Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
११
;
येथा तत्पार्थिवद्रव्यत्वेन सत् एवमवादिद्रव्यत्वेनापि सदेव स्यात्, तत्सत्त्वांव्यतिरिक्तत्वादितरीसत्त्वस्य; यथा वा अबादिद्रव्यत्वेनासत तथा पार्थिवत्वेनापि असदेव स्यात्, तदसत्त्वाव्यतिरिक्तत्वात्तत्सत्त्वस्य । एवं यदि' इहक्षेत्रसत्त्वमेव पाटलिपुत्राद्य सत्यम् ' ततश्च तद्यथेह सत् तथा पाटलिपुत्रादावपि स्यात् इहसवाव्यतिरिक्तत्वात् तत्रासत्वस्य; यथा वा पाटलिपुत्रादावसत् तथेहापि स्यात्, तदसत्त्वाव्यतिरिक्तत्वादिहसत्वस्य । एवं यदि 'घटकाल सत्वमेव मृत्पिण्डकपालकालासत्त्वम्' ततश्च तद्यथा घटकाले सत् एवं मृत्पिण्डकपालकालेपि स्यात्, तत्सत्त्वाव्यतिरिक्तत्वात्तदसत्त्वस्य; यथा वा मृत्पिण्डकपाल कालेऽसत् तथा घटकालेऽपि स्यात्, तदसत्वाव्यतिक्तत्वात्तत्सत्त्वस्य । एवं यदि 'श्यामत्वसत्त्वमेव रक्तत्वाद्यसत्त्वम्' ततश्च तद्यथा श्यामत्वेन सत् एवं रक्तत्वादिनापि स्यात्, तत्सत्वाव्यतिरिक्तत्वादितरासत्त्वस्य; यथा वा रक्तत्वादिनाऽसत् एवं श्यामत्वेनापि स्यात्, तदसत्वाव्यतिरिक्तत्वात्तत्सत्वस्य । ततश्च तदितररूपापचयादिनाऽवस्तुत्वप्रसङ्गः, इति ॥
अथोच्येतँ, - नहि नः किञ्चिदबाद्यसत्वं निरुपाख्यं नामास्ति, यदपेक्षयाऽव्यतिरिक्त विकल्पोपन्यासेना व स्तुत्वापत्त्यात्मनो न्यायाभिशता ख्याप्यते; अपि तु पार्थिवद्रव्यसस्वमेव विशिष्टमेकस्वभावमबाद्य सत्त्वमुच्यते । ततश्च यथोक्तदोषाभावाद व्यर्थो विकल्पोपन्यासपरिश्रमः, एवं शेषेष्वपि भावनयिम्; इति ॥
१. यथा घटस्वत्त्वं तथा चेदमसत्त्वं व्यापकानुपलब्धिः । २. पार्थिवद्रव्य । ३. माहात्म्यमन्तरेणाव्यतिरेकाभावात् इति भावः । ४. अबादिद्रव्य । ५. अबाद्यसत्त्वस्य परमार्थतोऽभावात्, इत्यर्थः । ६. तस्य पार्थिवद्रव्यादिसत्त्वस्य अवादिद्रव्यत्वरूपापत्त्यादिना । ७. बौद्धेन । अस्माकं बौद्धानां । ९. सूक्ष्मोक्तिवत्त्वम् । १०. त्रैलोक्यव्यावृत्तम् ११. (सदै) सदेकस्वभावतया । १२. न तु तदन्यत् । १३. अवस्तुत्वप्रसङ्गरूपः ।
"
For Private And Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71