Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SHITAVAILA
Shri Mahavir Jain Aradhana Kendra
अनेकान्तवादप्रवेशः
तस्माद् ' अन्वयाविनाभूतो व्यतिरेकः, व्यतिरेका घिनाभूतश्चावैयः, इति' वस्तुस्वभाव:, तथा चोक्तम्
" नान्वयः सहभेदित्वान्न भेदोऽन्वयवृत्तितः । मृद्भेदद्वय संसर्गवृत्तिजात्यन्तरं घटः ||१|| " इत्यादि ।
तस्माद् तद्यत एव नित्यम्, अत एवानित्यम् ; द्रव्या त्मना नित्यत्वात् तस्यै चाभ्यैन्तरीकृतपर्यायत्वात् । यत एकः चानित्यम्, अत एव नित्यम्; पर्यायात्मनाऽनित्यत्वात् तस्यः चाभ्यन्तरीकृतद्रव्यत्वात् । उभयरूपस्य चानुभवसिद्धत्वात् । एकान्तभिन्नस्य चोभयस्याभावात् । उक्तं च
३२
द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः ।
क्वं कदा केन किंरूपी दृष्टा मानेन केन च || १ ||" इत्यादि । स्यादेतत्- पर्यायानेवृत्तौ द्रव्यनिवृत्तिर्भवति किं वा न ? इति । किं चातः ?
"
यदि भवति, अनित्यमेव तत्, निवृत्तिमच्चात् पर्यायस्वात्मवत् । अथ न भवति, हन्त ! तर्हि द्रव्यपर्याययोर्भेदप्रसङ्गः; तथाहि - पर्यायेभ्योऽन्यद्द्रव्यम्, तन्निवृत्तावपि तस्य निवृत्तेः क्रमेलकादिव कर्कः, इति । एतदप्ययुक्तम् कैथं विनिवृत्तिभावात् । अस्य चानुभवसिद्धत्वात्; तथाहि
"
१. तद्गर्भत्वात् । २. तद्गर्भत्वात्
,
३. स घटो नान्वय एव कुतः, इत्याह- उद्धवी दिरूपेण भेदित्वात् एवं न भेंद एव कुतः ? अन्वय वृत्तितो मृदूपेण प्रवृत्तेः किं तर्हि ? अन्वयव्यतिरेकसम्बन्धवर्त्तः मानं जात्यन्तरं घटः । ४. द्रव्यात्मनः । ५. द्रवति तांस्तान् पर्यायान् सद्भावपरिणामेन इति; अन्यथा, द्रवणानुपपत्तिः, इति भावना । ६. पर्यायात्मनः । ७. अन्यथा, पर्ययणायोग; इति हृदयम् । ८. देशे ९० प्रमात्रा । १०. इतरेतरवैकल्येन नीरूपतापत्तेः इत्यर्थः । ११. प्र. त्यक्षादिना । १२ पर्याय । १३. द्रव्यस्य । १४० * तन्निवृत्तत्वलक्षणेन..... * तस्य द्रव्यस्य संबन्धी निवृत्त
*******a
For Private And Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71