Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः - स्यादेतद्-विकल्पोयं 'घटो घटः इत्येतद्रपपरावृत्तवस्तुजन्यः, संकेतवासनोत्थोपि तत्त्वान्न वस्तुस्वरूपप्राही, तग्राही तु सजातीयासजातीय व्यावृत्तवस्तुस्वलक्षणविषयत्वान्न यथोक्तप्रकारः; इत्यतो 'अनुभवसिद्धत्वाद् ' इत्ययुक्तम् । न, निर्विकल्पकानुभवस्यापि तत्त्वतो यथोक्तप्रकारात्, गृहीतग्राहित्वेन विकल्पस्य प्रामाण्यानभ्युपगमात्; अन्यथा, गृहीतग्राहित्वानुपपत्तेः; एकस्याकारभेदेनाप्रतिभासनात् , हेत्वयेगेन च परपंक्षे विकल्पाभावस्य प्रतिपादितत्वात् । इति ॥ किं च-यद्यसौ सजातीयासजातीयव्यावृत्सवस्तुस्वलक्षणप्रभवो निर्विकल्पकानुभवः, इति । अथ कस्मात्तत्पृष्ठभावी तत्सामर्थ्यजन्मा विजातीयभेदग्राहकविकल्पवत्सर्वथा सजातीयभेद ग्राहकविकल्पो न भवति? न च भवति, तथानुभवाभावात्। तस्मात्समानासमानपरिणामविशिष्टवस्तुप्रभव एवासावपि प्रतिपत्तव्यः, युक्तियुक्तत्वात्। १. 'घटो घटः' इत्येवंरूपोल्लेखः । २. एतस्य घटस्य यद्पं सजातीयासजातीयव्यावृत्तिलक्षणम् , तस्मात् परावृत्तं-निवृत्तं पराभिमतत्वेन वस्तु सामान्याख्यम् , तज्जन्यः। ३. सामान्यविशेषाकारः । ४. सामान्यविशेषाकारत्वात् । ५. यदि निर्विकल्पकं सामान्यविशेषाकारं न स्यात्तदा सविकल्पकस्य यद् गृहीतं इत्येवंकारेण वा विशेषाकारा। ६. प्राहित्वमभ्युपगम्यते तन्नोपपद्यते, यदि हि सामान्यविशेषौ निर्विकल्पेन गृहीतौ सविकल्पं गृहणाति, तदैव तद्गृहीतग्राहित्वादप्रमाणं स्यात् । अथैकस्वभावाद् वस्तुतः सामान्यविशेषानिर्विकल्पोत्पत्तिरिति न वाच्यम् , यदि हि वस्त्वेकस्वभावं स्यात् तदा आकारभेदेन प्रतिभासभेदो न स्याद् , अविकल्प एवाकारभेदेन प्रतिभासते नाविकल्प इत्यपि न वाच्यम् । हेत्वयोगेन परपक्षे विकल्पस्यैवाभाव इति सत्त्वासत्त्वपरिच्छेदे सा कल्पना वस्तुनि समुत्पन्ने वेल्यादिविकल्पैरुक्तत्वात् तस्मानत्वतः परमतेऽविकल्पस्यैव सामान्यविशेषात्मकत्वम् । ७. बौद्धमते । ८. ' हेत्वयोगश्च स्वलक्षणादनुत्पत्तेरित्यादिग्रन्थेन पूर्वमेवास्माभिर्विकल्पज्ञानाभावस्य प्रतिपादितत्वात् । ९. यथा निर्विकल्पाद्विजातीयपटादिभेदग्राहको विकल्पः स्याद् एवं सजातीयेभ्यो घटेभ्योऽपि भेदग्राहको घटविकल्पः कुतो न भवति ? १०. निर्विकल्पानुभवः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71