Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
यदप्युक्तम्,-" सदसदूपं वस्त्वभ्युपगच्छता सत्त्वमसत्त्वं च वस्तुधर्मतयाभ्युपगतं भवति"; एतदिष्यते एव ॥
यत्पुनरिदमुक्तम्-" ततश्चात्रापि वक्तव्यम् ; धर्मधर्मिणो: किं तावद्भद:,-" इत्यादि । अत्रापि सर्वथा भेदपक्षोदितोऽभेदपक्षोदितश्च दोषोऽनभ्युपगमतिरस्कृतत्वादेव न न: क्षितिमावहति । भेदाभेदपक्षस्त्वभ्युपगम्यत एव ।।
आह-नन्वत्रापि "येनाकारेणभेदस्तेन भेद एव,"-इत्यादि दूषणमुक्तम् ।
उक्तमिदम् , अयुक्तं तूक्तम् , अधिकृतविकल्पस्यार्थापरिज्ञानात्, अन्योन्यव्याप्तिभावेन भेदाभेदपक्षस्य जात्यन्तरात्मकत्वात् केवलभेदाभेदानुपपत्तेः। न हि 'अन्योन्याननुविद्धांवेतो' इति जैनमतम् , अभेदाननुविद्धस्य केवलभेदस्यासिद्धः, मेदाननुविद्धस्य चाभेदस्यासिद्धेः । अत:-'यनाकारेण भेदस्तेन भेद एव' इत्यर्थशून्यमेव ॥
अथ " धर्मधर्मिणोर्भेदाभेदः" इति कोऽर्थ: ? कथञ्चिद्भेदः कथञ्चिदभेदः, इति । तत्र धर्माणां मिथो भेदात् प्रतिनियतधाश्रितत्वाच कथञ्चिद्भेदः । तथाहि-न धर्माणां धर्मिणा सर्वथैकत्वे धर्मतयापि भेदो युज्यते, इति प्रतीतमेतद् । तथा धर्माणामेवाभ्यन्तरीकृतधर्मिस्वरूपत्वाद्धर्मिणोऽपि चाभ्यन्तरीकृतधर्मस्वरूपत्वाञ्च कथञ्चिदभेदः, इति । न चात्यन्तभेदे धर्मधर्मिकल्पना युज्यते, अतिप्रसङ्गात् ॥ __ स्यादेतद्,-उत्प्रेक्षितेयं धर्मधर्मिकल्पना, न तत्त्वतः, इति ।
१. न ह्यभ्युपगमा एव बाधायै स्युः । २. प्रकारेण । ३. भेदाभेदरूपस्य । ४. “ न नरो नर एवेति, न सिंहः सिंह एव वा ।
शब्दविज्ञानकार्याणां भेदाज्जात्यन्तरं हि तत् ॥ १ ॥ न नरः सिंहरूपत्वान सिंहो नररूपतः ।
सामानाधिकरण्येन नरसिंहः प्रतीतितः ॥ २ ॥" ५ पटादेरपि घटधर्मत्वापत्तेः ।
For Private And Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71