Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः रस्यापि स्वलक्षणेतररूपानतिक्रमात् ; स्वलक्षणरूपत्वे से एव दोषः । सामान्यलक्षणरूपत्वे तु ततस्तदुदय एव कथम् ? इति वाच्यम् । ___ स्यादेतद्,-नहि कल्पनाऽस्वलक्षणमेव, तस्या अपि स्वसंवित्तौ स्वलक्षणत्वात् ; उक्तं च-" कल्पनाऽपि स्वसंविताविष्टा, नार्थ, विकल्पनात् ” इति । . एतदग्णयक्तम् , अर्थविकल्पाकारव्यतिरेकेण तत्स्वसंधित्यसिद्धेः, सिद्धौ वा, कल्पनायोगात् । अतीतकालानुभूतसंस्कारस्तथापरिपच्यमान:स्वलक्षणानुभवजनितसंस्कारोपपादितधिशेयो हेतुः, इति चेत् ? न, तस्य स्वलक्षणानभवजनित. संस्काराद्विशेषः, आसिद्धेः !
असिद्धिश्च तत्त्वतस्ततोऽनुपकारात् ; तथाहि-स तस्य विकल्पाहितसंस्कारविशेषस्यानुत्पन्नस्योत्पन्नस्य निरुद्धस्य वोपकुर्याद ? इति भेदाः । न तावदनुत्पन्नस्य, तस्वैवासत्त्वाद , असतश्ोपकाराकरणात्; नाप्युत्पन्नस्य, तस्यानाधेयातिशयत्वाद् , अतिशयाधानमन्तरेण चोपकाराभावादू , अतिशयाधाने च तदन्यत्वप्रलगाताद्धाभ्यामप्येकीभूय तदन्यकरणमेवातिशयाधान,स एपोपकारः इति चेत्?न,उपादानकारणविशेषाधानमन्त
१. स्वलक्षणसंस्कारस्य क्षयाक्षयित्वन *तद्भावकाले च तदसत्त्वादित्ययम् । २ सामान्यरूपसंस्कारक्षाणकत्वप्रतिभासऽप्यवस्तत्वात्कृतोऽ. स्माद्विकल्पज्ञानस्योदयः ? । ३. सामान्यस्यार्थक्रियाकारित्वायोगात् । ४. कल्पना । ५. विकल्पोपादानकारणभूतस्या तीतकालविकल्पजनितसंस्कारस्य । ६. स्वलक्षणानुभवजनितसंस्कारः । । ७. विकल्पेन घटोऽयमित्येवरूपणातीतकाले विशेषो यः संस्कारविशेषः, तस्य । ८. विनष्टस्य । ९. तस्योत्पन्नस्य हि अतिशयाधाने सोऽतिशयो भिन्न एव स्याद् , यद्वातिशयाधानकाले स उत्पन्नोऽन्य एव स्यात् , क्षणार्ध्वमनवस्थितेः । १०. अतीतविकल्पजसंस्कारवर्त्तमानानुभवजसंस्काराभ्याम् । ११. अतीतविकल्पजसंस्कारविशेषाधानं विना ।
विकल्पज्ञान० ।
For Private And Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71