Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
________________
प्रमेयद्योतिका टीका प्र.३ उ.३सू.४२ एको० डिंबडमर-कलहादि निरूपणम् ६६५ इति वा कुड इति वा दगोदर इति वा अर्श इति वा अजीरग इति वा भगन्दर इति वा इन्द्रग्रह इति वा स्कन्दग्रह इति वा कुमारग्रह इति वा, नागग्रह इति वा यक्षग्रह इति वा भूतग्रह इति वा उद्वेगग्रह इति वा धनुग्रह इति वा एकाहिकाग्रह इति वा द्वयाहिकग्रह इति वा व्याहिकग्रह इति वा चतुराहिकग्रह इति वा हृदयशूलमिति वा, मस्तकशूलमिति वा, पार्श्वशूलमिति वा कुक्षिशूलमिति वा योनिशूलमिति वा, ग्राममारी इति वा यावत् सनिवेशमारी इति वा, प्राणक्षय यावद् व्यसनभूतानार्या इति वा ? नायमर्थः समर्थः, व्यपगतरोगातङ्का खलु ते मनुजगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! । अस्ति खलु भदन्त ! एकोरुक द्वीपे द्वीपे अतिवर्ष इति वा मन्दवर्ष इति वा सुवृष्टिरिति वा दुर्वृष्टिरिति वा उद्वाह इति वा प्रवाह इति वा दकोद भेदइति वा दकोत्पीलेति वा ग्रामवाह इति वा यावत् सन्निवेशवाह इति वा प्राणक्षय० यावद् व्यसनभूतानार्या इति वा नायमर्थःसमर्थः, व्यपगतोदकोपद्रवाः खलु ते मनुजगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खलु भदन्त ! एकोरुक द्वीपे द्वीपे अय आकर इति वा ताम्राकर इति वा शीसकाकर इति वा सुवर्गाकर इति वा रत्ना. कर इति वा वज्राकर इति वा वसुधारेति वा, हिरण्यवर्ष इति वा सुवर्णवर्ष इति वा रत्नवर्ष इति वा वनवर्ष इति वा आमरणवर्ष इति वा पत्रवर्ष इति वा पुष्पवर्ष इति वा फलवर्ष इति वा बीजवर्ष इति वा माल्यवर्ष इति वा गन्धवर्ष इति वा वर्णवर्ष इति वा चूर्णवर्ष इति वा क्षीरवृष्टिरिति वा रत्नवृष्टिरिति वा हिरण्यवृष्टिरिति वा सुवर्णवृष्टिरिति वा तथैव यावद् चूर्णवृष्टिरिति वा, सुकाल इति वा दुष्काल इति वा सुभिक्ष इति वा दुर्भिक्ष इति वा अल्पायमिति वा महायमिति वा क्रय इति वा महाविक्रय इति वा सन्निधिरिति वा सश्चय इति वा निधिरिति वा निधानमिति वा चिरपुराणमिति वा, प्रहीणस्वामिकमिति वा महीण सेतुकमिति वा प्रहीणमार्गमिति वा प्रहोणगोत्रागारमिति वा यानि इमानि ग्रामाकरनगरखेटकवटमडम्बद्रोणमुखपट्टनाश्रमसंवाहसन्निवेशेषु सिंघाडकत्रिकचतुष्कचत्वरचतुर्मुखमहापथपथेषु नगरनिर्धमनश्मशानगिरिकन्दरसच्छलोपस्थानभवनगृहेषु संनिक्षिप्तानि तिष्ठन्ति ?, नायमर्थः समर्थः । एकोरुक द्वीपे खलु भदन्त ! द्वीपे मनुजानां किय. न्तं कालं स्थितिः प्रज्ञप्ताः ? गौतम ! जघन्येन पल्योपमस्य असंख्येयभागम् असंख्येयभागेनोनकम् उत्कर्षेण पल्योपमस्यासंख्येयभागम् । ते खलु भदन्त ! मनुजाः कालमासे कालं कृत्वा कुत्र गच्छन्ति ? कुत्रोत्पद्यन्ते गौतम ! ते खलु मनुजाः षण्मासावशेषायुष्का मिथुनकानि प्रसवन्ति, एकोनाशीति रात्रि दिवानि मिथुनानि संरक्षन्ति संगोपयन्ति च, संरक्ष्य संगोप्य उच्छ्रवस्य निःश्वस्य कासित्वा क्षुत्वा जृम्भयित्वा अक्लिष्टा अव्यथिता अपरितापिताः सुखं सुखेन कालमासे कालं
जी० ८४
જીવાભિગમસૂત્ર