Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनकान्तवादप्रवेशः अहो ! दुरन्तः स्वदर्शनानुरागः, प्रत्युक्तमपि ना. पधारयति; यत:-न च तद् येनैव स्वभाधन पार्थिवद्रव्य त्वेन सद्वर्तते तेनैवाबादिद्रव्यत्वेनासद, इत्यादि तदेवावर्तते, इति,अलं खदर्शनानुरागाकृष्टचेतसा सह प्रसकोन, इति ॥
अपरस्त्वाह--'सदसपं वस्तु' इत्यत्रासत्पक्षे प्रसज्यप्रतिषेधो वा स्यात् ? पर्युदासो वा ? |
किश्चातः ?।
उभयथापि दोषः, तथा हि-यदि 'सन्न भवति' इत्यसत् ? सनिवृत्तिमात्रं निरुपाख्यमसत् ? ; ततश्च तस्य प्रमाणगोचरातीतत्वावस्तुधर्मत्वानुपपत्तिः ।
__अभ्युपगमे वा वस्तुन एव निरुपाख्यत्वप्रसङ्गः, तथाहि-न निरुपाख्यस्वभावं सोपाख्यस्वभावं भवितुमर्हति ।
__ अर्थ सतोऽन्यदसद्, सदन्तरमेवासद्, इति ? एवमपि तस्य सदात्मकत्वादेव सदसदरूपत्वानुपपत्तिः; तथाहि-न 'सत् सदन्तरात्मकम्' इति सचेतसो वक्तुं युज्यते, इति ।
एतदप्ययुक्तम्, भगवदईन्मतापरिज्ञानात, पक्षद्वयेऽपि दोषाभावात् ॥
कथमभावः ? इति ॥
उच्यते यद्यपि सन्निवृत्तिमा निरुपाख्यमसत्, तथापि स्वरूपेण सत्त्वात् , तद्रूपेण चासत्त्वात् , सदसदूपतैव; इति ।
१. नैयायिकादिः । २. कोऽर्थः ! तुच्छधर्मकम् । ३. प्रसज्यप्रतिषेधरूपम् । ४. एतदेव व्याख्याति । ५. पर्युदासपक्षे । ६. असतः। ७. पररूपेण ।
८. यस्माद्वस्त्वेवात्मघटादिसदसद्रूपतयोभयात्मकं वर्तते । न सत्त्वा. ननुविद्धमसत्त्वं नाम, तत्र वस्तुनि यदपेक्षयैतदुभयरूपं वस्त्विति, अतो यद्यपि 'सन्न भवतीति असत्' प्रसज्यप्रतिषेधरूपं, तथापि परद्रव्यादिरूपेण सतः प्रतिषेधात् : तस्य च परद्रव्यादिरूपेण सतस्तत्र विवक्षितसत्त्वेऽ. सत्त्वात् , तत्स्वरूपस्य तत्प्रतिषेधाय; असत्त्वस्य च सत्त्वानुवेधाद-विवक्षितसत्त्वानुवेधात् कारणान्न निरुपाख्यमेव तदसत्त्वम्, इति प्रसज्यप्र. तिषेधपक्षाक्तदोषाभावः, पर्युदासप्रतिषधपक्षदोषस्त्वनभ्युपगमान्न नः क्षितिमावइति ।
* पटादेः ।
For Private And Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71