Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
૧૮
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
किं चं- अत्रापि धर्मधर्मिणोर्नानाम् ? अनानात्वं च ?' इति वाच्यम् । यद्यनानात्वम्, कि सर्वथा ? उत कथंचिद् ? यदि सर्वथा, ततः स्थित्यस्थित्योरेकत्वम्, एकस्माद् धर्मिणोऽनानात्वा तत्स्व । एवं च स्थिति
सङ्गोऽस्थितिप्रसङ्गो वा; धर्मिणो वादः स्थित्यस्थित्योरनानात्वात्, तत्स्वात्मैपदक तथा च-जन्यंदेव स्थितिमद् अन्यैव तच्छून्यम् इति कुतः क्षणस्थितिधर्मकत्वम् १ | अथ कथंचिद्, अभ्युपगमविरोधः । अथ नानात्वम्, तदपि सर्वथा ? कथंचिद्वा । इति; यदि सर्वथा, हन्त ! तहि स्थित्यस्थितिस्वभावशून्यत्वान्निःस्वभावत्वात् कुतोऽभीष्टवस्तुस्थिति: ? । अथ कथंचिदू, अश्रोक्तो दोषः ॥
स्यादेतद्, परिकल्पितो धर्मधर्मिभावः, न पुनर्वास्तवः इति; एवमपि धर्मधर्मिणोः परिकल्पितत्वाच्छ्रन्यताप्रसङ्गः तदेवमापे कुतः क्षणस्थितिधर्मकत्वम् ? इति ।
तेदितव्यावृत्तिद्वारायाता धर्मा एव परिकल्पिताः, न धर्मी, इति चेत् ? एवमपि स्थित्यस्थित्यादिलक्षणपरिकल्पितधर्मव्यतिरिक्तस्य धर्मिणः के स्वरूपम् १ इति वाच्यम् ।
क्षणस्थितिधर्मकत्वम् ? इति चेत्, न तस्यैवायोगादू : इत्यादि तदेवावर्त्तते इत्यलं प्रसङ्गेन ॥
१. क्षणिकवादिमते । २. धर्मि । ३. वस्तुनः स्थितिर्वा स्याद् ? अस्थितिर्वा ? । ४. अभिन्नत्वात् । ५. वस्तु । ६० वस्तु । ७. स्थिति । ८. भेदः । ९ अत एव । १०. क्षणस्थितिधर्नकः । असत्त्वात् ।११. नश्वराद व्यावृत्तोऽनश्वरः, तस्माच्च व्यावृत्तो नश्वरः, इत्यादि, व्यावृत्तिद्वारायातत्वान्नश्वरादयो धर्मा एवापारमार्थिकाः, एकस्वरूपं वस्तु पुनः परमार्थसदेव !
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71