Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
२५
सर्वथा, ततो द्वितीयादिक्षणेष्वपि स्थितिप्रसङ्गः प्रथमक्षणस्थितेः द्वितीयादिक्षणास्थितिविभिन्नत्वान्यथानुपपतेः ; तथा . हि, अनन्तराकान्तविग्रहाणां भावानामस्थित्यैकान्तभिन्नया वर्त्तमानसमयभाविनां स्थितिर्न विरुध्यते इति एवं द्वितीयादिक्षणास्थितेरपि तदत्यन्तभेदे तद्भावाविरोधः, इति भावना ॥ अथ कथञ्चिदन्यत्वम् इति १ अतोऽनेकान्तवादापस्याs भीष्टसिद्धिरेवास्माकमिति ॥
"
अथानन्यत्वम्, तदपि सर्वथा ? कथञ्चिद्वा १ इति कथनीयम् । यदि सर्वथा, प्रथमक्षणस्थितिरेव द्वितीयादिक्षणास्थितिः । सा च भावरूपा, ततश्च द्वितीयादिक्षणेष्वांपे स्थितिरेव स्यात् । द्वितीयादिक्षणास्थितेर्वा निरुपाख्यत्वात्त रया एव प्रथमक्षणस्थितित्वात् प्रथमक्षणेऽप्यभावप्रसङ्गः । अथकथञ्चिदन्यत्वम् इति ? पूर्वोक्तो दोषः । अथ द्वितीयादिक्षणास्थितेनावरूपत्वान्न प्रथमक्षर्णेस्थित्या अन्यानन्यत्वकल्पना
युक्तिमती ।
स्यादेतत्-यदि अमावाद्भेदाभेदौ विहाय घर्त्तेत । अथ तदुत्तरकालभावार्थान्तर स्थितिरवे विवक्षि तस्य द्वितीयादिक्षणास्थितिरिति । हन्त ! तर्हि खुतरामन्यानन्यत्वकल्पनायाः प्रसरः, तथा च सति पूर्वोक्तदोषानतिष्टतिरेव । अथ द्वितीयादिक्षणास्थितिः परिकल्पितत्वान्न परिकल्पनीया इति । एवं तर्हि तस्यापरिकल्पितत्वादसत्ताद्वितीयादिक्षणेष्वपि स्थितिः स्यात् । अथ प्रथमक्षणस्थितिव्यतिरि
१ यथा हि--क्षणिकस्य घटादेः स्वकाले पटादिक्षणेन सह वस्त्वन्तरत्वान्न विरोधः । एवं द्वितीयक्षणभाविन्या स्थित्यापि सह प्रथमक्षणस्थिर्न विरोधः, अन्यत्वाविशेषात् । ततश्च स्खलनाभावाद् द्वितीयेऽपि क्षणे प्रथमक्षणभाक् सत्त्वं स्थितिमदनुषज्यते । २. क्षणास्थितौ ३. अनेकान्त-वादापत्तिलक्षणः । ४. भावरूपया । ५. अन्यत्वानन्यत्वप्रकारौ मुक्त्वा प्रकारान्तरेण यदि वर्तेत २ प्रथमक्षणात् । ७. यद्यन्यत्वम्, तदोत्तरकापदार्थान्तरस्थितिक्षणेऽपि पूर्वकालभाविपदार्थक्षणस्थिति प्रसङ्गः; अथान:न्यत्वम्, तदेकतरा काचित् । ८. अन्यान्यत्वकल्पनारूपेण |
For Private And Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71