Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
कश्चिद्विशेषः इति । ततश्च दधि खादेति चोदितः उष्ट्रमपि
,
खादेत् ॥
अथास्त्यतिशयः कश्चिद्, येन भेदेन वर्तते ।
स एव दधि सोऽन्यत्र नास्तीत्यनुभयं परम् ॥ १ ॥
अधानयोः कश्चिदतिशयोऽस्ति, येनायं तथानोदितः क्षीरविकार एव प्रवर्तते, नान्यत्र । एवं तर्हि 'ल एव' अतिशयो ऽर्थक्रियार्थिप्रवृत्तिविषयः तत्फलविशेषोपादानभावलक्षितखभावं हि वस्तु 'दधि' इति । 'स' च तादृशैः स्वभावः, 'अन्यत्र नास्तीति' प्रवृश्यभावादर्थिनः । तस्मान्नोभयरूपम् ; इत्येकान्तवादः ||
इति तृतीयपूर्वपक्ष: ॥३॥
एवमभिलाप्यानभिलाप्यमपि विरोधबाधितत्वादेवानुद्घोष्यम् । तथाहि अभिलप्यते यत् तदाभलाप्यम्, एतद्विलक्षणं वानभिलाप्यम् इतेि । ततश्च यदि तदभिलाप्यम्, न तर्हि अनभिलाप्यम्; अनभिलाप्यं चेत्, न तर्ह्यभिलाप्यम्; इति, एकस्यानेकविरुद्धधर्माभावात् ॥
इति चतुर्थपूर्वपक्ष: ॥ ४ ॥
किं च; - विरोधिधर्माध्यासितस्वरूपत्वाद्वस्तुनोऽनेकान्तवादिनो मुक्त्यभावप्रसङ्गः ; तथाहि - एतदात्माङ्गनाभवनमणिकनकधनधान्यादिकमनात्मकर्मे, अनित्यम्, अशुचि,
१. तत्साध्या या अर्थक्रिया, तया अथ यः पुरुषः । २. दध्नैव साध्यवात् तत्फलावेशेषः, स चासौ फलविशेषथ, तस्योपादानभावो हेतुभावः, तेन लक्षितः स्वभावो यस्य वस्तुनः, तदेव दधि, इति कृत्वा । ३. अनन्तरोक्तदधिस्वभावः । ४. उष्ट्रे, कुतः ? दध्यर्थिन उष्ट्रे प्रवृत्त्यभावात् । ५. परे परिकल्पितान्वयाख्यात्मशून्यम् ।
For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71