Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
_
अनेकान्तवादप्रवेश xnxxmamimmammam प्रतिपत्तेः किमेकीकरणेन ? । अथोपरः, इति, अप्रतिपन्नयोश्चैकीकरणमयुक्तम् , अतिप्रसङ्गात् । तथाहि-अप्रतिपन्नेनापि वि. वैक्षितेनैव दृश्येनकीकरोति, न दृश्यान्तरण, इति किमत्र नियामकम् ? ।
स्यादेतद् , असौ तत्समानजातीयदृश्यसंवेदनाहितवासनाप्रकोपप्रबोधितस्वबीजजन्माविकल्पः, इति; अतो 'न रश्यान्तरेण' इत्येतदप्यसङ्गतम् , दृश्यसंवेदनाहितवासनाप्रकोपस्य तत्प्रबोधाक्षमत्वाद् , इति ।
एतदावेदितं प्रोग, अतो नेह प्रयत्नः, इति; अलं विस्तरेण ॥
यश्चाक्तम्-" सङ्केतवशाच शब्दात्प्रवृत्तिः, तस्य च विकल्पमन्तरेणान्यत्र कर्तुमशक्यत्वात्" इति; एतदघटमानकम् , विकल्पेऽपि सङ्केतस्य कर्तुमशक्यत्वात् , तस्याप्युत्पत्तिः, अ-. नन्तरोपवर्गित्वात् । तथाहि-तस्मिन्नपि सङ्केतविधिरनुत्पन्ने वा क्रियते ? उत्पन्ने वा ? विनष्टे वा? इति विकल्पाः । न तावदनुत्पन्ने, असत्वात् । नाप्युत्पन्ने, तस्योत्पादसमन्तरमेवाविगमात् ; क्षणस्थितिधर्माण च सङ्केतस्य कर्तुमशक्यत्वात् । नापि विनष्टे, विनष्टस्यासत्वात्।
१. योजनाभावान्न किञ्चिदित्यर्थः २. अप्रतिपाद्यैकीकुर्यादित्ययं पक्षः । ३. भेदेनागृहीतयोः । ४. भेदानागृहीतनापि । १. घटेन । ६. विकल्प्यमर्थ घटादिस्वलक्षणेन । ७. अप्रतपन्नत्वाविशेषात् । ८. तस्य तदानी प्रवृत्तिविषयस्व । घटस्वलक्षणस्य यः सजातीयो दृश्यो घटस्वलक्षणान्तरं तस्य यत्सङ्केतग्रहणादिकाले संवेदनं तेन यश्चहितः सस्कारविशेषस्तेनोवोधितविकल्पस्य यत्
स्वं बीजं शब्दज्ञानं तज्जन्मा । ९. ननु पटादिस्वलक्षणनेकीकरोति । १०. विकल्प । ३११. सत्त्वासत्त्वाधिकारे स्वलक्षगानुभवाहितसंस्कारात् तजन्मेति चत् , न,
संस्कारस्यानि स्वलक्षगेतररूपानतिक्रमादित्यादिना निवेदितम् । १२. अपोहं । १३. स्वलक्षणेऽपि विकल्पो ह्ययमपोहः, स च त्रिधा एकस्तावव्यावृत्तम् स्व. लक्षणमेव, अन्यव्यवच्छेदमात्रं द्वितीयः, विकल्पबुद्धिप्रतिभासस्तु तृतीयः, तत्र प्रथमपक्षाश्रयेणाह-विकल्पेऽपीत्यादि । १४. स्वलक्षणरूपविकल्पस्य । १५. विनाशित्वात् ।
For Private And Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71