Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
1
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
२९.
तदेवमिहापि विज्ञानादिकार्यायोगः इति स्थितम् । नित्यं [ नित्यं ] पुनः कथञ्चिदवस्थितत्वादनेकस्वभावत्वा जनयतीति विज्ञानादिकमित्यतोऽवगम्येते इति ।
pa
नित्यानित्यत्वं च वस्तुनो द्रव्यपर्यायोभयरूपत्वादनुवृतव्यावृत्ताकारसंवेदन ग्राह्यत्वात् प्रत्यक्षसिद्धमेव, तथाहि - मृत्तिण्ड शिवकस्थास घटकपालादिष्यविशेषेण सर्वत्रानुवृत्तो मृदन्वयः संवेद्यते, प्रतिभेदं च पर्यायव्यावृत्तिः; तथा च-न यथाप्रतिभासं मृत्पिण्डे संवेदनं तथाप्रतिभासमेव शिवकादिषु, आकारभेदानुभवात् । न च यथाप्रतिभासभेदं तद्विजातीयेषूदकदहन पवनादिषु तथा प्रतिभासभेदमेव शिवकादिषु, मृदन्वयानुभवात् । न चास्य स्वसंवेद्यस्यापि संवेदनस्यापह्नवः कन्तु युज्यते, प्रतीतिविरोधात् । न चे निराकारं संवेदनम थान्तरस्येव ततो विवक्षितार्थापैरिच्छेदात् । नैं हाथकारानुमवव्यतिरेकेणापरोऽर्थपरिच्छेदः, अतिप्रसङ्गात्, सर्वस्य सर्वापरिच्छेत्तृत्वांपत्तेश्च । न चं ' इदं संवेदनं भ्रान्तम्' इति शक्यते वक्तुम्, देशकालनरावस्थान्तरे विशेषेण प्रवृत्तेः; तथाहि - देशान्तरे कालान्तरे नरान्तरेऽवस्थानान्तरे च मृत्तिण्डादिषु यथोक्तसंवेदनं प्रवर्त्तते । न चार्थप्रभवमविसंघ दिसं वेदनं विहाय जातिविकल्पेभ्यः पदार्थव्यवस्था युज्यते, प्रतीतिबाधितत्वेन तेषामनादेयत्वात् । न चैकान्तनित्यषु यथोक्त
"
•.
१. द्रव्यरूपतया । २. नित्यानित्यं वस्तु । ३. यथाकारम् । ४. मृत्पिण्ड । ५. निराकारं बोध... ममवे संवेदनमुच्यते । ननु साकारम्, अतोऽनुवृत्तव्यावृत्ताकारं संवेदनमसंवेदनमेव इति न वाच्यम् इत्यर्थः । ६. निर्विषयस्यैव विषयारूढस्यापि ततो निराकारात् सकाशात् परिच्छेदाभावात् । ७. एतद्भावयति । ८. अतिप्रसङ्गश्च तदाकारताभावे निर्वियस्येव सर्विषयस्याप्यपरिच्छेदेन । ९. परिच्छेद्यवदपरिच्छेद्याकारशून्य. स्वाविशेषाद् इति हृदयम् । १० अन्वयव्यतिरेकवत् । ११. ननु गननावनति मायोदकस्थाणुपुरुषशङ्खादिपातादिसंवेदनवद् देशान्तरादावन्यथा रूपम्, इति । १२. व्यतिरिक्ताव्यतिरि कलक्षणेभ्यः। १३. अनुवृत्तव्यावृत्ताकार |
For Private And Personal Use Only
む

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71