Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः न्तरप्राप्तिः, तंत्राप्ययमेव न्यायः; इत्यनिष्ठा ॥
स्यादेएतद्, न धर्माणां धर्मान्तरमिष्यते, अपि तुत पव स्वरूपेण सन्ति, पररूपेण न सन्ति' हाते; न तद्विलक्षणे सदसत्वे इति ।
एतदप्यसमीचीनम् , वस्तुन्यपि समानत्वात् , धर्मामावप्रसङ्गेनाभ्युपगमविरोधात्, तद्भावेऽपि तस्य' इति सम्बन्धानुपपत्तेः, समवायकल्पनायाः स्वधर्मेम्वपि तुल्यत्वात् ॥
१. धर्मान्तरयोरपि । २. धर्माणाम... । ३. पूर्वोक एव । ४. निष्ठा परिसमाप्तः, न निष्ठा, अनिष्ठा, अपरिसमाप्तिर्व्यवस्थेत्यर्थः । ५. वैशेषिकः । ६. धर्माः । ७. धर्मि । ८. अतो न धर्माणां धर्मान्तरप्रा. प्तिः, इति भावः; तथा हि-तदेव स्वरूपेण सत्, पररूपेण चासत्, इ. त्यपि वक्तुं शक्यत एव, अङ्गीकारेण चास्य पक्षस्य धर्माभावः । व्यतिरिक्तधर्माभावेऽपि तस्य वस्तुन एते 'धर्माः' इति सम्बन्धासिद्धः । वस्त्वन्तरेण विशेषादित्यर्थः । ९. योऽपि व्यतिरिक्तैरपि धर्मः सह धर्मिणः सम्बन्धोपपत्तये स्वसंवेधकस्वभावः समवायिसम्बन्धकस्वभावचेह प्रत्ययहेतुः समवायः पदार्थः कल्प्यते परैः, तस्यापि स्वसम्बन्धकस्वभावत्वादिभिः स्वधर्मः सह व्यतिरिक्तविकल्पे दोषाशनिरनिवारितअसरः । तथाहि, यदि ते ततो व्यतिरिकाः, 'तस्य' इति कः सम्बन्धः? । अथाव्यतिरिकाः, तर्हि एकत्वम्, अधिकृतस्वभावानां एकस्मात्समवायादव्यतिरिक्तत्वात् , तत्स्वरूपवत् ; अनकत्वं वा समवायस्याधिकृतस्वभावा व्यतिरिक्तत्वात् ,तत्स्वरूपवदव, इति।समवायोऽपि स्वसम्बन्धस्वभावत्वसत्त्वादिषु धर्मेष्वनुपपद्यमानसम्बन्धः,कथमन्येषां धर्मिणां धर्मः सह सम्वन्धमुपपादयितुमलम्?इत्यर्थः, तस्येति सम्बन्धानुपपत्त्या । १०. तथा च धर्मधर्मिव्यवस्थायोगः, अन्योऽन्यात्मकत्वेनेतरनिराकरणात् । तथाहि,-यदि धर्मिणोऽव्यतिरिका धर्माः, ततो धर्मिमात्र ते, तदव्यातरिक्तत्वात् , तत्स्वरूपवत्, इति । न सन्त्येव 'धर्माः' इति इतरनिराकरणम्, एवं धर्मिणोऽपि वाच्यम्, धर्माव्यतिरेकादिति । अनिराकरणेऽपीतरस्य सदसत्त्वयोरेकत्वेनैक धर्म्यव्यतिरेकद्वारायातेन तद्वस्तु यथास्वरूपेण सद् , एवं पररूपेण स्यात् : धर्माव्यतिरेकाद् धर्मिण एवासत्त्वं भविष्यात, इत्याह-असम्भवीति ।
For Private And Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71