान्यमनेकेषु दिगदेशसमयस्वभावभिन्नेषु विशेषेषु सर्वात्मना वा? देशेन वा वर्सेत ? न तावत्सर्वात्मना, सामाम्यानन्त्यप्रसङ्गाद , विशेषाणामनन्तस्थात् , एकविशेषव्यतिरेकेण वान्येषां सामान्यशन्यतापत्तेः, ऑनन्त्ये चैकत्वविरोधात् । नापि देशेन, सदेशवप्रसङ्गात् । न च गगनवद् व्यापित्वाद् वर्तते, पति अकलङ्गन्यायानुसारि चेतोहरं वचः, अविचारितरमणीयत्वात् । कायंदेशव्यतिरेकेण वृत्त्यदर्शमात् ।।
उभयव्यतिरेकेण नभसो वृत्तिः, इति चेत् ? ने, असिदस्वात्, नभसः सप्रदेशत्वाभ्युपगमात् । निःप्रदेशत्वे चानेकदोषप्रसङ्गात् । तथाहि-येन देशेन विन्ध्येन सह संयुक्तं नमः हिमवन्मन्दरादिभिरपि किं तेनैव ? आहोश्चिदन्येन ? इति । यदि तेनैव, विन्ध्यहिमवदादीनामेकत्रावस्थानादिप्रसङ्गः, निःप्रदेशै
१. अर्वाग्दर्शितःकाले । २. यदाऽवग्रह दयः सामस्त्येन स्युस्तदाऽवग्रहोनरकालमीहादिगोचरा गृह्यन्ते, यदात्वेते सामस्त्येन न स्युस्तदा न गृह्यते, अपि यतो दृश्यत एवेहाद्यभावेऽपि क्वचिददग्रहमात्रम् । तथा निरवायेहानिद्धारणश्चावायस्तथा तदनुभवगिद्धेः, इति व्यवच्छेदार्थ प्रायो ग्रहणम् । ३. एकमित्यगिरवयवाक्रियसवंगरूपम् । ४. घटादिषु । ५. अन्येषां सामान्य शून्यतापरिहाराय सामान्यानामानन्त्येऽभ्युपगम्यमाने एकसामान्यामिति विरुध्यते, । ६. भावेषु । ७. अधिकृतनभोवृत्तिः । ८. जनः । १.. निःप्रदेशं च तदेकाकाशं च तेन
गम्बन्धः ।
For Private And Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71