Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः अथाशङ्का,-स्वकार्यकर्तृत्वव्यतिरिक्त कार्यान्तराकर्तृत्वं परिकल्पितम् ,स्वकार्यकर्तृत्वमेव पुनः कार्यान्तराकर्तृत्वस्वभाषमभ्युपगम्यत एव, इति । एतदप्ययुक्तम् , दत्तोत्तरत्वात् ; तथाहि-येनैव स्वभावेन करोति तेनैव न करोति,इत्येतदापनम् ,इत्यादि तदेवावर्त्तते। अनेनैव “सर्वात्मना च करणे तद्भावरूपमेव स्याद्" इत्यादि प्रतिक्षिप्तम् , अभावस्य वस्तुधर्मस्वात् कथञ्चिदव्यतिरेकात् । कार्यान्तराकारणत्वाद् ; इति । तस्माद् व्यवस्थितमेतत्सद सद्रपवस्तु; तथा चोक्तम् " यस्मात् प्रत्यक्षसंवेद्यं, कार्यतोऽप्यवगम्यते । तस्मादवश्यमेष्टव्यं, वस्त्वेक सदसदात्मकम् ॥१शा" इति ॥ अनान्यस्त्वाह ननु च 'वस्तुनः स्वरूपेण सत्वम् , पररूपेण चासत्त्वम् इति, एतदिध्यत एव' इति सिद्धसाध्यता ।। ___एतदप्ययुक्तम् ; स्वमतविरोधात् ; तथाहि-एवमिच्छता र 'वस्तुन एव सत्त्वमसत्त्वं च धर्मों' इत्येष्टव्यं, घक्तव्यंच,धर्मधर्मिणोरन्यत्वमनन्यत्वमन्यानन्यत्वंच, इति । किं चातः ? यद्यन्यत्वम् ,अवस्तुत्वाविप्रसङ्गाकथम्?इह'वस्तुधर्मव्यतिरिक्तं स्वरूपेण सत्पररूपेण चासद्' इत्यभ्युपगमात् । धर्माणां च परत्वात्तद्रूपेणासस्वादवस्तुत्वप्रसङ्गः । एवं धर्माणामपि वस्तु. व्यतिरिक्तत्वात्स्वरूपेण सत्वं पररूपेण चासत्त्वम् , इति धर्मा । १. स्वकार्यकर्तृत्वव्यातरिक्तत्वरूपेण कार्यान्तराकतृत्वं पारकाल्पतमुच्यते, स्वकार्यकर्तृत्वाव्यतिरिक्त त्वस्त्येव इत्यर्थः, इत्युक्तदोषाभावः; इाते पराशयः । २. उक्तन्यायेन। ३. पूर्वपक्षप्रस्ताव परेणोक्तं ...तदभावस्य । ४. वैशेषिकादिः । ५. उभयात्मकम् , इति भावः । ६. आदिपदाद धर्मधार्मप्राप्तिपारग्रहः । धर्मा अपि धर्मिणः प्राप्नुवन्ति,इति दोषः । ७. सदादिना धर्मरूपेण । ८. प्रस्तुतानाम । ९ . हेतोः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71