Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ अनेकान्तवादप्रवेशः ततश्चैवं न सर्वथा सत्त्वमसत्त्वपारेहारेण व्यवस्थितम्, न चासत्वं सत्वपरिहारेण ॥ न चानयोरविशेष एव भिन्ननिमित्तत्वात् ; तथा हि" स्वद्रव्यादिरूपेण सत्, परद्रव्यादिरूपेण चासद् ; " इत्युकम् । ततश्च तद् यत एव सत् अत एवासद्, परद्रव्यादिरूपत्वे सति स्वद्रव्यादिरूपेण सत्वाद्; तथा यत एवासत् अत एव सद्, स्वद्रव्यादिरूपसत्त्वे सति परद्रव्यादिरूपेणासत्त्वात् । अत एव चैकत्र सदसत्वयोर्विरोधो न संभवति, भिन्ननिमित्तत्त्वाद् धर्मिभावात् । एतच्चोत्तरत्र प्रपञ्चयिष्यामः । अनुभवसिद्धत्वाश्च; तथाहि स्वपररूपाव्यावृत्तव्यावृत्तरूपमेव तद्वस्तु अनुभूयते ॥ पदाशङ्का, - 'स्वरूपाव्यावृत्तिरेव पररूपव्यावृत्तिः' इति । एषाप्ययुक्ता, विहितोत्तरत्वात् ॥ यस्मादेवं तस्मात् समुत्सारित पक्षपातयविद्भिर्युक्तियुक्तत्वात् सदसद्रूपं वस्त्वङ्गीकर्तव्यम् । आह च यस्मात्सत्त्वमसच्चं च न विरुद्धं मिथो द्वयम् । वस्त्वेकं सदसद्रूपं ननु तत् किं न युज्यते ? ॥ १ ॥ ४. १. तदनात्मकत्वेन । २. भावात्मकत्वेन । ३. भावात्मकत्वेन स्वद्रव्यादयः सत्त्वकल्पनानिमित्तम्, परद्रव्यावयासत्वकल्पनाया: । ५. अनुभवे च तद्बोधाद्यनेकरूपतायामिव को विरोध: ? । ६. वस्तुतः स्वरूपाव्यावृत्तिः पररूपव्या वृत्तिश्च द्वेऽप्यनुभूयेते, इत्युभयात्मकं वस्तु, इति आचार्येण स्थापिते पर आशङ्कते - स्यादाशङ्केति । ७. एकरूपा । ८०. न स्वरूपसत्वमेव पररूपात्त्वम्' इत्यादिना भिन्ननिमित्तत्वेनानथोरेकत्वाभावात्; तत्त्वतोऽन्यरूपाभावमन्तरेणान्यथावृत्त्या (त्य) सिद्धेः । ९. शबलरूपतया । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71