Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः किं तर्हि उभयमपि उभयरूपम् ? । ततश्च विषार्थी विषे प्रवतेत मोदके च, एवं मोदकार्थ्यपि मोदके विषे च । लो. कश्च विषार्थी विष एव प्रवर्तते, न मोदके; मोदकार्थ्यपि मोदक एव, न विषे; इत्यस्य नियमस्योच्छेदः स्यात् । तथा च विषे भक्षिते मोदकोऽपि भक्षितः स्यात् , मोदके भक्षिते विषं भक्षितं स्यात् । तथा च सति प्रतीतिविरोधः स्यात् । एवं क्षीरमपि न क्षीरमेव, कांद्यनर्थान्तरभूतसामान्याव्यतिरेकात् ; कर्कोऽपि न कर्क एव, क्षीराद्यव्यतिरिक्तसामान्याव्यतिरेका. देव । ततश्च इहापि क्षीरार्थी न क्षीर एव प्रवर्तेत, अपि तु कर्केऽपि; एवं कार्थ्यपि न कर्क एव, किं तर्हि ? क्षीरेऽपि । न चेत्थमनियमेन प्रवृत्तिदृश्यते । स्यादेत,-'विषादिषु विशेषरूपताप्यस्त्येव, सा तदथिनो नियमेन प्रवृत्तीजम् , तद्भक्षणे च नान्यभक्षणं स्यात् ; इति ॥ ___ एतदयुक्तम्, विकल्पानुपपत्तेः; तथाहि-विषादिषु विशेषरूपता मोदकादिविशेषरूपव्यावृत्ता वा स्यात् ? स्वरूपनियता वा ? । न तावन्मोदकादिविशेषरूपव्यावृत्ता, तनान्तरभूतसामान्याव्यतिरेकात्; व्यतिरेके चोभयरूपवस्तुवादहानिप्रसङ्गात् ; व्यतिरेकाव्यतिरेकपक्षस्य च विरोधेन तिरस्कृतत्वात् । नापि स्वरूपचियता, मोदकाद्यभिन्नसामान्यानान्तरत्वात् ; अर्थान्तरत्वे च सैव विशेषरूपता अर्थक्रियार्थिप्र. वृत्तिविषयत्वाद् वस्त्वस्तु, तत्फलविशेषोपादानभावलक्षितस्वभावत्वात् वस्तुनः; सा च तादृशी नान्यत्रास्ति, अर्थिनः प्रवृत्त्यभावात् । त्यज्यतामुभयरूपैकवस्तुवादाभिमानः ॥ तथा चोक्तम् १ विषमोदकरूपम् । २. सामान्यविशेषोभयरूपभवन्मताड्-गीकारे । ३. मोदकभक्षणे विषभक्षणे जाते सति । ५. अनुभव ५. विषार्थिनः । ६. विषभक्षणे प्रयत्नस्य । ७. विषादि । ८. मोदकादि । ९. मोदकादि । १०. स चासौ फलविशेषश्च यः तेनैव दध्यादिरूपवस्तुना साध्यः, तस्योपादाने भावो हेतुभावः, तेन लक्षितः स्वभावो यस्य वस्तुनः, तत्तथा, तद्भावस्तत्त्वम् , तस्मात् । ११. अर्थक्रिया । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71