Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
................
दुःखम्, इति कथञ्चिद्विज्ञाय,भावतैस्तथैव भावयतः, वस्तुतः तत्राभिषङ्गास्पदाभावादू, भावनाप्रकर्षविशेषतो वैराग्यमुपजायते; ततो मुक्तिः । तथाहि-आत्मात्मीयदर्शनमेव मोहः, तत्पूर्वक एवात्मीयस्नेहो रागः, तत्पूर्विकैवानुरागविषयोपरोधिनि प्रतिहतिषः, इति कृत्वा सर्वमुपपद्यते । यदा तु तदात्मा
ङ्गनादिकं सात्मकापि, तदा यथोक्तभावनाऽभावात्, भा. वेऽपि मिथ्यारूपत्वात्, वैराग्याभावः, तदभावाश्च मुत्यभावः, इति ॥
इति पञ्चमपूर्वपक्षः ॥ ५ ॥
इतिपूर्वपक्षग्रन्थः॥ तदेवमेते मन्दमतयो दुस्तर्कोपहतास्ती•ः स्वयं नष्टाः, परानपि नाशयन्ति मन्दमतीन् । अतः प्रतिविधीयते
तत्र यत्तावदुक्तम् "कथमेकमेव घटादिरूपं वस्तु सच्चासब भवति ? " तदेतदागोपालाङ्गनादिप्रतीतमनाशङ्कनीयमेव । यतः-तत्स्वद्रव्यक्षेत्रकालभावरूपेण सद्वर्तते; परद्रव्यक्षेत्रकालभावरूपेणाऽसत् ; ततश्च सञ्चासश्च भवति । अन्यथा, संदभावप्रसङ्गात् ; तथाहि-यदि तद् यथा स्वद्रव्यक्षेत्रकालभावरूपेण सद्वर्तते, तथैव परद्रव्यक्षेत्रकालभावरूपेणापि स्यातू; ततश्च तदू घटादि वस्त्वेव न स्यात्, परद्रव्यक्षेत्रकालरूपेणापि सत्त्वात् , तदन्यस्वात्मवत् । तथा यदि, यथा परद्रव्यक्षेत्रकालभावरूपेणासद्, एवं स्वद्रव्यक्षेत्रकालभावरूपेणापि स्यात् ; इत्थमपि तद्घटादि वस्त्वेव न स्यात्, परद्रव्यक्षेत्रकालभा. वरूपेणासत्वे सति स्वद्रव्यक्षेत्रकालभावरूपेणाप्यसत्त्वात् ,
१. विशिष्टक्षणोत्पादकस्वभावतया हेतुपरंपरातो विशिष्टक्षणोत्पादेन विज्ञाय श्रुतिमप्या(य्या) प्रज्ञया । २. परमार्थेन । ३. विपर्ययरूपत्वात् । ४. शबलरूपतया सात्मकम्, नित्यम्, शुचि,अदुःखम्, इति ।५. वस्तुनोऽन्यथात्वेन । ६. भावनायाः । ७. घटवस्तु । ८. घटवस्तु । ९. पटाादस्वात्मवत् ।
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71