Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.८ अनेकान्तवादप्रवेशः रेण ततैः कार्यविशेषासिद्धेः न चैककालभोविनाऽन्यतो भवतोऽन्यत एव भवतातिशयाधानं युज्यते, तन्निबन्धनस्य तत्कृतविशेषासिद्धेः, तदभ्युयगमे च तत्राप्ययमेव वृत्तान्तः इति । यत्कि चिदेतद् एवं निबन्धनपरम्परायामपि वाच्यम् इति । नापि निरुद्धस्य, तस्यैवाविद्यमानत्वाद्, असतश्चोपकारकरणायोगाद्अभ्युपगमे चातिप्रसङ्गाद् | अतः साधुत्वं 'हेत्वयोगात्' इति । क्षणिकान्तपक्षे च फलभावानुपपत्तेः, इति; एतच्च वक्ष्यामः ॥ I यश्वोक्तम् - " भेदाभेदमभ्युपगच्छतावश्यं चेदमङ्गीकर्त्तव्यम्-इह धर्मधर्मिणोधर्मधर्मितया भेदः, स्वभावतः पुनरभेदः " इत्यादि । एतदपि 'धर्माणां मिथो भेदात् प्रतिनियतधयश्रितत्वाच्च कथञ्चिद्भेद:' इत्यादिना प्रत्युक्तम्, प्रकारान्तरेण भेदाभेदासिद्धेः ॥ यदयुक्तम्, " संविनिविष्टाश्च विषयव्यवस्थितयः; न च सदसद्रूपं वस्तु संवेद्यते उभयरूपस्य संवेदनस्याभावाद" इत्यादि । एतदपि 'अनुवृत्तव्यावृत्तस्वभावं च वस्त्वध्य'क्षतोऽवसीयते' इत्यादिना परिहृतम् उभयरूपस्य संवेदनस्याबाधितत्वात् ॥ - यच्चोक्तम् - " न च कार्यद्वारेणापि सदसद्वपं वस्तु प्रतिपत्तुं शक्यते, यतो नोभयरूपं कार्यमुपलभ्यते " इत्यादि । एतदप्यनवकाशम्, वस्तुस्थित्योभयरूपस्योपलम्भस्य साधितत्वात् । " न च तत्कार्यकरणे प्रवर्तमानं केनचिदाकारेण करोति १. अतीतविकल्पज संस्कारात् । २. अतीतविकल्पजसंस्कारेण सह भवता । ३. स्वहेतोः । ४. अतीतविकल्प संस्कारस्य । ५. वर्त्तमानानुभव जसंस्कारेण । ६. तस्यातीतविकल्पजसंस्कारस्य यन्निबन्धनमुपा दानं, तस्य वत्तमानानुभवज संस्कार कृतविशिपासिद्धः । ७ तदभ्युपगमे च सामान्येन तन्निबन्धनस्य तत्कृतविशेषाभ्युपगमे च तत्रापि तन्निबन्धने, अयमेव--अनन्तरादितः "न, उपादानकारणविशेषाधानमन्तरेण ततः कार्याविशेषासिद्धेः " इत्यादि वृत्तान्तः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71