Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
केनचिन्न करोति, एकस्य करणाकरणविरोधात; त्याद्यप्यसारम् , विरोधासिद्धेः; तथाहि-पर्यायात्मना त्तति, द्रव्यात्मना न करोति, कुत एकस्य करणाकरण:विरोधः ति। अथवा स्वकार्यकर्तृत्वेन करोति, कार्यान्तराकर्तृत्वेन न करोति; अतः केनचिदाकारण करोति, केनचिन्न करीतीति कोऽत्र विरोध: ? । न च स्वकार्यकर्तृत्वमेव कार्यन्तिराकर्तृत्वम् ; यदि स्यात्, यथा स्वकार्य करोति, एवं कार्यान्तरमपि कु. र्यात्, कर्तृत्वानन्यत्वादकर्तृत्वस्य; विपर्ययो वा, ततश्चाकारणत्वम्, इति ॥
स्यादेतत्,-किं हि नाम कार्यान्तराकर्तृत्वमन्यत् ? यदाऽऽनित्यानन्यत्वयुक्त्यनुसारेणाकारणत्वं प्रतिपाद्यते; किन्तु स्वकार्यकर्तृत्वमेवैकस्वभावं कार्यान्तराकर्तृत्वम्, इति ।
हन्त, तर्हि 'येनैवाकारेण करोति, तेनैव न करोति' इत्येतदापनम् । एवं चाभिन्नानमित्तत्वे सत्येकत्र कर्तृत्वाक. तत्वयोनिरोधः, इति; तथाहि-तेनैव स्वभावेन करोति, न करोति च इति ? व्याहतमेतद्, एकस्वभावस्यैकत्रोपयोगात् ।
कार्यान्तराकर्तृत्त्वं तत्रै परिकल्पितम् इति चेत् ? तदप्यमनोहरम् , कार्यान्तराकर्तृत्वस्य तत्र परिकल्पितत्वाद्-वस्तुतोऽ. सत्वात्, तद्भावापत्त्या कार्यान्तरकर्तृत्वप्रसङ्गात् ॥
१. नैमित्तिकेन रूपेण तथा परिणतेः । २. मृदादिरूपेण तथाऽपरिणतेः । ३. कार्यमधिकृत्योक्त्वा कारणमधिकृत्याह-। ४. एतदकमेव । ५. 'तर्हि' इति शेषः । ६ यथा वा कार्यान्तरं न करोति, एवं स्वकार्यमपि न कुर्यात् । ७. अकर्तृत्वानन्याकर्तृत्वस्य । अवचूरित्यु(त्य) क्तम् (2)। ततश्चवमनेनप्रकारेण 'अकारण त्वम् ।इति कुर्वतः कारणत्वायोगात्। ८. अधिकृतकारणस्य । ९. नैव किञ्चिदन्यत् । १०. एवं च तंदकमेव इत्यर्थः ११. स्वभावेन । १२. अन्यथा सर्वथैकत्वायोगः । १३. कारणे । १४. कारणे । १५. कार्यान्तराकर्तृत्वस्याविद्यमानत्वात् । १६. कार्यान्तरकर्तृभावापत्त्य।। १७. न हि तद्भावमन्तरेण तदभावः, इति भावना।
For Private And Personal Use Only

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71