Book Title: Anekantvad Pravesh Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh Publisher: Hemchandracharya Sabha View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहं । श्रीहरिभद्रमुरिविरचितअनेकान्तवादप्रवेशः टिप्पनसहितः। - - - जयात विनिर्जितरागः सर्वज्ञस्त्रिदशनाथकृतपूजः । सदतवस्तुवादी शिवगतिनाथो महावीरः ॥ १॥ इह केचिदनादिकर्मवासनोद्भुतमहामोहाकुलीकृतचेतसो यथास्थितं सदसन्नित्यानित्याद्यनेकरूपं वस्त्वनुभवन्तोऽपि न प्रतिपद्यन्ते; प्रत्यवतिष्ठन्ते च-कथमेकमेव घटादिरूपं वस्तु "चासश्च भवति ? तथाहि-सत्वमसत्त्वपरिहारेण व्यवस्थिन्, असत्त्वमपि सत्वपरिहारेण, अन्यथा तयोरविशेषात् । रश्च तद्यदि सत्, कथमसत् ? अथासद्, कथं सत् ? त्येक सदसत्त्वयोर्विरोधात् । तथा चोक्तम्--- यस्मात्सत्वमसत्त्वं च विरुद्धं हि मिथो द्वयम् । वस्त्वेकं सदसद्रूपं तस्मात् खलु न युज्यते ॥१॥ किं च;-सदसद्रूपं वस्त्वभ्युपगच्छता सत्वमसस्वं च वस्तुधर्मतयाभ्युपगतं भवति । ततश्चात्रापि वक्तव्यम् ; धर्मधमिणोः किं तावद्भेदः ? आहोश्चिदभेदः ? आहोश्चिभेदाभेदः? इति । तत्र यदि तावद्भेदः, ततः सदसत्त्वयोभिन्नत्वात् १. आदिशब्दाज्झानादि । २. अर्थक्रियासमर्थ च सद्, अन्यदसदुच्यते । समावेशो न चैकत्र तयोः प्रोक्तो विरोधतः ॥१॥ ३. असत्त्वानापत्त्या। ४. अभेदात् । ५. एवकारार्थे । ६. धर्मिणः सकाशात् । For Private And Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 71