Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४
अनेकान्तवादप्रवेशः
"
"
कार्याजननप्रसङ्गः, तत्स्वभावानिवृत्तेः पूर्ववत्; तथाहिय एव तस्य कार्याजननावस्थायां स्वभाव: जननावस्थायामपि स ऐत्र, इति कथं जनयति ? सर्वदा वा जननप्रसङ्ग इत्येवं तावदेकान्तनित्यपक्षे विज्ञानादिकार्यायोगात् तदव-गमाभावः इति ॥
,
अथ, अपि प्रकृत्यैकक्षणस्थितिधर्मकं एकान्तानित्यमभ्युपगम्यते ? एवमपि विज्ञानादिकार्यायोगात् तदवगमाभाव एव । न च सर्वथैकक्षणस्थितिधर्मिणो विज्ञानादिजनक मुपपद्यते, तस्यैवायोगात् ; तथाहि - क्षणस्थितिधर्मकं - क्षणस्थितिस्वभावमुच्यते इति; अतोऽर्थादेवास्य द्वितीयादिवस्थितिः, इत्यकामेनापि प्रतिपत्तव्यम्, न्यायानुगतत्वात्; तयोश्च स्थित्वस्थित्योः परस्परतोऽन्यत्वम् ? अनन्यत्वं वा ? इति वाच्यम् ॥
ang
किं चात: ?
यद्यन्यत्वं किं सर्वथा ? आहोश्चित् कथञ्चित् ? यदि
१. अकिञ्चित्करसहकार्यपेक्षालक्षणस्वभावानिवृत्तेः । २० दृष्टान्तः । ३. सर्वदा स्वस्वभावानिवृत्तेः । ४. कार्यम् - ( शेषः) । ५० पूर्वमपि । ६० स्वभावाभेदात् । ७० तेन सहकारिणा सह जननस्वभावत्वात् । सहकारिभावे जनयति, सहकार्यभावाच्च न पूर्वमपि जनयति, शर्त चेत् ? न, सहकारिणा सह कार्यजननस्वभावत्वस्यापि नित्यत्वे सति सदाकार्यजननप्रसङ्गात्; अन्यथा तस्य नित्यतानुपपत्तेः । तथाहि यदि सदा तेन सहकारिणा कार्यजननस्वभावं वस्तु, तर्हि सदा किं न जनयति कार्यम ? अजनयद्वा, कथं सदा तत्स्वभावं ? ततश्च यदा कार्य भवति, तदैव तज्जननस्वभावं न तु सदा, इत्यवश्य मङ्गीकर्तव्यम् ; अन्यथा, सहकारिणोऽपि सदाभावापत्तिः, सदा तेन सहकारिणा सह तज्जननस्वभावत्वाद्वस्तुन: । एवं स्वभावभेदे सति कथं वस्तुन एकान्तनित्यता ? इति चिन्त्यम् । ८. एकान्तानित्यता । ९० वस्तुन एष । २०० तदभावभाविनो विशानस्य तत्कार्यत्वासिद्धेः, अर्थस्यात्यन्तपरोक्षत्वात् ।
,
For Private And Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71