Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेश संवेदनसम्भवः, व्यावृत्ताकारनिवन्धनस्य पर्यायभेदस्याभावाद् ; अन्यथा, एकान्तनित्यत्वानुपपत्तेः, तथा चोक्तम् भावेष्वेकान्तनित्यषु नान्वयव्यतिरकवत् । संवेदनं भवेद धैर्ममेदाभावादिह स्फुटम् ॥१॥ इत्यादि । तथा एकान्तनश्वरेष्वपि नाधिकृतसंवेदनभावो युज्यते, अनुवृत्ताकारनिबन्धनस्य द्रव्यस्यान्वयाभावात् । न च निरन्वयनश्वरवादिनः तदन्यप्रभवः सम्भवति, सर्वथा हेतुनिवृत्ताः वहेतुकत्वेप्रसङ्गाद; अन्यथा, अन्वयसिद्धेः, इति । उक्तं च " सतथा कारणोच्छेदाद्भवेत् कार्यमहेतुकम् । .. तच्छक्त्यवयवाधारस्वभावानामनन्वयात् ॥१॥ इत्यादि।। नचाऽस्य संवेदनस्य बाधकः प्रत्ययोऽस्ति, कदाचिदप्यनुपलब्धेः। न च 'योगिप्रत्ययो बाधक: ' इति युज्यते वक्तुम् , प्रमाणाभावाद । उक्तं च क्षणिक योगी विजानाति, न नित्यं चेति का प्रेमा । देशनायो विनेयानुगुण्येनापि प्रवृत्तितः॥१॥" इत्यादिन १. पर्यायभेदे सति । २. पर्यायभेदात् । ३.अन्वयव्यातिरेकवत् ।४.ततो निरन्वयनश्वराद्वस्तुंनस्तत्सदृशस्यान्यप्रभव उत्पादः ५. मृत्पिण्डाद्यभावमाश्रित्य घटादेरुत्पादात् । ६. तत एव तद्भावे । ७. स्वभावाद भावभूते । ८. तच्छक्ते:-कारणशक्तेः, अवयवाः-शक्तिशक्तिमतौरभेदात् कारणावयवा एव; तच्छक्त्यवयवाश्च ते आधारस्वभावाश्च, इति, प्रक' मात् कार्यस्य, इति विग्रहः, तेषामन्वयादुच्छेदेन। ९. अन्वयव्यतिरेकवतः। १०. जातिविकल्पभावनाकालेऽपि. अपास्ताशेषप्रपञ्चः । ११. योगिप्रत्ययाग्रहणाद्, इत्यर्थः । १२. न किंचित्प्रमाणं तज्ज्ञानाग्रहणात् १३. 'देशना प्रमाणं भविष्यति'इति। एतदपोहायाह-भूतात्मनो द्वैताद्वैतदेशनावद्, ब्राह्मणस्य मृतजायामृतदेशनावच्चेति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71