Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः खरविषाणवद् ; इत्येवं तदभावप्रसङ्गात् सदसद्रपं तदङ्गीकर्तव्यम् , इति ॥ तथा च द्रव्यतः-पार्थिवत्वेन सत्, नाबादित्वेन; तथा क्षेत्रतः-इहत्यत्वेन, न पाटलिपुत्रकादित्वेन; तथा कालतः-घटकालत्वेन, न मृत्पिण्डकपालकालत्वेन; तथा भावतः-श्यामत्वेन, न रक्तादित्वेन; इाते । अन्यथा, इतररूपापत्या तत्स्वरूपहानिप्रसङ्गः, इति । द्रव्याद्यात्मकत्वं च घटस्य तैर्विनाऽभावात्, तत्परिणामत्वाच्च, अतत्परिणामत्वे च, तदभावप्रसङ्गात् ; इति ॥ स्यादेतद्, स्वद्रयसत्त्वमेव परदव्यासत्त्वम् , स्वक्षेत्रसत्त्वमेव परक्षेत्रासत्त्वम् , एवं स्वकालसत्त्वमेव परकालासत्त्वम् , एवं स्वभावसत्त्वमेव च परंभावासत्वम् ; इति । तथा च-घटरस्तुनः पार्थिवद्रव्यसत्त्वमेवाबादिद्रव्यासत्त्वम् , तथेहक्षेत्रसत्त्वमेव पाटालपुत्रकाद्यसत्त्वम् , तथा घटकालसत्त्व मेव मृत्पिण्डकपालकालासत्त्वम्, तथा श्यामत्वसत्त्वमेव रक्ताद्यसत्वम्, तस्यैकस्वभावत्वाद् निरंशत्वाद्, इति ॥ - एतदप्यसारम् , तस्यैकस्वभावत्वेऽवस्तुत्वप्रसङ्गात्; तथा हि-'यदि पार्थिवद्रव्यसत्त्वमेवाबादिद्रव्यासत्त्वम्, ' एवं तर्हि १. खरविषाणं हि पटरूपणासाच्छमिति । २. घटवस्त्वभावः । ३. तथा तत्स्थितिस्वभावत्वलक्षणेन । ४. अबादि । ५. घटादिवस्तु । ६. न हि मृदादिद्रव्यमात्रमेवैकान्तकस्वभावं तदाधारत्वपरिणतक्षेत्रानाधेयस्वभावं तत्कालभाविनां विना कृष्णोर्खादिभावशून्यं घटः तथाविधक्षेत्राद्य नुवेधादिरहितमृदादिदव्यमात्ररूपेण प्रकारेणानुपलब्धेः *तत्तदन्यतममात्रत्वे च तदितरवैकल्येन तत्स्वरूपानुपपत्तेः+ घटबुद्धयभावप्रसङ्गः । ७. पार्थिवत्वाद्यभावात् । ८. बौद्धः प्राह-। ९. नहि स्वद्रव्यादिसत्त्वादर्थान्तरभूतं परद्रव्याद्यसत्त्वम् । १०. मन्येथाः । ११. सत्त्वस्यैवासत्त्वरूपत्वात् । १२. यद्यस्मादभिन्नं तत्तत्स्वरूपमेव, तच्छब्दवाच्यं च । * तस्य घटस्य, तेषां पार्थिव द्रव्यादिनाम्, अन्यत्वे पार्थिवद्रव्यमानत्वे सति इहत्यत्वाद्यभावेन नाधिकृताधिकृत (?) पार्थिवद्रव्यत्वस्वरूपानुपपत्तिः । + अनुपपतिश्च विविक्तानां पार्थिवद्रव्यत्वादीनामसंभवात् । TOYERYTITINENERAUSHALULIYANMRSANEE For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71