Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः ___ अथानन्यत्वं, तयोरेकत्वप्रसङ्गः, एकस्माद्धर्मिणोऽनन्य. स्वात् , तत्स्वात्मवत् ; एवं च सति सदसत्त्वयोरभिन्नत्वात् तद्यथा स्वरूपेण सत्, एवं पररूपेणापि स्याद् ; इत्याद्युक्तम् । असम्भविनौ च निराधारौ धौ सदसद्रपौ ॥ तथान्यानन्यत्वम्, अतोऽनेकान्तवादाभ्युपगमादेकान्तवादिनः स्वमतविरोधः; इत्यलं प्रसङ्गेन ॥ इति सदसदुभयरूपैकवस्तुवादः ॥ ___ यञ्चोक्तम् -" एतेन नित्यानित्यमपि प्रत्युक्तमवगन्तव्यं विरोधादेव" इत्यादि, एतदपि न सम्यक्, प्रमाणतस्तथावगमात्; तथाहि-अध्यक्षेण नित्यानित्यमेव तदवगम्यते, अन्यथा तदवगमाभावप्रसङ्गात् ; तथा च, यदि तत्राप्रच्यु तानुत्पन्नस्थिरैकस्वभावं सर्वथा नित्यमभ्युपगम्यते; एवं तर्हि तद्विशानजननस्वभावं वा स्याद् ? अजननस्वभावं वा! यद्याधः पक्षा, एवं सति सर्वत्र सर्वदा सर्वेषां तविज्ञानप्रसनः, तस्यै खभावत्वात ; न चैतदेवं । क्वचित्कदाचित्कस्यचिदेव तद्विशानभावात् । न च 'सर्वथैकस्वभावस्य देशाविकतो विशेषः' इति कल्पना युज्यते, तद्भावेऽनित्यत्वप्रसनात् “सहकारिणमपेश्य जनयति' इति चेत् ? न, एकान्तनित्यस्यापेक्षायोगात्; तथाहि-सहकारिणा तस्य विशेषः क्रियते ? न वा ? इति वक्तव्यम, यदि क्रियते; किमर्थान्तरभूतः ? अनर्थान्तरभूतो वा ? इति, यद्यर्थान्तरभूतः, तस्य किमाया तम् ? 'स तस्य विशेष कारक:' इति चेत् ! न, अनवखाप्र. सगात्; तथाहि-सै विशेषस्ततो भिन्नः ? अभिन्नो वा ? १. नित्यानित्य प्रकारेण । २. एवमनभ्युपगमे । ३. भावयति । ४. वस्तु । ५. क्षेत्रे । ६. प्रमातृणाम् । ७. अधिकृतवस्तु । ८. वस्तुनः । ९. क्षेत्रकालादिभिर्विशेषाधानात् । १०. तस्मिन् वस्तुनि । ११. प्रकृतमेव समर्थयति । १२. वस्तुनः । १३ न हि प्राक्स्वभावनिवृत्तिं विना वस्तुनो विशेषः । १४ आलोकादिकम् १५. वस्तुविज्ञानम् । १६. एकरूपतया । १७. वस्तुनः । १८. तत्तदवस्थमेव । १९. विशेषोऽर्थान्तरभतः । २०. वस्तुनः । २१. मूलविशेषकृतः । २२. वस्तुनः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71