Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः इत्यादि यदाशङ्कयोक्तम्-'पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धिः' इत्यादि । तदपि प्रतिक्षिप्तमेधावगन्तव्यम् , कथंचिव्यतिरेकसिद्धेः, इति । तथाचोक्तम् " द्रव्यपर्याययोः सिद्धो भेदाभेदः प्रमाणतः। संवेदनं यतः सर्वमन्वयव्यतिरेकवत् ॥ १॥ स्वसंवेदनसिद्धे च विरोधोद्भावनं नृणाम् । व्यसनं धीजडत्वं वा प्रकाशयति केवलम् ॥२॥ इत्यादि कृतं विस्तरेण ॥ इति नित्यत्वानित्यत्ववादः ॥२॥ (३) यञ्चोक्तम्-" एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यम्" इत्यादि । तदप्ययुक्तम् , सामान्यविशेषरूपस्य वस्तुनोऽनुभवसिद्धत्वात् ; तथाहि- घटादिषु 'घटो घटः ' इति सामान्याकारा बुद्धिरुत्पद्यते, 'मार्तिकस्ताम्रो राजतः' इति विशेषाकारा च; पटादिर्वा न भवेति, इति । नार्थसद्भावोऽर्थसदावौदेव निश्चीयते, सर्वसत्त्वानां सर्वशत्वसङ्गात् । सर्वार्थानामेव सद्भावस्याविशेषात् । किं तर्हि ? अर्थविज्ञानसद्भावान्निचयः, शानं च सामान्यविशेषाकारमेवोपजायते । इत्यतोऽनुभवसिद्धत्वात्सामान्यविशेषरूपं वस्तु इति । न च 'अयमनुभवो भ्रान्तः' इति युज्यते, घटादिसन्निधावविकलतदन्यकारणीनां सर्वेषामेवाविशेषणोपजायमानत्वात् ॥ १. भेदाभेद । २. 'घटः' इत्येवंरूपोल्लेखः । ३. कारणादेव । ४. कुतः प्रसङ्गः ? इत्याह- । ५. भवनोदरवर्तिनाम् । ६. सर्वसद्भावस्य । ७. सति । ८.सम्पूर्णालोकादिकारणामामित्यर्थः । ९. प्रमातॄणां सामान्येन भिक्षपायकादीनामपि। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71