Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
Catalog link: https://jainqq.org/explore/006111/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ जैनस्तोत्रसंग्रहप्रथमभागस्य सूचीपत्रम् । - ० मच्छब्द नवस्तवी। . [२०] श्रीवीरस्तवः । १] श्रीपार्श्वस्तवः । । [२१] सुरासुरविज्ञप्तिरूप. [२] अनितशान्तिस्तवः स्तवः । [३] साधारणजिनस्तवः। २४ श्रीपुण्डरीकगणधरचे ४ ] श्रीऋषभस्तवः ।। स्तवनम् । 4] श्रीपार्श्वसुपार्श्वस्तवः। २७ कुमारपालकृतसाधारण६] धारणस्तवः । जिनस्तवनम् । प.७] ,, , |३५ श्रीजैनधर्मवरसंस्तवनम् । ६८] श्रीनेमिस्तवः । |४६ श्रीशान्तिनाथस्तुतिः ९] श्रास्त्रीमन्धरयुगन्धर सटीका। तवः। ९४ अनुभूतसिद्धसारस्वत[१०] सर्वजिनस्तवः । स्तवः । अस्मच्छब्दनवस्तवी। ५७ सटीका नयकर्णिका। [१२] प्रथमस्तवः। २ साधारणजिनस्तवः । १३] साधारणजिनस्तवः सटीक १४] श्रीवीरस्तवः। ९४ पार्थचन्द्रकृतसटीक [१५] श्रीऋषभस्तवः।। श्रीमहावीरस्तवनम् । ११६] श्रीऋषभवीरस्तवः। १०७ श्रीपार्श्वजिनस्तवः । [१७] साधारणाजिनस्तवः। १०९ द्वितीयःपार्थजिनस्तक [१९] शाश्वतनिनस्तवः। ११६ बिल्हणकृतपार्श्वस्तवः ॥ Page #2 -------------------------------------------------------------------------- ________________ शोधनपत्रम् । पृष्ठः पंक्तिः अशुद्धम् शुद्धम् । पृष्ठः पंक्ति अशुद्धम् सुद्धम् २ १३ ऋद्धिं ऋद्धिः । १७ ११ स्तु, १९ नुतौ नूतौ २० १६ -सि- शि४ ३ .निति ती. नितिती- ५४ १९ -सर- र.. , १२ -रः । र ५६ १२ -सुखी , १५ •म्या भ्यां "" तवास तवांस- ५९ ५९ २ .मु- भू१ २ म्य- म्ये. ६३ १२ को १३ , ८ -पत्- -यत, १८ जिनात्तता जिना नूताः ७ १३ -ष्माकं -मां कं, ७२ १७ -र्मि१० २ -र्वी वी ७६ १० -मा १३ १४ -द्धिरे -बुधिरे । ८१ ६ तेति १४ ९ -हो -हो ध. , १७ देश१५ १४ भू- -- । ८४ ३ -त्वेन - न 2.252202 Enty to Free Page #3 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ श्रीसोमसुन्दरसूरिविरचिता युष्मच्छब्दनवस्तवी ॥ स्तुवे पार्श्व जिनाधीशं पार्श्वयक्षोपसेवितम् । प्रणतानल्पसङ्कल्पदानकल्पद्रुमोपमम् ॥ १॥ पूजितत्वं जनः पूज्यः स्यात्सर्वजगतामपि । हीलितलां तु नैवैति दुःखोच्छेदः कदाचन ॥ २ ॥ नाथीकृतत्वया देव भवारिजर्जीयते क्षणात् । हर्षाढीक्षिततुभ्यं च स्पृहयेन्मुक्तिकामिनी ॥३॥ नतत्वत्पुरुषाद्दोषा रोषाद्या यान्ति दूरतः । सम्यग्ध्याततव स्वामिन् सियन्ति च मनोरथाः॥४॥ स्तुतत्वयि नरे नाथ विलसन्त्यखिलाः कलाः । उपमानोपमेयत्वं चिरं जीयाजिनेश्वरः॥ ५ ॥ युष्मत्पदान्यपदगैकवचःप्रयोगैः स्तुत्वेति पार्श्वजिन सद्गुणभाजनं त्वाम् । Page #4 -------------------------------------------------------------------------- ________________ श्री सोमसुन्दरसूरिविरचिता । एकं प्रभुं त्रिभुवनेऽपि भवे भवेऽहम् याचे शिवप्रतिभुवं ननु बोधिलाभम् ॥ ६ ॥ इति युष्मद्बहुव्रीह्येकवचनमयः प्रथमः श्रीपार्श्वस्तवः । ॥ अर्हम् ॥ स्मृतिनिर्मितजनशान्ती महिमाढ्यावतिशान्तिनामानौ नविकर्मीकुर्वेऽहं द्वितीयषोडशजिनौ नमकम् ॥ १॥ पुष्पाद्यैर्महितत्वं परभागपरागभाग्भवेन्मर्त्यः । वृषभीभूतयुवां श्रीधर्मरथं श्रयति शिवगामी ||२॥ प्रिययुवया पुरुषेण प्राप्यन्ते शान्तिकान्तिधृतिमतयः। प्रतिपन्नप्रभुतुभ्यं जनाय भद्रं भवेन्नूनम् ॥ ३ ॥ नित्यं मनोधृतयुवन्नुर्नाऽन्यो जगति धन्यमूर्द्धन्यः । निजवित्तव्ययविषयीकृततव ऋद्धिं प्रवर्द्धत ॥ ४ ॥ ध्यातश्रीविमलाचलतीर्थस्थितयुवाय भव्यता नियमात् । हे स्वस्वबोधकयुवां हृदि वसतं मे जिनाधिपती ॥५॥ नुतौ युवामजितशान्तिजिनौ मयेति युष्मत्पदद्विवचनान्यपदैकतोक्तथा । Page #5 -------------------------------------------------------------------------- ________________ युष्मच्छब्दनवस्तवी। श्रीनन्दिषेणगणिसंस्तुतपादपद्मौ देयास्तमस्तविपदं सुखसम्पदं मे ॥ ६ ॥ इति यु मत्पदद्विवचनबहुव्रीह्येकवचनमयो द्वितीय: श्रीअजितशान्तिस्तवः। ॥अहम् ॥ कल्याणकदिनपञ्चकसुरपतिततिविहितदिव्यमहिमानः। स्तुतिगोचरीक्रियन्ते मया जिना ध्वस्तसमवृजिनाः॥१॥ हृद्भक्तिगोचरानीतत्वं स्यादासन्नसिद्धिकः । सङ्कटेऽयुत्कटे ध्यातयुष्मां नाऽऽयाति दुःखिता॥२॥ प्रासादरथापितस्वर्णरूप्यादिमययुष्मया । निर्मीयन्ते नरेणोच्चैः स्ववशाः सर्वसम्पदः ॥३॥ अङ्गाद्यर्चाराधिततुभ्यं कः श्लाघते न देहभृते । आभरणमालभारीकृतयुष्मद् भाग्यवान् कोऽन्यः॥४॥ अभिष्टुततवाऽष्टाऽपि सिद्धयः स्युः सहर्द्धयः। सम्यग्विधिसमाराद्धयुष्मयि स्युः श्रियः स्थिराः॥५॥ ध्यातृध्येयोभयीभूतयूयं जीयास्त हे जिनाः । युष्मच्छब्दबहुत्वाऽन्यपदैकवचनस्तुताः ॥ ६ ॥ Page #6 -------------------------------------------------------------------------- ________________ श्रीसोमसुन्दरसूरिविरचिता। संस्तुत्य भक्तिभरतो वृषभादिमान् श्रीवीरान्तिमान् जिनपतीनिति तीतदोषान् । श्रीज्ञानसागरगतप्रवरार्थसार्थलीलावगाहनकलाबलमेव याचे ॥ ७ ॥ इति युष्मत्पदबहुवचनान्यपदैकवचनगर्भः साधारण जिनस्तवस्तृनीयः । ॥अहम् ॥ कृपया प्रकटीकृताखिलव्यवहारोत्तमधर्मसत्पथम् । प्रथमं जिननायकं मुदा विनयेन स्तुतिकर्मतां नये। श्रुतत्वां मे श्रुती धन्ये दृष्टत्वां चक्षुषी स्तुवे । कराभ्यां चर्चितत्वाभ्यां कृताऽर्थोऽस्मि जिनेश्वरः ॥२॥ अभितः कृपाणधाराप्रतिफलनवशत्रिरूपितत्वाभ्याम् । त्वद्भक्त्या धरणेन्द्रो नमिविनमिभ्यामदाद् विद्या॥३॥ जटाभ्यां शोभितस्वर्णवर्णत्वाभ्या तवासयोः। श्रीर्मेरोः पार्श्वयोर्नीलवनालीभ्यामिवाऽभवत् ॥ ४॥ द्रव्यभावतमोरुद्धदृष्टेर्दिष्टया मम प्रभो सूर्येन्डोरुदयो भूयात् स्वविभादर्शितत्क्योः ॥५॥ जन्मस्नात्रमहानन्दपदलाभार्हितत्वयोः । Page #7 -------------------------------------------------------------------------- ________________ युष्मच्छब्दनवस्तवी। अष्टापदाद्योः केषां न सतां निविशते मनः ॥६॥ युष्मत्पदैकवचनान्यपदद्विवचनवचोविरचनेन । स्तुत इति मया प्रदेयाः प्रवचनचातुर्यमाद्यार्हन् ॥७॥ इति युष्पदेकवचनबहुव्रीहिद्विवचनप्रयोगमुभगः श्रीऋषभस्तवस्तुरीयः। ॥ अर्हम् ॥ पार्श्वसुपा भिख्यौ फणमणिघृणिगणविभासिताकाशौ स्तोष्ये ऋभुक्षिमुख्यस्तुतपदपद्मौ जिनौ भक्त्या ॥१॥ स्यातां प्रमोदपुष्टया दृष्टयुवां स्त्रीनरौ विमलदृष्टी । मधुरस्वरगीतयुवां वाग्माधुर्य सदाऽभ्येति ॥ २॥ उपासितयुवाभ्यां च लभ्यते भुवनेशता। भक्त्या प्रणतयुवाभ्यां वासवोऽपि नमस्यति ॥३॥ ऊरीकृतयुवाभ्यां नो दूरे लोकाग्रगं पदम् । सुप्रभूभूतयुवयोर्दासायन्ते सुरद्रवः ॥ ४ ॥ मनसि न्यस्तयुवयोर्लसन्त्यखिलसपम्दः । विभक्तिसप्तकेनैवं स्तुतौ श्रीजिननायकौ ॥ ५ ॥ चतुर्भिस्त्रीनरानुवृत्या सम्बदैः कलापकम् । Page #8 -------------------------------------------------------------------------- ________________ श्रीसोमसुन्दरमरिविरचिता । युष्मत्पदान्यपदगद्विवचनगर्भोक्तियुक्तिरम्यण । स्तवनेन संस्तुतौ स्तां पार्श्वसुपाचौं प्रसन्नौ मे ॥६॥ इति युष्पच्छब्दबहुव्रीहिद्विवचनगर्भः श्रीपार्थसुपार्श्वस्तवः पञ्चमः। ॥ अर्हम् ॥ कल्पद्रुचिन्तामणिकामधेनु मुख्यार्थसाधिकपत्प्रणामान् । जिनांस्त्रीलोकीजनितांहिपूजान् भूजानिवंशप्रभवान्नुवामि ॥ १॥ स्थितनामद्रव्याद्यात्मकयुष्मां रोदसी बुधश्लाघ्ये । तुष्यन्ति गीतयुष्मां न के नराः किंनरौ श्रुत्वा ॥२॥ आशातितयुष्माभ्यां स्त्रीनृभ्यां लभ्यते न किं दुःखम् । आराधितयुष्माभ्यामभ्यायान्ति स्वयंवराः कमलाः ॥३ पथिषु स्मृतयुष्माभ्यां पलायते निखिलभीतिरातिदूरम्। पित्रोः सुत्रामाऽपि प्रणमति स्तुतयुष्मयोः पादौ ॥४॥ युष्मास्विव मम भक्तिः स्वात्मैकत्वाप्तयुष्मयोभूयात् । युष्मद्वहुवचनान्यद्वित्वोक्त्यैवं जिनान्तता ॥५॥ Page #9 -------------------------------------------------------------------------- ________________ युष्मच्छन्दनवस्तवी | इत्थं स्तुत्वा सर्वतीर्थाधिनाथान् भव्यप्राणिप्रार्थितार्थामरद्रून् । दुःखोछेदं कर्ममर्मक्षयं श्रा - गन्तातीतं बोधिलाभं च याचे ॥६॥ इति युष्मच्छब्दबहुवचनबहुव्रीहिद्विवचनगर्भः साधारणजिनस्तवः षष्ठः । पुनः प्रकारान्तरेण षष्ठ एव स्तव उपदर्श्यते । सर्वान् सार्वान् रागरोषादिदोषस्त्यक्तान् युक्तान्मुक्तसंख्यातिशेषैः । हर्षादी व्रीडया पीडितोऽपि ७ स्वाविज्ञत्वोद्भूतया भूतनाथान् ॥ १ ॥ अभिवीजितयुष्माकं मोदयेतां न चामरे । सदासेवितयुष्मां च देवदेव्यौ स्मराम्यहम् ॥२॥ ज्ञानक्रियाभ्यां भव्यानां मोक्षसौख्याभिलाषिणाम् । देश की भूतयुष्माभ्यां संसारः सुतरो भवेत् ॥ ३ ॥ अच्युतसुखान्त सत्फलदात्रीभ्यां द्रव्यभावपूजाभ्याम् विषयीकृतयुष्माभ्यां प्रयतेत श्रावको नहि कः ॥४॥ Page #10 -------------------------------------------------------------------------- ________________ श्रीसोमसुन्दरसूरिविरचिता । व्याख्यानोद्युक्तयुष्माभ्यां धर्माभ्यां भव्य जन्तवः । तीर्णास्तरान्त मोहाब्धि तरिष्यन्ति तथा न के ॥५॥ साधयेन्निर्मलं धर्मं निश्चयव्यवहारयोः । मर्यादामनतिक्रामन् दर्शकीभूतयुष्मयोः ॥ ६ ॥ द्रव्यपर्यायनययोः प्रमाणीकृतयुष्मयोः । स्थितो भूपसभे वादी जल्पन्नाप्नोति वैजयम् ॥७॥ युष्मच्छब्दबहुत्वान्यपदद्वित्वोक्तिभिः स्तुताएवं श्रीज्ञानसागरत्वं देयासुः सर्वसार्वा मे ॥८॥ इति युष्मच्छन्दबहुवचनबहुव्रीहिद्विवचनप्रयोगमयसाधारणस्तवः एष वा षष्ठः । ॥ अर्हम् ॥ रैवताचलशृङ्गारं भृङ्गारं ज्ञानवारिणः । श्यामलच्छायामिच्छामि श्रीनेमिं स्तोतुमादरात् ॥ १ ॥ शिष्यीभूयानुयूयं ये भव्यास्तेनात्र संशयः । सम्यग्दृक्त्वादभित्वांश्च भजन्ति त्रिदशाविशः॥२॥ प्रियत्वाभिर्नरैरुच्चैर्मुच्यते विषय स्पृहा । रुचिगोचरितत्वभ्यं न रोचतेऽन्यतीर्थिकाः ॥३॥ निरन्तराविस्मृतत्वन्नश्यन्ति सकलारयः । Page #11 -------------------------------------------------------------------------- ________________ युष्मच्छब्दनवस्तवी। ध्यानाधीनीकृतत्वाकं पादान्नमति विष्टपम् ॥४॥ नरेषु नायकत्वासु न स्याद्भवरिपोर्भयम् । एवं युष्मत्पदैकत्वान्यबहुत्वोक्तितो मया ॥५॥ श्रीमान् देवः शिवासूनुरानीतः स्तुतिगोचरम् । ब्रह्मविद्यामयं दद्यात् प्रसद्यात्मपदं मम ॥ ६ ॥ इति युष्मच्छब्दैकवचनान्यपदबहुत्वमर्भ: श्रीनेमिस्तवासप्तमः ॥ अर्हम् ॥ भवपङ्कपतज्जन्तुजातोद्धारधुरन्धरौ । स्तुवे जिनौ विदेहस्थौ सीमन्धरयुगन्धरौ ॥१॥ वामिताङ्कितयूयं याः प्रजास्ता भाग्यभाजनम् । भावेनोपासितयुवान स्तुवे सेवकपुङ्गवान् ॥ २ ॥ प्रथमं शिबिकारूढव्यूढयुवाभिभिस्तपस्यायाम् । इन्द्रेभ्योऽप्यखिलेभ्यः प्राधान्यं प्राप्यतेस्म खलु॥३ याचकेभ्योऽपि भद्रं स्ताद्वार्षिकत्यागपर्वणि । स्वहस्तदायकीभूतयुवभ्यं वाच्छिताऽवधि ॥४॥ प्रदक्षिणीकृतयुवत् केवलिभ्यो भवत्सभाम् । संश्रितेभ्यो विदुः स्पष्टं के न वैनयिकक्रमम् ॥५॥ Page #12 -------------------------------------------------------------------------- ________________ १० श्रीसोमसुन्दरमरिविरचिता । स्वविहारक्रमपावकयुवाकमुर्वीमहाविदेहानाम् । स्पृहयेबुधो न कस्कः सदा वहन्मोक्षनगरपथाम६ अवतीर्णतरुणतरणिप्रभप्रभास्वरयुवासु भूमीषु । तिमिरं न संशयमयं तिष्ठति भव्याङ्गिहृदयगतम्॥७॥ अन्योऽन्योपमितयुवां युवां जिनाधीश्वरौ विजेज्याथाम् आव्योमसोमसूर्य महाविदेहाभरणभूतौ । ८॥ सीमन्धरप्रभुयुगन्धरनामधेयौ भक्त्या स्तुतौ जिनवरौ युगपन्मयेति। अत्राप्यवाप्तजनुषः सुकृताऽशिषं लाम् दत्तां मम प्रमदतो नमतोऽनुवेलम् ॥९॥ इति युष्पच्छब्दद्विवचनबहुव्रीहिबहुवचनप्रयोगगर्भः श्रीसीमन्धरयुगन्धरस्तवोऽष्टमः । ॥ अहम् ॥ यद्गुणस्तवनेनालंभूष्णवो योगिनोऽपि हि । तान् किलाऽखिलसर्वज्ञान् स्तोष्येऽहकर्मापे प्रभून् ॥१॥ ये स्युः परिवृतयूयं निर्वृतभूयं भजन्ति ते शिष्याः। हृदयास्थाक्रोडीकृतयुष्मान्नाराध्यति नरान् कः॥२॥ दृष्टैः कः शशिविशदैस्त्रिकैरधिचतुर्दिशं दिव्यैः । Page #13 -------------------------------------------------------------------------- ________________ युष्मच्छन्दन वस्तवी | ११ छायास्थितयुष्माभिश्छात्रैः पात्रीभवेन्न मुदाम् ॥३॥ मध्यासितयुष्मभ्यं पर्षद्भ्यो द्वादशभ्य इह भव्यः । परिमुक्तनित्यवैरादिभ्यः श्लाघेत को न जनः ॥ ४ ॥ संसधनुकृतयुष्मन्मूर्त्तिभ्योऽन्याभ्य इह सुरकृताभ्यः। यौष्माकमूलमूर्त्तेर्भेदं न विवेद विदुरोऽपि ॥ ५ ॥ अन्तरमृगेन्द्रविष्टरनिविष्टयुष्माकमुत्तमाः पुरुषाः । प्राकाराणां त्रितयीं रम्यां के नो दिदृक्षन्ते ॥ ६ ॥ संमुग्वनिविष्टयुष्मास्वनल्पसोपानपङ्किषु सुखेन | आरे हन् समवसृतौ बालो वृद्धोऽपि न श्राम्येत् ॥७॥ ज्ञानातिशयगुण भरतैरावतविदेहसर्वजिनाः । अन्योऽन्यतुलितयूयं मम यूयं दत्त शिवसौख्यम् ॥८॥ युष्मत्पदान्यपदसत्कबहुत्वगर्भ मुग्धोक्तिभिः स्तुतिपथङ्गमिता मयेत्थम् । श्रीज्ञानसागरसमाः समतीर्थनाथाः श्रीसोमसुन्दरगुणा ददतु प्रसादम् ॥ ९ ॥ इति शुष्मच्छब्दबहुव्रीहिबहुवचनगर्भः सर्वजिनस्तवो नवमः । एवं व समाप्ता युष्मच्छन्द त्रिषष्टिरूपरचनाञ्चिता क्षुल्लादिबुद्धिव्युत्पत्तये तपागच्छाधिराज श्री सोमसुन्दरसूरिभिर्विरचिता नवस्तवी ॥ Page #14 -------------------------------------------------------------------------- ________________ श्री सोमसुन्दरसूरिविरचिता । ॥ अर्हम् ॥ श्रीसोमसुन्दरसूरिविरचिता अथास्मच्छब्दरूपाङ्किता नवस्तवी जिनं निरस्तवृजिनं भाजनं गुणसम्पदाम् । कृपापण्यापणं नाथं किञ्चिद्विज्ञपयाम्यहम् ॥१॥ विडम्बिताऽहं मोहस्त्वां बाधते देव न क्वचित् । स्वदासीकृतमां कामं निकामं त्वं निहंस्यहो ॥२॥ सेवकीभूतरोराभमयेभ्योपासितत्वया । न द्रुतव्यं यतः सन्तो राजरङ्कसदृग्दृशः ॥ ३ ॥ सर्पादिरूपतानीतमह्यं रोषाय न त्वया । ददेऽवकाशलेशोऽपि युक्तं सेवकवत्सलः ॥ ४ ॥ नारकीभूतमत्पापात् पाहि स्वं सेवकं जनम् । अनुगामिममार्हस्ते भाविनी विहृतिः कदा ॥ ५ ॥ अनुकम्प्याश्रितमयि त्वयि नाथे प्रसन्नता भूयादवश्यं देव स्यां फलेग्रहिजनुर्यतः ॥ ६ ॥ अस्मत्पदान्यपदयोरिति जिननूतस्त्वमेकवचनेन | निजपदपङ्कजसेवाहेवाकितयां कृतार्थय माम् ॥७॥ इति अस्मद्बहुव्रीह्येकवचनमयोगगर्भः स्तवः प्रथमः । १२ Page #15 -------------------------------------------------------------------------- ________________ अथास्मच्छब्दरूपाङ्कितनवस्तवी । ॥ अर्हम् ॥ सुरासुरेन्द्रौ निस्तन्द्रौ कल्याणसमयागतौ । हर्षोन्नद्रौ जिनेन्द्राऽग्रे विज्ञप्तिं तनुतो यथा ॥ १ ॥ एवं विधर्द्धिप्राप्ताहमर्हणा पदयोस्तव । विनयावहिताऽऽवां त्वां निषेवन्ते न के नराः ॥२॥ येन ब्रह्मादयोऽप्येते किंकरीभावमापिताः । विगोपि तावया तेन रागेण न जितो भवान् ॥ ३ ॥ भूयो भ्रमितमह्यं त्वं परतीर्थिकवादिने । विश्वाच्य रोचसे नैव घूकायार्क इव प्रभो ||४|| प्रबोधितावद्भावत्कविशुद्धागमभाषितात् । प्रबुद्धाः साधयामासुर्महानन्दपदं न के ॥ ५ ॥ निष्पत्त्युद्यतमम ते समवसृतेर्भुवि समं समासीनाः । बाधा न बुद्धिरे जन्तुकोटिकोट्यो ऽपि चित्रमिदम् ॥६॥ जघनविपुला । अनन्तदर्शनज्ञानवीर्यानन्दमयात्मनि । तृणप्रायायि पदे परमेऽवस्थितो जय ॥ ७ ॥ अस्मच्छन्दद्विवचोऽन्यपदैकवचः प्रपञ्चरुचिरेण । १३ Page #16 -------------------------------------------------------------------------- ________________ १४ श्रीसोममुन्दरसूरिविरचिता । स्तवनेनाऽनेन नुत प्रभो प्रसीद त्वमचिरेण ॥ ८ ॥ इति अस्मच्छब्दविवचनबहुव्रीह्येकवचनमयः साधारण जिनस्तवो द्वितीयः। ॥ अहम् ॥ उत्पन्नकेवलचितंछ विदांवरैर्वर्ण्यमानगुणविभवम् । समसमयमिन्द्रनिवहाः स्तुवन्ति भक्त्या जिनं वीरम् १ सकलातिशयसमृया सर्वजिनोत्कृष्टतामवाप्नोति। सेवासत्तामहोत्सेनोत्सेकलेशमपि ? ॥ २ ॥ जननजरामरणोच्छलदतुच्छकल्लोलमालया कलितम्। निर्मनास्मां संसारसागरं तीर्णवान् भगवान् ॥ ३ ॥ पारप्राप्ताऽस्मया जज्ञे मन्ये दुःखाब्धिनाऽधुना। लभामहे महेश त्वदर्शनं पावनं यतः ॥ ४॥ दूरेऽपि सदनुष्ठानं कृतं जीवदयादिकम् । ईदृक्श्रीप्राप्तमह्यं वद्भक्त्यायेव हि कल्पते ॥ ५॥ यजितं भवेनादौ कषायविषयादिभिः । चिरं विधुरिताऽस्मत प्राक् तस्मात् त्रायस्व कर्मणः॥६॥ पत्तीयितमम सेवकजनदत्तात्मीयपदसदृशऋद्धः । * उदितज्ञानदिनकर इति वा प्रथमपादपाठः । Page #17 -------------------------------------------------------------------------- ________________ अथास्मच्छब्दरूपाङ्कितनवस्तवी योगक्षेमविधायक तव नायकतामभीप्सामः ॥ ७ ॥ प्रकटीकृतजगतीगतजीवाजीवादिभावसद्भावे । सुज्ञायकीकृताऽस्मयि तवागमे स्तादतिर्नित्यम् ॥८॥ अस्मच्छब्दबहुत्वाऽन्यपदैकत्वाङ्कितार्हतः। श्रीज्ञानसागरस्याऽस्तु स्तुतिरेखा सुखाय नः ॥ ९॥ इति अस्मच्छब्दबहुवचनमयः श्रीवीरस्तवस्तृतीयः । ॥अर्हम् ॥ अर्बुदगिरिवरभूषणमदूषणं तीर्थकरनाथम् । स्तुतिपथमानेताऽस्मि प्रसृमरमहिमानमितमानम्॥१॥ कल्पद् इव ते पादौ मनो ऽभीष्टार्थदायकौ । सेव्यावुपान्तविश्रान्तमां केषां नैव धीमताम् ॥२॥ आसादि यत्प्रसादाद्धर्मः शिवशर्मकृद्भवदुपज्ञः। पितरौ तावतिवन्दे प्रभूतमां दुष्प्रतीकारौ ॥ ३ ॥ असाधारणसौभाग्यभवद्रूपनिरूपणे । भूयोव्यापृतमाभ्यां स्वचक्षु| सफलोऽस्म्यहम् ॥४॥ एतगिरिसत्काभ्यां त्वद्योगात्सर्वतीर्थभूताभ्याम् । मङ्गलमवनतमाभ्यामधित्यकोपत्यकाभ्यां स्तात् ॥५॥ Page #18 -------------------------------------------------------------------------- ________________ १६ श्रीसोमसुन्दरमरिविरचिता । चलनप्रवृत्तमाभ्यां वद्यात्राकरणक्षणे । एताभ्यामबुंदोत्तंसपादाभ्यां पुण्यमाप्नुयाम् ॥६॥ यदा त्वदर्शनं लेभे दूरीभूतमयोस्तदा । तिर्यमरकदुर्गत्योः स्वप्नेऽपि व्यरमद्भयम् ॥ ७ ॥ वधर्मावाप्तितः पूर्वमनुत्पन्नमयोः किल । देवमानवसद्गत्योर्न वासं कः समीहते ॥ ॥ इत्यस्मदेकवचनान्यपदाहित्वोक्तिभिः स्तुतो वृषभः । देवोऽर्बुदगिरिमौलिः कलयतु लीलां मनोऽन्तर्मे ॥९॥ इति अस्मच्छब्दैकवचनबहुव्रीहिद्विवचनप्रयोगचारुः __ श्रीऋषभस्तवश्चतुर्थः। ॥ अहम् ॥ श्रीऋषभवईमानौ युगपत्पौरस्त्यचरमतीर्थपती । निभृतीभूयसुभक्ती इतीहया सुरपती नुवतः ॥१॥ नेशते यद्यपीन्द्राद्याः स्तुत्यै तत्र तथाप्यहो । युवामुपस्थितावां हीस्थानं नैव गुरुत्वतः ॥२॥ यत्रायेथे युवा युष्मद्धर्मस्य परिपाल्यते । कुलजाती पवित्रे ते जातावां स्तुवहे सदा ॥३॥ Page #19 -------------------------------------------------------------------------- ________________ अथास्मच्छब्दरूपातनवस्तवी १७ मूढावाभ्यामनिशं रागरुषाभ्यां जगज्जनमशेषम् । पीडितमवतामेनं प्रभूभवन्तौ दयावन्तौ ॥४॥ स्वायोग्यतया तादृग्विशिष्टकालेऽपि दूरितावाभ्याम्। अनिमित्तवत्सलाभ्यामपि विज्ञपयावहे किमु वाम्॥५॥ मिथ्यात्वमहाभोधेर्निजागमप्रवहणार्पणादधुना । तीरानीतावाभ्यां परो युवाभ्यां कृपावान् कः ॥६॥ ऋजुवक्राज्ञयोर्योग्यं युवामन्तरगतावयोः । विधिपञ्चव्रतीमुख्यं दिशन्तौ न कथं हितौ ॥७॥ आद्यन्तयोश्चतुर्थारस्यानुचितावयोर्विमुक्तिपथे । स्तुवहेऽपि भवद्भ्यां नौ सिद्ध कार्य न किं कुर्व॥८॥ इत्यानन्दपुरुस्थौ श्रीमन्नाभेयवीरतीर्थपती । स्तुत्वा कौचित् श्राद्धावार्जिजता दम्पती पुण्यम्॥९॥ अस्मत्पदान्यपदयोर्दिवचनगर्भस्तवेन नुतिविषयम् । नीतौ जिनाविति मम प्रयच्छतां स्वच्छता मनसः॥१०॥ इत्यस्मच्छन्दबहुव्रीहिद्विवचनगर्भः ऋषभवीरस्तषः । ॥ अर्हम् ॥ लोकान्तिकनाकिवरा जिनपुरतो मौलिमिलितभूमितलाः Page #20 -------------------------------------------------------------------------- ________________ श्री सोमसुन्दरसूरिविरचिता । दीक्षासमयसमेता विज्ञप्तिं तन्वते मुदिताः ॥ १ ॥ अशक्तास्मां महाप्रज्ञावैभवेनापि केनचित् । स्तुतिपूजे विधातुं ते न शक्येते कदाचन ॥२॥ गुणैौर्वस्मायितास्मां त्वद्यतिसाध्वीजनौ कदा | प्रणस्यामस्तवोपास्ति कुर्वाणौ वह्निदिस्थितौ ॥३॥ निजगुणगणैरधरितास्माभ्यां सुस्त्रैणपौंस्नवर्गाभ्याम् । सद्देशविरतिमद्भ्यां कदा विभास्यति सभा भवतः ॥४॥ कदाचान्तर्गतास्माभ्यां त्वद्द्व्याख्याक्षिप्तचेतसाम् । नरामराणां वृन्दाभ्यां न सुधाऽपि स्वदिष्यते ॥५॥ तवेशदेशनाभ्यां द्विर्दिने केनेह देहिनः । प्रीतास्माभ्यां प्रपत्स्यन्ते सम्यक्त्वचरणादिकम् ॥६॥ निशादिवससंबन्धिप्रतिक्रमणयोः क्रियाः । अत्यस्मयोः कदा देव भवान् प्रादुष्करिष्यति ॥७॥ ध्यानयोर्दुर्गतिक्षिप्तास्मयो रौद्रार्त्तयोर्विभो । वर्त्तमानं जनं भव्यं निवर्त्तय दयानिधे ||८|| जय त्वं नन्द भद्रं ते धर्मर्थं प्रवर्तय । इत्यादिवचनैर्लोकान्तिकाः संशन्ति यं विभुम् ॥ ९ ॥ १८ Page #21 -------------------------------------------------------------------------- ________________ अथास्मच्छब्दरूपाङ्कितनवस्तवी १९ सएषोऽस्मद्बहुत्वेनान्यपदस्य च द्विवचनेन । स्तुतएवं जिनो देयान्निर्वाणे चरणे रतिम् ॥१०॥ इत्यस्मच्छब्दबहुवचनबहुव्रीहिद्विवचनगर्भो लोकान्तिकदेवविज्ञप्तिरूपः साधारणजिनस्तवःषष्ठः । ॥ अर्हम् ॥ श्रीऋषभवर्द्धमानौ चन्द्राननवारिषेणसंज्ञौ च । शाश्वजिनेश्वरानिति नवीमि चतुरोप्यचतुरोऽपि ॥१॥ दूरस्थितवयं यूयं ध्यानेनासन्नतां गताः । प्रसीदत ममायोग्यस्याप्यचिन्त्यसुखार्पणात् ॥ २ ॥ अत्रस्थ एव वन्देहं साक्षाद्रष्टुमशक्तमान् । युष्मान्मानस एवेह व्यापारो हि सतां मतः ॥ ३॥ सम्पादनानलंभूष्णुमाभिः पुष्पादिकैर्जिनाः । मर्त्यलोकासम्भविभिः पूज्यध्वे सवर्दा सुरैः ॥४॥ दर्शनपूजनवन्दनसेवादिमनोरथोच्छ्रसितमभ्यम्। युष्मभ्यं भद्रं स्तात सनाप्यनाद्यन्तरूपेभ्यः ॥५॥ प्रत्यक्षाश्रितदेवेभ्यः परोक्षाश्रितमत्पुनः । युष्मद्भवेत्फलं तुल्यं सद्भावाद् उभयेष्वपि ॥६॥ Page #22 -------------------------------------------------------------------------- ________________ श्रीसोमसुन्दरसूरिविरचिता। सुलभं कृतपुण्यानां दुर्लभं पापिनां पुनः । युष्माकं सद्गुणावादलुब्धमाकं सुदर्शनम् ॥ ७ ॥ वागतिक्रान्तसौभाग्ययुष्मद्रूपकथास्वहो । अशक्तमासु सुत्रामादिमा अपि हि न क्षमाः ॥८॥ अस्मत्पदैकवचनान्यपदबहुत्वेन संस्तुता एवम् । मम ददतु शाश्वतजिनाःशाश्वतपदसंपदं सपदि ॥९॥ इति अस्मच्छब्दैकवचनबहुव्रीहिबहुवचनगर्भशाश्वत___ जिनस्तवः सप्तमः । ॥ अर्हम् ॥ सूर्येन्दू सविमानौ वन्दनहेतोरितौ मुदा नुवतः । कौशाम्ब्यां समवसृतं श्रीवीरं चरमतीर्थकरम् ॥१॥ स्वतेजसा जितवयं चातूरूप्यभृतस्तव । धर्मचक्राणि चत्वारि दीप्यन्ते देशनाक्षणे ॥ २ ॥ आन्तराणि तमांसि त्वं भव्यस्वान्तगतान्यहो । अनीशतावानुच्छेत्तुं निर्णासियसि सर्वतः ॥ ३ ॥ स्वामिन्ननुकृतावाभि स्वद्भामण्डलैस्तव । चतुर्भिदेशनासद्मसदोद्योतं विराजते ॥ ४ ॥ Page #23 -------------------------------------------------------------------------- ________________ अधास्मच्छब्दरूपाकितनवस्तवी २१ संकोचादिविशेषाप्रौढावभ्यं सदा स्मिताब्जेभ्यः । त्वञ्चरणयुग्मसङ्गमपूतेभ्यः प्रणमति न कस्कः ॥५॥ प्राप्तत्वदुपास्तिभ्यो दिवसनिशाभ्यःशुभोदयकृताभ्यः। हेतूभूतावत् को नार्जयति स्वर्गमोक्षसुखम् ॥६॥ रसलयलीनावाकं त्वद्वचनानां सुधायमानानाम् । तृप्ताः कदापि न स्युभव्यजना बहुलिहन्तो ऽपि ॥७॥ देवसदृग् नौ न रुचिः प्रियाप्रियावासु कमलकुमुदेषु। विश्वप्रियस्य नु कृपारूपरुचिः सर्वसदृशी ते ॥ ८॥ स्तुतवन्तौ भक्त्यैवं यं देवं शशिरवी स मे वीरः। अस्मत्पदद्विचनान्यबहुत्वनुतस्तनोतु शिवम्॥९॥ इति अस्मच्छन्दद्विवचनबहुव्रीहिबहुवचनमयः सूर्येन्दुस्तुतिरूपः श्रीवीरस्तवोऽष्टमः । ॥ अर्हम्॥ श्रीवर्धमानमनघं सुरासुरा भक्तिभास्वरा एवम् । गमयन्ति स्तुतिविषयं जिनेश्वरं समवसरणस्थम्॥१॥ बद्धा अपि महाकाव्यप्रबन्धैर्विबुधैर्गुणाः । प्रसरन्ति जगत्पीठे स्तवनुन्नवयं तव ॥२॥ Page #24 -------------------------------------------------------------------------- ________________ २२. श्री सोमसुन्दर सूरिविरचिता । 1 स्मृतमात्रा अपि नन्ति विघ्नं सङ्घजनस्व ये नामवर्णा न के जापरतास्मांस्तान् स्तुवन्ति ते ॥ ३॥ पद्मसञ्चारसंरब्धास्माभिर्मोहतमोहरैः । रविणेव त्वया पादैः को देशोऽद्योति न प्रभो ॥४॥ निर्मितिमुदितास्मभ्यं तवसमवसृतौ प्रदीप्रवप्रेभ्यः । द्वादशयोजन्या अपि धन्याः के के न गच्छन्ति॥५॥ पुरः स्थितास्मत्पर्षद्भ्यो वर्षति त्वयि गीसुधाम् । सबाह्याभ्यन्तरस्तापो दवीयान् जायते प्रभो ॥६॥ चतुर्णामाननानां ते मोहितास्माकमीक्षणे । तृप्तिर्न जायते देव लावण्यामृतवारिधे ||७|| प्रातिहार्येषु निर्माणसुहितास्मासु ते प्रभो । स्पष्टं दृष्टेषु सदृष्टिः को न चित्रीयतेतराम् ॥८॥ अस्मत्पदबहुव्रीहिबहुत्वरचनाञ्चितः । इत्यमर्त्यकृतो वीरस्तवः स्ताद्वास्तवश्रिये ॥ ९ ॥ इत्यस्मद्बहुव्रीहिबहुवचनमयः सुरासुर विज्ञप्तिरूपः स्तवोनवमः । एवं च समाप्ताऽस्मच्छब्द त्रिषष्टिरूपचार्वी नवस्तवी । Page #25 -------------------------------------------------------------------------- ________________ अथास्मच्छब्दरूपाङ्कितनवस्तवी श्रीदेवसुन्दरगुरूत्तमशिष्यमुख्यश्रीज्ञानसागरगुरुक्रमपद्मरेणोः। श्रीसोमसुन्दरगुरोरिति युष्मदस्मदष्टादशस्तवकृतिः कृतिनां मुदेऽस्तु ॥ १॥ एतामष्टादशस्तोत्रीमुद्युक्तो गुरुभक्तितः अशोधयबुद्धबुद्धिः सोमदेवगणिर्गुणी ॥२॥ इति श्रीतपागच्छाधिराजश्रीसोम सुन्दरसूरिभिः चल्लादिबुद्धिव्युत्पत्युपकारकौतुकितया कृता अष्टादशस्तवाश्चिरंजीयासुः। * समाप्ता Page #26 -------------------------------------------------------------------------- ________________ ॥ अर्हम् ॥ तपागच्छाधिराजश्रीलक्ष्मीसागरसूरि विरचितं श्रीपुण्डरीकगणधरस्तवनम् । श्रीशत्रुञ्जयशैलराजशिखरालङ्कारचूडामणिम् भव्यश्रेणिसमीहितार्थनिकरत्यागैकचिन्तामाणम्। नम्राखण्डलमौलिरत्नकिरणैर्नीराजितांहिद्वयम् । संस्तोष्ये प्रथमं गणाधिपमहं श्रीपुण्डरीकाह्वयम् ॥१॥ ज्ञानानन्त्यमयी किमुत्सवमयी किंसौख्यसंपन्मयी किंवा सान्द्रसुधामयी शुभमयी सौभाग्यलक्ष्मीमयी इत्थंकारमुदारमूर्तिममलामालोक्य चेतस्विनश्वेतःस्वं परितन्वते स जयतात् श्रीपुण्डरीको गुरुः॥२॥ स श्रीमान् गुरुपुङ्गवः स्थवयताहः शाश्वतीः संपदो यत्पादाम्बुरुहे सुपर्वमाणभिर्भेजे ह्युपादानता । नेत्थं चेत् कथमन्यथा त्रिभुवनाऽभीष्टार्थसार्थानिदम दत्ते तेच न दृगपथे कथममी जग्मुर्जगत्प्राणिनाम्॥३॥ Page #27 -------------------------------------------------------------------------- ________________ श्रीपुण्डरीकगणधरस्तवनम् २५ प्राववानमयोऽपि दुस्तरभवाम्भोधौ निमज्जज्जनश्रेणीतारणकारणं समभवत् शत्रुञ्जयाख्यो गिरिः। तत्सर्व तव पादपद्मयुगलीमाहात्म्यविस्फूर्जितम् श्रीमन्नादिजिनेशवंशजलधिप्रोल्लासशीतद्युते ॥४॥ केषां न स्पृहयालुता दिविषदां नेत्राय सञ्जायते येन प्रोज्वलयन्मुखाम्बुजलसत्सौभाग्यमालोक्यते । मेषोन्मेषविवर्जितैरविरतं भव्याङ्गभाजां भरैः श्रेयःश्रणिरमां स मांसलयतात् श्रीपुण्डरीकप्रभुः॥५॥ जात्यस्वर्णसवर्णवर्णवपुषा कैवल्यमासेदुषा संप्राप्य त्रिपदीमदीनमहसा श्रीमयुगादीश्वरात् । चक्रे येन चतुर्दशाऽपि विलसत्पूर्वाणि साङ्गान्यपि श्रमिानाद्यगुरूत्तमः शमयताद्वस्तापमाऽऽपत्ततेः ॥६॥ प्राहुर्बुद्धिधनास्त्वदीयचरणोपास्तेः समस्ताङ्गिनो नूनं त्वत्सदृशा भवेयुरिति यत्तत्सत्यमाभाति नः । यस्मादेष महीधरोऽपि समभूत् श्रीपुण्डरीकाह्वयः संसारार्णवतारणैकनिपुणत्वत्पादसंस्पर्शतः ॥७॥ अल्पः कल्पतरुः स कामकलशो न स्यात् शिवस्यास्पदम् Page #28 -------------------------------------------------------------------------- ________________ २६ श्रीलक्ष्मीसागरसूरिविरचितम् । प्राश्चत्कल्पलता सतामनुचिता चिन्तामणौ नादरः। स्वामिन् कामगवी न वीक्षणपथे सञ्जायते कर्हिचित चिन्तातीतफलप्रदाननिपुणत्वत्पादपद्मात् पुरः ॥८॥ ये त्वां ध्यानपथं कथश्चन नयेच्चेतस्तदेवोत्तमम् धन्याऽसौ रसना सना तव गुणग्रामस्तुतौ सादरा । ये त्वद्रूपनिभालनैकरसिके नेत्रे पवित्रे नृणाम् श्रीशत्रुञ्जयभूधरैकमुकुट श्रीपुण्डरीक प्रभो ॥९॥ श्रीमत्केवलबोधदर्पणतले सङ्क्रान्तलोकत्रयम् हस्तन्यस्तविशुद्धमौक्तिकमिवाबाभाति यस्येशितुः । स्वाह्वानस्मरणाकृतां भवभृतां संसारवारांनिधेः स्वामी तारयताद्धताऽन्तररिपुःस श्रीगणाधीश्वरः॥१०॥ इत्थंकारमुदारसारकविता प्राग्भारमारभ्यते नीत्वा स्तोत्रपथं कथंचन गुणान् चन्द्रोज्ज्वलान् भक्तितः लक्ष्मीसागरसूरिसंस्तुत मया श्रीपुण्डरीक प्रभो संप्रायेंत भवे भवे तव पदाम्भोजन्मसेवासुखम्॥११॥ इति श्रीपुण्डरीकस्तवनम् । Page #29 -------------------------------------------------------------------------- ________________ ॥ अर्हम् ॥ श्रीकुमारपालभूपालविरचितं साधारणजिनस्तवनम् । नम्राखिलाखण्डलमौलिरत्न- रश्मिच्छटापल्लवितांहिपीठ । विध्वस्तविश्वव्यसनप्रबन्ध त्रिलोकबन्धोजयताजिनेन्द्र ॥१॥ मूढोऽस्म्यहं विज्ञपयामि यत्त्वा मपेतरागं भगवन् कृतार्थम् । नहि प्रभूणामुचितस्वरूप निरूपणाय क्षमतेऽर्थिवर्गः ॥२॥ मुक्तिं गतोऽपीश विशुद्धचित्ते __ गुणाधिरोपेण ममासि साक्षात् । भानुदेवीयानपि दर्पणेशु____सङ्गान्न किं द्योतयते गृहान्तः ॥ ३ ॥ तव स्तवन क्षयमङ्गभाजां Page #30 -------------------------------------------------------------------------- ________________ २८ साधारणजिनस्तवनम् । भजान्त जन्मार्जितपातकानि। कियच्चिरं चण्डरुचेमरीचि. स्तोमे तमांसि स्थितिमुद्दहन्ति ॥ ४ ॥ शरण्य कारुण्यपरः परेषां निहंसि मोहज्वरमाश्रितानाम् । मम त्वदाज्ञां वहतोऽपि मूर्दा शान्ति न यात्येष कुतोऽपि हेतोः॥५॥ भवाटवीलङ्घनसार्थवाहं त्वमाश्रितो मुक्तिमहं यियामुः। कषायचोरैर्जिन लुप्यमानं रत्नत्रयं मे तदुपेक्षसे किम् ।। लब्धोऽसि स वं मयका महात्मा भवाम्बुधौ बंभ्रमता कथंचित् । आः पापपिण्डेन नतो न भत्त्या __न पूजितो नाथ नतु स्तुतोऽसि ॥७॥ संसारचक्रे भ्रमयन् कुबोध दण्डेन मां कर्ममहाकुलालः। करोति दुःखप्रचयस्थभाण्डं ततः प्रभो रक्ष जगच्छरण्य ॥ ८॥ Page #31 -------------------------------------------------------------------------- ________________ श्रीकुमारपालभूपालविरचितम् कदा त्वदाज्ञाकरणाप्ततत्त्व स्त्यक्त्वा ममत्वादिभवैककन्दम् । आत्मैकसारो निरपेक्षवृत्ति मोक्षेऽप्यनिच्छो भावितास्मि नाथ ॥९॥ तव त्रियामापतिकान्तिकान्तै र्गुणैनियम्यात्ममनःप्लवङ्गम् । कदा त्वदाज्ञामृतपानलोलः स्वामिन् परब्रह्मरतिं करिष्ये ॥ १० ॥ एतावती भूमिमहं त्वदंहि पद्मप्रसादागतवानधीश। हठेन पापास्तदपि स्मराद्या ही मामकार्येषु नियोजयन्ति ॥ ११ ॥ भद्रं न किं त्वय्यपि नाथनाथे ___ सम्भाव्यते मे यदपि स्मराद्याः । अपाक्रियन्ते शुभभावनाभिः पृष्ठिं न मुञ्चति तथापि पापाः ॥१२॥ भवाम्बुराशौ भ्रमतः कदापि Page #32 -------------------------------------------------------------------------- ________________ साधारणजिनस्तवनम् । मन्ये न मे लोचनगोचरो भूः । निस्सीमसीमन्तकनारकादि. दुःखातिथित्वं कथमन्यथेश ॥ १३ ॥ चकासिचापाङ्कुशवज्रमुख्यैः । - सल्लक्षणैर्लक्षितमंहियुग्मम् । नाथ त्वदीयं शरणं गतोऽस्मि दुर्वारमोहादिविपक्षभीतः ॥ १ ॥ अगण्यकारुण्य शरण्य पुण्य सर्वज्ञ निष्कण्टक विश्वनाथ दीनं हताशं शरणागतं चमां रक्ष रक्ष स्मरभिल्लभल्ले:१५॥ त्वया विना दुष्कृतचक्रवालं मान्यः क्षयं नेतुमलं ममेश ।। किंवा विपक्षप्रतिचक्रमूलं चक्रं विना च्छेत्तुमलम्भविष्णुः ॥ १६ ॥ यदेवदेवोऽसि महेश्वरोऽसि बुद्धोऽसि विश्वत्रयनायकोऽसि । तेनान्तरङ्गारिगणाभिभूत स्तवाग्रतो रोदिमि हा सखेदम् ॥ १७॥ Page #33 -------------------------------------------------------------------------- ________________ श्रीकुमारपालभूपालविरचितम् ३१ खामिन्नधर्मव्यसनानि हित्वा मनः समाधौ निदधामि यावत् । तावत्कुधेवान्तरवैरिणो मा मनल्पमोहान्ध्यवशं नयन्ति ॥ १८ ॥ त्वदागमाहोनि सदैव देव मोहादयो यन्मम वैरिणोऽमी । तथापि मूढस्य पराप्तबुद्ध्या तत्सन्निधौ ही न किमप्यकृत्यम् ॥१९॥ म्लेच्छैर्नृशंसैरतिराक्षसैश्च विडम्बितोऽमीभिरनेकशोऽहम् । प्राप्तस्त्विदानी मुवनैकवीर त्रायस्व मां यत्तव पादलीनम् ॥ २० ॥ हित्वा स्वदेहेऽपि ममत्वबुद्धि श्रद्धापवित्रीकृतसद्विवेकः। . मुक्तान्यसङ्गः समशत्रुमित्रः स्वामिन् कदा संयममातनिष्ये ॥२१॥ विमेव देवो मम वीतराग . Page #34 -------------------------------------------------------------------------- ________________ साधारणजिनस्तवनम् । धर्मो भवद्दर्शितधर्म एव। इति स्वरूपं परिभाव्य तस्मा नोपक्षणीयो भवति स्वभृत्यः ॥ २२ ॥ जिताजिताशेषसुरासुराद्याः कामादयः कामममी वयेश। लां प्रत्यशक्तास्तव सेवकं तु निम्नन्ति ही सांपरुषं रुपैव ॥ ३ ॥ सामर्थ्यमेतद्भवतोऽस्ति सिद्धि सत्त्वानशेषानपि नेतुमीश । क्रियाविहीनं भवदहिलीनम् दीनं न किं रक्षसि मां शरण्य ॥ २४ ॥ त्वत्पादपद्मद्वितयं जिनेन्द्र - स्फुरत्यजस्रं हृदि यस्य पुंसः। विश्वत्रयीश्रीरपि नूनमेति तत्राश्रयार्थ सहचारिणीव ॥ २५ ॥ - अहं प्रभो निर्गुणचक्रवर्ती क्रूरोदुरात्मा हतकः सपाप्मा । Page #35 -------------------------------------------------------------------------- ________________ श्रीकुमारपालभूपालविरचितम् ३३ ही दुःखराशौ भववारिराशौ यस्मान्निममोऽस्मि भवद्विमुक्तः ॥ २६ ॥ स्वामिनिममोऽस्मि सुधासमुद्रे यन्नेत्रपात्रातिथिरद्य मे भूः चिन्तामणौ स्फूर्जति पाणिपद्मे पुंसामसाध्यो नहि कश्चिदर्थः ॥ २७॥ त्वमेव संसारमहाम्बुराशौ निमज्जतो मे जिन यानपात्रम् । त्वमेव मे श्रेष्ठसुखैकधाम विमुक्तिरामाघटनाभिरामः ॥२८॥ चिन्तामणिस्तस्य जिनेशपाणौ कल्पद्रुमस्तस्य गृहाङ्गणस्थः। नमस्कृतो येन सदापि भक्या स्तोत्रैः स्तुतो दामभिरर्चितोऽसि ॥२९॥ निमील्य नेत्रे मनसः स्थिरत्वं विधाय यावजिन चिन्तयामि। त्वमेव तावन्नपरोऽस्ति देवो Page #36 -------------------------------------------------------------------------- ________________ साधारणजिनस्तवनम् । निःशेषकर्मक्षयहेतुरत्र ॥ ३० ॥ भक्त्या स्तुता अपि परे परया परेभ्यो मुक्ति जिनेन्द्र ददते न कथंचनापि । सिक्ताः सुधारसघटैरपि निम्बवृक्षा विश्राणयन्ति नहि चूतफलं कदाचित॥३१॥ भवजलनिधिमध्यान्नाथ निस्तार्य कार्यः शिवनगरकुटुम्बीनिर्गुणोऽपि त्वयाहम। नहि गुणमगुणं वा संश्रितानां महान्तो निरुपमकरुणाः सर्वथा चिन्तयन्ति ॥३२॥ प्राप्तस्त्वं बहुभिः शुभैस्त्रिजगतश्चूडामणिदेवता निर्वाणप्रतिभूरसावपि गुरुः श्रीहेमचन्द्रप्रमुः । तन्नातः परमस्ति वस्तुकिमपि स्वामिन् यदभ्यर्थये किन्तु त्वद्वचनादरःप्रतिभवंस्तावईमानो मम॥३३॥ इति साधारणजिनस्तवनम् । Page #37 -------------------------------------------------------------------------- ________________ ॥ अर्हम् ॥ श्रीभावप्रभसूरिविरचितं श्रीजैनधर्मवरसंस्तवनम् । कल्याणमन्दिरमिमं कुरु दानमुख्यं धर्म चतुर्विधमनश्वरसौख्यहेतुम् । सम्यक्त्वभूषिततमं भवभृद्भवाब्धौ पोतायमानमभिनम्यजिनेश्वरस्य ॥ १ ॥ हिंसादिदोषरहितं सहितं शमाद्यै घतिक्षयान्निगदितं महितं महेन्द्रैः । स्वर्गापवर्गफलितं कलितं विवेकै स्तस्याहमेव किल संस्तवनं करिष्ये ॥ २ ॥ ॥ युग्मम् ॥ दानं द्विधाभयसुपात्रगतं सुपोष्यम् मुक्त्यै कृपादिपदतस्त्रिविधं तु भुक्त्यै । जैनोऽत्र वेत्ति न परो नहि नव्यनेत्रो रूपं प्ररूपयति किं किल धर्मरश्मेः ॥३॥ Page #38 -------------------------------------------------------------------------- ________________ ३६ श्रीभावप्रभसूरिविरचितम् पारापतं धृतमते बत शान्तिनाथः श्येनाद्ररक्ष गतजन्मनि ते तदीयाः । गण्या गुणा गुरुकृपोज्ज्वलिताः कथं भ्युमत केन जलधेर्नतु रत्नराशिः ॥ ४ ॥ संरक्षितो गजभवे शशको हि येन मेघाभिधेन मगधाधिपदेहजेन । माहात्म्यमानमिह तस्य करोतु को वा विस्तीर्णतां कथयति स्वधियाम्बुराशेः ॥५॥ मांसं समर्धमधुनेति वचो निशम्य तस्याप्युपायमभयेन विधाय चोक्ताः । कुर्वन्ति तां नहि ययाहह राजलोकाजल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥६॥ सद्दृष्टिपूर्वककृतांहतियुग्ममस्तु AO हे भव्य भव्यतरमन्यदपि प्रधानम् । जन्तून् करोति सुखिनस्तपतापतप्तान् प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥७॥ वीराय विश्वगुरवेऽकृत चन्दना यो Page #39 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरसंस्तवनम् । कुल्माषदानमनुजातसुखाथ तस्याः । भूर्द्धा वेणिरुचिरः श्रियमस्य मौलि - ३७ मभ्यागते वनशिखण्डिनि चन्दनस्य ||८|| दालिद्रदोषतिमिरैर्नियमेन मुक्ताः सत्पात्रदानसुदिनोदयसङ्गमाद्याः । पृष्ठानुगामिकटके निकटे सटङ्के चौरैरिवाशु पशवः प्रपलायमानैः ॥ ९ ॥ दानं ददौ सुमुनये क्षुधितोऽपि योऽतो निःस्खोऽपि भूपतिरभूदिह मूलदेवः । यत् कीचकः श्रयति सार्थकतां नितान्त - मन्तर्गतस्य मरुतः स किलानुभावः ॥ १० ॥ "जैनेन यन्नरकहेतुरपात्रमुक्तं मुक्तं मुधा तदपरेण कथं श्रितं ही । मद्यादि यत्परिहृतं सुधियाथ यज्ञे पीतं न किं तदपि दुर्द्धरवाडवेन ॥११॥ तीर्थङ्कराः सकलदोषविमुक्तदेहाः स्नेहान्मिथो गलितसिंहगजादिवैरः । Page #40 -------------------------------------------------------------------------- ________________ ३८ श्रीभावप्रभसूरिविरचितम् सत्पूजिता विदधतीह हितं न किं किं चिन्त्यो न हन्त महतां यदिवा प्रभावः॥ १२ ॥ अर्हन्त एव जगदीश्वरतां श्रयन्तः सर्वातिशायिसुखदा नितरां निषेव्याः । हिला तान् भजति मुक्तिकृते मुधाऽधीर्नीलडुमाणि विपिनानि न किं हि मानी ॥ १३ ॥ हे भव्य महितं कथितं कुदेव संपूजनं सुमतिनात्र गरोपमानम् । दुःखाप्तिहेतुरतुलं किमु तत्सुखाय दक्षस्य सम्भवि पदं ननु कर्णिकायाः ॥ १४ ॥ श्रीश्रेणिकादिनृपवद् बहवो भवेयुः जीवा जिना जिनपभक्तिभरण भव्याः । सच्चूर्णपूर्णविभवेन भृता भवन्ते चामीकरत्वमचिरादिव धातुभेदाः ॥१५॥ शय्यंभवः शमधनोक्तिविचारदक्षः खड्ड्रेन याज्ञिकजने हनने हठोत्थः । तत्त्वस्य रूपकथने द्रुतजातशान्ति Page #41 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरसंस्तवनम् । र्यद्विग्रहं प्रशमयन्ति महानुभावाः ॥१६॥ . अर्चा समीक्ष्य सुतरामभयेन मुक्तां मिथ्यात्वमाशु यदनार्यजनोऽप्यमुञ्चत् । आर्यस्तदादरभरः कुलजस्ततो नो किं ना मनोविषविकारमपाकरोति ॥१७॥ सावद्यजोऽपि निरवद्यफलानुबन्धा दर्चाविधिः सुमभरेण वरः पुरोगः। साध्योऽपि शब्दनिपुणैः किमु सिंहशब्दो नो गृह्यते विविध वर्णविपर्ययेण ॥१८॥ नित्यं प्रसन्नवदनां महितां सुजैनी द्रव्यैः शुभै रुचिल कल्पलतोपमानाम् । यः सेवते न मलिनो ह्यधनो भवेत्स __किंवा विबोधमुपयाति न जीवलोकः॥१९॥ जैनालया निजयशोनिचया इवैते यैः संप्रतिप्रतिमराजगणैः सिताभः । उच्चैः कृताः शुचिरुचेऽद्भुतमत्र तैश्च । गच्छन्ति नूनमध एव हि बन्धनानि ॥२०॥ Page #42 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिविरचितम् हे आस्तिकास्त्यजत नास्तिकतां नितान्तं चित्तोन्नतिं भजत लुम्पकता लुनीत । चैत्यं विधत्त शृणुत प्रविलोक्य तत्सद् भव्या ब्रजन्ति तरसाप्यजरामरत्वम्॥२१॥ श्राद्धैरकारिषत भागवता विहाराः थैर्दिग्गजैविणदानघनैरुदाराः । ये चात्र रक्षणपराः पतितं सृजन्ति ते नूनमूहगतयः खलु शुद्धभावाः॥२२॥ चैत्यं सुवर्णभरितं भरतेन नव्यं निर्मापितं कलितकेकिकलापशृङ्गम् । यद्वीक्ष्य मञ्जु दधति स्म मुदं हि मां__ श्वामीकरादिशिरसीव नवाम्बुवाहम॥२३॥ शत्रुञ्जयः शमधनाः शमता च शान्तिः शत्रुञ्जयाह्वयतपः सकलं दुरापम् । एतच्छपञ्चकजुषोऽस्ति नरस्य या भा' नीराग तां व्रजति को न सचेतनोऽपि॥२४॥ हस्तं हि हेतिविकलं विफलङ्कमङ्गं Page #43 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरसंस्तवनम् । मुद्राप्यमुद्रसुषमा वनितोज्झितोऽङ्कः। तं देवमेव वदतीति हिताय नाके ___ मन्ये नदन्नभिनभः सुर दुन्दुभिस्ते ॥२५॥ व्याख्यानसद्मनि वृषो गदितो जिनेन क्षेत्रे निजेन निहिते निहितोऽभिषिक्तः । अन्यत्र मोहचरटो विधिविष्णुरुद्र___ व्याजाविधाधृततनुर्बुवमभ्युपेतः ॥२६॥ क्षेत्राणि कानि तव धर्मनृपस्य सप्त चैत्यादिकानि भरतः पुनराह तातम् । सायं च तैः परिचितैर्हि पुराऽधुना वं __ शालत्रयेण भगवन्नभितो विभासि ॥२७॥ जैनो यती जिनजनो जिनसद्म जैनं ज्ञानं जिनो जगति पश्च शुभा जकाराः। नाभेयभूभणति तेष्वनधे सदा किं त्वत्सङ्गमे सुमनसो न रमन्त एव ॥ २८ ॥ तत्त्वानि तीर्थकरतीर्थतपोधनाश्च तथ्यं च तात्त्विकतपः खलु षट्तकारी। Page #44 -------------------------------------------------------------------------- ________________ ४२ श्रीभावप्रभसूरिविरचितम् तस्यां रतो भवति मङ्क्षु नरो हि हित्वा चित्रं विभो यदसिकर्म विपाकशून्यः॥ २९ ॥ सहितं प्रवरपुस्तकमस्तपापं पुण्योपकारि परमं परमैः प्रपूज्यम् । संभालनादिकरणाच् शिवदं त्वयोक्तं ज्ञानं त्वयि स्फुरति विश्वविकाशहेतुः॥३०॥ दानं दया दमनदर्शनदेवसेवा दोषापहार इह षट् प्रवरा दकाराः । तैः सेवितैर्दुरितराक्षस आत्तलोको ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥३१॥ सैनेयसाधुवरसङ्घकसार्वसद्म सैद्धान्तिका इति सुसकारवर्गः । येनादृतो भवकृपीटनिधौ निरस्तं तेनैव तस्य जिन दुस्तरवारि कृत्यम् ॥ ३२ ॥ अर्हन्त अर्च्य अशरीर अहिंसकश्व अ अकारनिकरोऽकृतसन्धिकर्मा । मर्त्योऽश्रयद्यमनिशं परवत् किमेष Page #45 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरसंस्तवनम् । ४३ सोऽस्याऽभवत्प्रतिभवं भवदुःखहेतुः ॥३३॥ सङ्घाधिपत्यतिलकं ननु ये वहन्तः साधर्मिके सततदत्तबराशना ये । मुक्तिं व्रजन्ति लघु ते नितरां भजन्तः पादद्वयं तव विभो भुवि जन्मभाजः ॥३४॥ शीलं कलङ्कतिमिरावलिहेलिकेलि विस्तीर्णविश्ववलये कृतकीर्त्तिखेलम् । मर्त्यो दधाति हृदि यः प्रवरस्य तस्य किंवा विपद्विषधरी सविधं समेति ॥ ३५ ॥ ब्राह्म्यादिका विमलशीलविभूषणाढ्याः सत्यो हि सन्ति बहवो भवितार एव । तासां तु नामजपनेन जिनेश पूतो जातो निकेतनमहं मथिताश यानाम्॥३६॥ शीताहृतिर्ज्जलधिलङ्घनमाहवश्व रक्षोवधः प्रतिहृतिर्ज्वलनप्रवेशः । पुण्या यतो विमलशीलतया पदार्थाः प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ॥३७॥ Page #46 -------------------------------------------------------------------------- ________________ ४४ श्रीभावप्रभसूरिविरचितम् आबालगाङ्गसलिलामलशीललीले हे भनि सुन्दरि पुरा चरणे निषिद्धा । प्रोद्यत्तपाः प्रकुरु तच शुचिचित्तवृत्त्या यस्मात् क्रियाः प्रतिफलन्ति न भावशून्याः॥३८॥ ब्राह्मी सुसुन्दरिकया सह तं वनस्थं वल्ल्यावृताङ्गवरबाहुबलिं बभाषे । गर्जाश्रयं जहिहि कर्मलयं लभस्ख दुःखाङ्कुरोद्दलनतत्परतां विधेहि ॥ ३९॥ यत्साधवे वितरणं न कृतं च शीलं व्याघ्रादिभीतिभिदुरं न तपोऽपि तप्तम् । यत्क्रूरकर्मभिदतो जिन तैर्विभावै र्वध्योऽस्मि चेद्भुवनपावन हा हतोऽस्मि ॥४०॥ रम्येऽत्र दर्पणगृहे वृषभाङ्गजन्मा स्त्रीयोम्मि कापतनतः परपुद्गलेन । शोभां विभाव्य वदतीत्यव देव रागात् । सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥ ४१ ॥ शुद्धात्मदर्शसदनं भरतस्य जज्ञे Page #47 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरसंस्तवनम् । ४५ शुद्धात्मदर्शनमहो शुभभावयोगात् । इत्युक्तिलेशकथकस्य ममैधि नाथ स्वामी त्वमेव भुवनेऽत्र भवनान्तरेऽपि ॥४२॥ त्रैलोक्यरूपविषये सुपरीक्षणेऽत्र बिम्बं त्वदीयमतुलं नयनामृताभम् । कर्मापहारि हृदयाम्बुरुहे निघाय ये संस्तवं तव विभोरचयन्ति भव्याः ॥४३॥ राकागणश्वरनिभास्तेजःपुर्जरतीव पुण्याढ्याः । तेऽनन्तसुखसमेता अचिरान् मोक्षं प्रपद्यन्ते ॥४४॥ ॥ युग्मम् ॥ भावप्रभाख्यवरसूरिंगणाधिपेन श्रीजैनधर्मवरसंस्तवनं सुरम्यम् । शिष्यस्य कौतुककृते रचितं सुबोधं कल्याणमन्दिरसदन्तिमपादलमम् ॥४५॥ इति जैनधर्मवरसंस्तवनम् । Page #48 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ श्रीललितप्रभसूरिविरचिता श्रीभावरत्न (श्रीभावप्रभसूरि) निर्मितटीकोपेता श्रीशान्तिनाथस्तुतिः। यःस्वामीकारुण्यात्सारङ्गभूमौ भीतं व्याघ्रादाकाशेपि क्रूरादाहोराऽऽस्यात् स्पष्टंचारक्षत्।आधारं विश्वानां सर्वेषामत्यन्तंभास्वन्तं तं सातत्यं शान्ति श्रीमच्छान्ति तोष्टोम्यर्हन्तम् ॥ १॥ यः स्वामीति व्याख्या॥ अहं तं शान्ति शान्तिनामानमर्हन्तं जिनं तोष्टोमि अतिशयेन स्तौमि स्तुतिमार्गमानयामि इत्यर्थः । कथं सातत्यं निरन्तरं यथा भवति तथा । कथं भूतं तं शान्ति आधारमालम्बनं नरकादिगतिपतननिवारकत्वात् केषां Page #49 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथस्तुतिः | ४७ विश्वानां जगत्रयाणां आधारआधेयोपचारात् तन्निवासिजन्तूनामित्यर्थः । विश्वानामिति जगद्वाचकविश्वशब्दस्तु न सर्वादिगणसत्कः तेन कुलवद्रूपाणि । कथं भूतानां विश्वानां सर्वेषां समस्तानाम् । पुनः कथं भूतं तं शान्ति भारवन्तं देदीप्यमानं ज्ञानाद्यऽन्तरायाभावात्। कथमत्यन्तं अतिशयेनेति । पुनः कथं भूतं शान्ति श्रीमच्छान्ति श्रीर्विद्यतेऽस्या इति श्रीमती एवं विधा या शान्तिरामयाद्युपशान्तलक्षणा यस्मात् स श्रीमच्छान्तिस्तं श्रूयते हि भगवज्जन्मजात जनपदे रोगोपशान्तिर्जातेति । अथवा श्रीमती शान्तिर्यस्मिन् सर्वकर्मक्षयादिति तम् ॥ तोष्टोमीति यङ्लुङि ष्टुञ् स्तुताविति धातो रूपम् ॥ अथ पूवार्द्ध व्याख्याति ॥ यत्तदोर्नित्यसम्बन्धस्तं कमिति । यः शान्तिरर्हन् सारङ्गं मृगलक्ष्ममिषसारङ्गं मृगमिति लक्षणागम्यं अरक्षदित्यन्वयः । कथं स्पष्टं प्रकटं यथा भवति तत् । कथंभूतं सारङ्गं भीतं भीतप्राप्तं कस्मात् व्याघ्रात् सिंहात कस्यां भूमौ पृथि Page #50 -------------------------------------------------------------------------- ________________ श्रीललितप्रभसूरिविरचिता व्याम् । अपिरिति विस्मये च पुनरर्थे । पुनः कथं भूतं मृगं राहोः सैंहिकेयस्याऽऽस्याद् वदनान्तं कस्मिन्नाकाशे नभसि चन्द्रग तलक्ष्ममृगमिति लक्षणागम्यम् । अथवाऽकाशस्य ई लक्ष्मीं पातीति किपि आकाशेपाश्चन्द्रस्तस्मिन्नाकाशेपि सोमपावत् । कथं भूतादास्यात् क्रूरान्निस्त्रिंशात् । कस्माद्धेतोररक्षत् कारुण्याज्जनेषु कृपाधारकत्वादिति । पूर्वार्द्धेऽत्र लुप्तोत्प्रेक्षा द्रष्टव्या । तेन लाञ्छनं न सारङ्ग इति । अस्यां स्तुतौ कामक्रीडानामवृत्तं मगणपञ्चकलक्षणम् ॥ १॥ ४८ येषां चेतोऽभिप्राय गीर्वाण स्त्रीभिर्नाचोभि प्रायो वायोर्गुञ्जाभिर्मेरुः शैलो यद्वात्याभिः । दीनानां लोकानां चिन्तारनप्रायाः प्रायास्ते ते सर्वज्ञा मे यच्छन्तु द्राग्मुख्यं मौक्षं सौख्यम् ॥ २ ॥ येषामिति व्याख्या गीर्वाणस्त्रीभिर्देवनारीभिः कर्त्रीभिर्येषां जिनानां चेतोऽभिप्रायश्चित्ताशयो नाऽ Page #51 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथस्तुतिः। ४९ क्षोभि नक्षुब्धः इणो रूपंक्षुभ्संचलन इति धातोः॥ दृष्टान्तेन दृढयति । यदुत वात्याभिर्मेरुः शैलोऽक्षोभि कदापि नेत्यर्थः । वातानां समूहो वात्यास्ताभिः । कथं भूताभिर्वात्याभिर्मुलाभिः शब्दाय. मानाभिः। केन प्रायो बाहुल्येन कस्य वायोर्वातस्य वातप्रचुरत्वेनेत्यर्थः । प्रायइत्यव्ययत्वादर्थवशाद्विभक्तिपरिणामस्तेन तृतीया करणभूतेन । चेद् वातानां समूहो वात्या तदा वायुबाहुल्यमिति युक्तं न । युक्तमेव । यदुक्तं रघुकाव्ये सकीचकैर्मारुतपूर्णरन्धैरिति ॥ अथोत्तराई व्याख्याति ॥ ते ते सर्वज्ञा जिनेश्वरा द्रागऽचिरात् मे मह्यं सौख्यं यच्छन्तु ददतु । ते ते इति वीप्सायां पदं द्विः। दाण दानइति धातोर्यच्छादेशे रूपम् । कथं भूतास्तेते चिन्तारत्नप्रायाश्चिन्तामणिसदृशाश्चिन्तितार्थदायकत्वात्। केषां भव्यानां भव्यप्राणिनाम् । कथं भूतानां भव्यानां दीनानामलब्धज्ञानादिधनानाम् । कथं भूतं सौख्यं मुख्यं सर्वोत्कृष्टम्। पुनः कथं भूतं सौख्यं Page #52 -------------------------------------------------------------------------- ________________ ५० श्रीललितपमसूरिविरचिता। मौक्षं मोक्षभवमिति । कथं भूतास्ते ते प्रायाः प्रकृ. ष्टोऽयोभाग्यं येषु ते ऽथवासर्वगामिनः॥ २ ॥ विद्वद्गम्यैरम्यैरथैरव्यर्थैः पूर्ण तूर्ण नृणां भव्यानां संसाराब्धेः पर्यन्तं कुर्वन्तम्। अत्यर्थ चित्तस्थं कुज्ञानध्वान्तं विद्धंसन्तं नित्यैकान्तं विप्तकान्तं श्रीसि द्वान्तं वन्देहम् ॥३॥ विद्वद्गति व्याख्या अहं श्रीसिद्धान्तं जैनागमं वन्दे स्तुतिगोचरमानयामि।कथंभूतं सिद्धान्तं पूर्ण व्याप्तं कैरथै भिधेयैः । कथं भूतैरविद्वद्गम्यैर्विदुषां लभ्यैः। पुनः कथं भूतैरथैरम्यैर्मनोहरैः । पुनः कथं भूतैरथैरव्यर्थैः सफलैः सहेतुकैर्वा । कथंभूतं सिद्धान्तं किं कुर्वन्तं तूर्ण शीघ्रं पर्यन्तमवसानं कुर्वन्तं विदधानम् । केषां नृणां मनुष्याणां कथं भूतानां नृणां भव्यानांश्रद्दधानानाम्। कस्मादवसानं कुर्वन्तं संसाराब्धेर्भवसमुद्रात् ।पुनः कथंभूतं सिद्धान्तं किं कुर्व Page #53 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथस्तुतिः । न्तमत्यर्थ गाढं कुज्ञानध्वान्तं प्रतिविध्वंसन्तं विनाशयन्तम् ।कुज्ञानं मिथ्यात्वज्ञानं तदेव ध्वान्तमन्धकारं कुज्ञानध्वान्तं तत् । कथं भूतं कुज्ञानध्वन्तं चित्तस्थं मनोगतम् । पुनः कथं भूतं सिद्धान्तं नि. सैकान्तं नित्योऽपरैरखण्डित एकोऽद्वितीय एवंविधोऽन्तो निर्णयोयस्मिन् स तमऽथवा नित्या ध्रौव्यात्मका एक औत्पत्तिका अन्ता विनाशात्मकाः पदार्था यस्मिन्स तम् । पुनः कथं भूतं सिद्धान्तं क्षिप्तैकान्तं क्षिप्ता निराकृता एकान्ता दुर्णया एकान्तवादिमतानि येन स तम् ॥ ३ ॥ ___ अस्तापायं सौम्यं गौरच्छायं कार्य बिभ्राणा श्रीशान्तेर्भक्तिं तन्वाना पद्म पत्रं कुर्वाणा। विघ्नौघमिन्दाना हस्तस्थेनाम्भोजेनाभान्तीसा निर्वाणीदेवी दद्यादृद्धिं वृद्धि सिद्धिं मे॥४॥ इति श्रीशान्तिजिनस्तुतिरियं कृतिः श्रीमल्ललितपभसार पूज्यानाम् । Page #54 -------------------------------------------------------------------------- ________________ ५२ श्रीललितप्रभसूरिविरचिता ___ अस्तापायमिति। सा प्रसिद्धा निर्वाणीनामदेवी मे मह्यमृद्धिं संपत्तिं दद्यात्प्रयच्छेत् । अत्र च शब्दो लुप्तो द्रष्टव्यस्तेन च पुनहिं दद्यादातोऽस्या ऋद्धेरेव सन्ततिभूतामिति । च पुनः सिद्धिं दद्यादऽतोऽस्या ऋद्धेरेव फलपरिपाकतामिति ॥ कथं भूता सा किं कुर्वाणा बिभ्राणा दधाना के प्रति कायं शरीरं वैक्रियात्मकमित्यर्थः । कथं भूतं कायमऽस्तापायं अस्ता गलिता अपाया अशुभानि यस्मात्सोऽस्तापायस्तम्। पुनः कथं भूतं कायं सौम्यं सोमखभावम् । पुनः कथं भूतं कायं गौरच्छायं गौरी शिवदा च्छाया कान्तिर्यस्य स गौरच्छायस्तम् । पुनः कथं भूता सा निर्वाणी किं कुर्वाणा भक्ति सेवां तन्वाना विस्तार विदधाना कस्य श्रीशान्तः शान्तिजिनस्य । पुनः कथं भूता सा. किं विदधाना पद्मं कमलं पञ्चं रचनाविशेषमिति कुर्वाणा । अथवा पद्मं तदेव पत्रमासनं कुर्वाणा कमलासनेति । पुनः कथं भूता सा. किं कुर्वाणा विघ्नौघं प्रत्यूहव्यूहं भिन्दाना भञ्जती । Page #55 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथस्तुतिः। ५३ पुनःसा० किं कुर्वती सती आभान्ती सती। आभान्तीति शतृप्रत्यये ईपि सिद्धम्। केनाम्भोजेन कमलेन करणभूतेन । कथं भूतेन कमलेन हस्तस्थेन हस्तगतेन ॥ अथवोपलक्षणेतृतीयेति ॥ ४ ॥ ___ इति श्रीशान्तिजिनस्तुतिटीका समाप्ता। इयं स्तुतिः श्रीललितप्रभसूरिभराम्नायपूर्वकैः कालापेक्षया विनिर्मिता । यतोऽत्र स्तुतौ पादे पादे मगणपञ्चकाः सर्वगुरवो वर्णाः सन्ति ततः पादचतुकमीलने षष्ट्यक्षरप्रमिता एकास्तुतिर्भवति तत एकास्तुतिःषष्टिवारमथवा स्तुतिचतुष्कं पञ्चदशवारं छन्दउक्तयतिभिः पठ्यते तदैका घटिका भवति । इष्टकालेन क्रियादिकं शुभकार्य स्यादित्याम्नायः॥ श्रीवर्द्धमानतः पारंपर्यपट्टोदयाचले। गोभिः सूर्योऽभवच्छीमल्ललितप्रभसूरिराट् ॥ १ ॥ तत्पट्टासनभूषाश्रीविनयप्रभसूरिराट् । राकापक्षपतिज॑ज्ञे जैनक्रियाकलाधरः ॥२॥ तत्पट्टे जयति श्रीमन्महिमाप्रभसूरिराट् । Page #56 -------------------------------------------------------------------------- ________________ ५४ अनुभूतसिद्धसारस्वतस्तवः । आप्तोक्तियुक्तिसन्मुक्ताफलानन्यपरीक्षकः ॥ ३ ॥ तत्पदाम्बुजभृङ्गेन सेवाखादविदा खयम् । शिष्येण भावरत्वेन स्तुतेष्टीका विनिर्मिता ॥ ४ ॥ अक्षषडश्वभूमाने वत्सरेऽत्रेषमासके । चतुर्दश्यां तिथौ शुक्र पूर्णीभूतेऽष्टतेजसः ॥५॥ इति प्रशस्तिः सम्पूर्णा ॥ ॥ अहम् ॥ कलमरालविहङ्गमवाहना सितदुकूलविभूषणलेपना। प्रणतभूमिरुहामृतसारिणी प्रवरदेहविभाभरधारिणी।। अमृतपूर्णकमण्डलुधारिणी त्रिदशदानवमानवसेविता। भगवती परमैव सरस्वती मम पुनातु सदा नयनाम्बुजम् जिनपतिप्रथिताखिलवाङ्मयी गणधराननमण्डपनर्तकी । गुरुमुखाम्बुजखेलनहंसिका विजयते जगति श्रुतदेवता ॥ ३ ॥ अमृतदीधितिबिम्बसमानानां त्रिजगतीजननिर्मितमानानाम् । नवसरसामृतवीचिसरस्वती प्रमुदितः प्रणमामि सरस्वतीम् ॥४॥ Page #57 -------------------------------------------------------------------------- ________________ अनुभूतसिद्धसारस्वतस्तवः। ५५ विततकेतकपत्रविलोचने विहितसंसृतिदुःकृतमोचने। धवलपक्षविहङ्गमलाञ्च्छिते __जय सरस्वति पूरितवाञ्च्छिते ॥५॥ भवदनुग्रहलेशतरङ्गिता स्तदुचितं प्रवदन्ति विपश्चितः। नृपसभासु यतः कमलाबला कुचकलाललनानि वितन्वते ॥ ६॥ गतधना अपि हि त्वदनुग्रहात् कलितकोमलवाक्यसुधोर्मयः। चकितबालकुरङ्गाविलोचना जनमनांसि हरन्तितरां नराः ॥७॥ करसरोरुहखेलनचश्चला तत्र विभाति वरा जपमालिका । श्रुतपयोनिधिमध्यविकस्वरो ज्ज्वलतरङ्गकदाग्रहसाग्रहा ॥ ८ ॥ द्विरदकसरिमारिभुजङ्गमा सहनतस्करराजरुजां भयम् । तव गुणावलिगानतरङ्गिणां न भविनां भवति श्रुतदेवते ॥ ९ ॥ Page #58 -------------------------------------------------------------------------- ________________ ५६ अनुभूतसिद्धसारस्वतस्तवः । __ॐ ह्रीं क्लीं ब्ली ततः श्री तदनु हसकलहीमथो ऐं नमोऽन्ने लक्षं साक्षाज्जपेद्यः करसमविधिना सत्तपा ब्रह्मचारी॥ निर्यान्ती चन्द्रबिम्बात् कलयति मनसा खां जगञ्चन्द्रिकामा सोऽत्यर्थं वह्निकुण्डे विहितघृतहुतिः स्याद्दशांशेन विद्वान् रेरे लक्षणकाव्यनाटककथाचम्पूसमालोकने कायासं वितनोषि बालिश मुधा किं नम्रवक्ताम्बुजः। भक्याऽऽराधयमन्त्रराजमहसा तेनानिशं भारती येन वं कवितावितानसविता द्वैतप्रबुद्धायसे॥११॥ चञ्चच्चन्द्रसुखी प्रसिद्धमहिमा स्वाच्छन्द्यराज्यप्रदा नायासेन सुरासुरेश्वरगणैरभ्यार्थता भक्तितः। देवी संस्तुतवैभवा मलयजालेपाङ्गरत्नद्युतिः सा मां मातु सरस्वती भगवती त्रैलोक्यसञ्जीविनी।। स्तवमेतदनेकगुणान्वितं पठति यो भविकः प्रमनाः प्रगे स सहसा मधुर्वचनामृतैर्नृपगणानपि रञ्जयति स्फुटम् इत्यनुभूतसिद्धसारस्वतस्तवः। Page #59 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ श्रीविनयविजयोपाध्यायविरचिता पं०-श्रीगम्भीरविजयगणिनिर्मित टीकोपेता नयकर्णिका। वर्द्धमानं स्तुमः सर्वनयनद्यर्णवागमम् । संक्षेपतस्तदुन्नीतनयभेदानुवादतः॥१॥ _ नीयन्ते प्राप्यन्ते सदंशाङ्गीकारेणेतरांशौदासीन्यतया वस्तुबोधमार्ग यैस्ते नयाः नैगमादयः सर्वे च तं नयाश्च सर्वनयास्त एव नद्यः सरितस्तासामर्ण वस्समुद्रतुल्यः आगमो वाक्पथो यस्य स तथा तं बईमानं चरमजिनवरं वयं स्तुमः स्तुतिविषयी कुर्म कुतः कस्मात् तदुन्नीतनयभेदानुवादतः तत्तस्य श्रीवर्धमानस्य उत्प्राबल्येन नीताः वचनरूपेण प्राप्ताः ये नयानां भेदाः विशेषास्तेषामनुवादतः कथितस्यैव यत्कथनं तदनुवादस्तस्मादनुवादतः कुर्मइति शेषः कथं संक्षेपतोऽल्पविस्तरत इति ॥१॥ Page #60 -------------------------------------------------------------------------- ________________ ५८ श्रीविनयविजयोपाध्यायविरचिता नैगमः संग्रहश्चैव व्यवहारर्जुसूत्रको। शब्दः समभिरूद्वैवंभूतौ चेति नयाः स्मृताः॥२॥ नैगमेति।नएको गमो विकल्पो यस्य स नैगमः पृथक् पृथक् सामान्यविशेषयोर्ग्रहणात ।१ । संगृ. हाति विशेषान् सामान्यतया सत्तायां क्रोडीकरोति यः सः संग्रहः ।२। वि विशेषतथैव सामान्य अवहरति मन्यते योऽसौ व्यवहारः।३। ऋजु वर्तमानमेव सूत्रयति वस्तुतया विकल्पयति यः स ऋजुसूत्रकः । ४ । इन्द्वे व्यवहारर्जुमूत्रकौ । ४ । काललिङ्गवचनैर्वाचकेन शब्देन समं तुल्यं पर्यायभेदेऽपि एकमेव वाच्यं मन्यमानः शन्दो नयः।५। सं सम्यक्प्रकारेण यथापर्यायैरारूढं अर्थ तथैव भिन्नवाच्यं मन्यमानः समभिरूढो नयः ।६। भूतशब्दोऽत्र तुल्यवाची एवं यथा वाचके शब्दे योव्युत्पत्तिरूपो विद्यमानोऽर्थोऽस्ति तथाभुततत्तुल्याऽर्थक्रियाकारीणमेव वस्तु वस्तुवन्मन्यमान एवं Page #61 -------------------------------------------------------------------------- ________________ नयकर्णिका | ५९ भुतो नयः इन् द्विवचनं इत्यमुना प्रकारेण हे विभो त्वया नयाः स्मृताः स्वागमे कथिता इति शेषः॥ २ ॥ अर्थाः सर्वेऽपि सामान्यविशेषोभयत्मकाः । सामान्यं तत्र जात्यादि विशेषाव विभेदकाः ॥ ३ ॥ अर्थ इति सर्वेऽपि निर्विशेषाः अर्थाः जीवादयः पदार्थाः सामान्यं च विशेषश्च तावेव सामान्यविशेषौ उभौ अवयवौ आत्मा स्वरूपं येषां ते सामान्यविशेषोभयात्मकाः सन्ति नान्यथा इति त्वया प्रति पादितम् । तत्र तयोर्द्वयोर्मध्ये यद्वस्तुनो जात्यादिकं रूपं तत्सामान्यं जातिर्जीवत्व अजीवत्वरूपा सा आदिर्यस्य तत् जात्यादि आदिशब्दात् द्रव्यत्वप्रमेयत्वादयो ग्राह्याः वि विशेषेण भेदकाः पृथक्त्वस्य ज्ञापका ये चेतनत्व अचेतनत्वादयो ऽसाधारणरूपा विशेषधमीस्ते त्वया विभेदकाः विशेषाः प्रोक्ता इत्यर्थः ॥ ३ ॥ ऐक्यबुद्धिर्घटशते भवेत्सामान्यधर्मतः । विशेषाञ्च निजं निजं लक्षयन्ति घटं जनाः४ Page #62 -------------------------------------------------------------------------- ________________ ६. श्रीविनयविजयोपाध्यायविरचिता हे विभो त्वदुक्तसामान्यधर्मतः एकाकारप्रतीतिः एकशब्दवाच्यता सामान्यं जीवत्वघटत्वचेतनत्वादिकं सामान्यमेव धर्मः सामान्यधर्मस्तस्मात् घटशतेऽपि घटानां शतं घटशतं तस्मिन्नपि एका कारा या बुद्धिर्मतिःसा जाता यस्य स ऐक्यबुद्धिरीदृशो जनो भवेत् त्वदुक्तसामान्यधर्मतः घटशते ऽपि घटत्वंलक्षयेदिति भावः। च पुनः विशेषात् त्वदुक्तविशेषधर्मतः जनाः सर्वे नृसुरादयः प्राणिनो निजं निजं वकीयं स्वकीयं रक्तपीतवर्णादिविशेषणविशिष्टं घटं लक्षयन्तीत्यर्थः समुदायमध्येऽपि भेदकलक्षणैर्विभिद्य गृह्णन्ति न मुह्यन्तीति संमोहहारी महांस्तवोपकारः ॥ ४॥ नैगमो मन्यते वस्तु तदेतदुभयात्मकम्। निर्विशेषं न सामान्यं विशेषोऽपि न तद्विना ॥५॥ ___ तदेतत्त्वदुक्तपूर्वो नैगमो नैगमनामा नयः उभयात्मकं वस्तु मन्यते उभौ द्वौ सामान्यविशेषौ Page #63 -------------------------------------------------------------------------- ________________ नयकर्णिका। अवयवौ आत्मा स्वरूपं यस्य वस्तुनस्तदुभयात्मकं तत्तादृग्रूपं वस्तु पदार्थ मन्यते स्वीकरोति । कुतः त्वदाज्ञायां निर्विशेषं सामान्यं न निर्गतो दूरीभूतो विशेषो विशेषणं पर्यायो वा यस्य तन्निर्विशेषं ईदृग् रूपं सामान्यं न विद्यते तद्विना सामान्यं विशेष्यं वा द्रव्य विनारहितो विशेषो न विद्यते ऽतः उभयात्मकं गृह्णाति तर्हि सम्यग्दृष्टिरयमिति चेन्न अयं हि द्रव्यं पर्यायं च द्वयमपि सामान्यविशेषयुक्तं मन्यते ततो नायं सम्यग्दृष्टिरित्यर्थः ॥५॥ संग्रहोमन्यतेवस्तुसामान्यात्मकमेव हि।सामान्यव्यतिरिक्तोऽस्ति न विशेषः खपुष्पवत् ॥६॥ संग्रहः संग्रहनामा नयस्तु सामान्यं द्रव्यसत्तामात्रं जातिमात्रं वा यत्चत्सामान्यं तदेवात्मा स्वरूपं यस्य तत्तथा तहस्तु एव वस्तुतया मन्यते कस्माद्धि यस्मात् सामान्यव्यतिरिक्तः सामान्यात्मथभूतो विशेषो नास्ति न विद्यते तद्विना विशेषः Page #64 -------------------------------------------------------------------------- ________________ ६२ श्रीविनयविजयोपाध्यायविरचिना खपुष्पवत् आकाशकुसुमतुल्योऽस्तीति तवोपदेशो वर्त्तते तस्मात् ॥ ६॥ विना वनस्पति कोऽपि निम्बाम्रादिर्न दृश्यते । हस्तान्तर्भाविन्यो हि नाङ्गुल्याद्यास्ततः पृथक् ॥७॥ __ अस्यैवाभिप्रायं दृष्टान्तेन दृढयन्नाह वनस्पति सामान्याभिधाना या वनस्पतेर्जातिस्तां विना तरुत्वत्यागेन निम्बाम्रादिनिम्बश्च आम्रश्च निम्बाम्रो तावादी यत्र दृग्व्यापारे स निम्बाम्रादिः कोऽपि न दृश्यते दृग्मार्गे नावतरति यत्र यत्र वृक्षे दृग्व्याप्रियते तत्र तत्र वनस्पतित्वमेव दृश्यतेऽतः सामान्यमेव वस्तु एनमेव दृढयति हि यस्माद्धस्तादिष्वङ्गेष्वन्त विन्यः अङ्गुल्यः आदिशब्देन हस्त न्ताक्षिपत्रादीनि यथा ततः हस्ताद्यङ्गतः पृथक् न भवन्ति तथा सामान्यतः पृथक् विशेषोनास्तीत्यर्थः ॥ ७॥ विशेषात्मकमेवार्थ व्यवहारश्च मन्य Page #65 -------------------------------------------------------------------------- ________________ नयकर्णिका। ३ ते। विशेषभिन्नं सामान्यमसत्खरविषाणवत् ॥८॥ ___ व्यवहारश्च व्यवहारनामा नयः विशेषात्मकं पर्यायस्वरूपमेवार्थ पदार्थ मन्यते कक्षीकुरुते कुतः जिनोपदेशे विशेषभिन्नं विशेषात्पृथक्भूतं सामान्यमसत् नास्ति खरविषाणवत् रासभशृङ्गवत् तर्हि विशेषमात्र एव पदार्थः ॥ ८॥ __ वनस्पतिं गृहाणेति प्रोक्ते गृह्णाति कोऽपि किम्। विना विशेषान्नानादीस्तन्निरर्थकमेव तत् ॥ ६ ॥ एनमेवादाहरति यदा केनचिद्वको कश्चिदादिष्टः भो त्वं वनस्पतिं गृहाण इति प्रोक्ते कथिते सति किं कोऽपि निम्बाम्रादीन् विशेषान् विना गृह्णाति न कोऽपि गृह्णाति तत्तस्मात्कारणाद्हणाभावात्तत्सामान्यं निरर्थकं निष्फलमेवेति ॥ ९॥ व्रणपिण्डीपादलेपादिके लोकप्रयो Page #66 -------------------------------------------------------------------------- ________________ ६४ श्रीविनयविजयोपाध्यायाविरचिता जने। उपयोगो विशेषैः स्यात्सामान्ये न हि कर्हिचित् ॥१०॥ __ तथा च व्रणपिण्डी व्रणं मनुष्यादीनां शरीरे प्रहारादिजातक्षतं तस्मै पिण्डी पट्टिकादिकरणं तथा पादलेपः पादलेपकरणं तयोईन्दे आदिपदाच्चक्षुरअनादिके लोकानां जनानां प्रयोजनं कार्य तस्मिन् विशेषैः पर्यायैरुपयोगः साधनं स्याद्भवति सामान्ये सत्तामात्रे सति कर्हिचित्कदाचिदपि न हि कार्यसिद्धिर्भवर्तात्यतो विशेष एव वस्तु ॥ १० ॥ __ ऋजुसूत्रनयो वस्तु नातीतं नाप्यनागतम्।मन्यते केवलं किन्तु वर्त्तमानं तथा निजम् ॥ ११॥ ऋजुसूत्रनयस्तु ऋजुसरलं वर्त्तमानं सूत्रयति सङ्कल्पयतीति ऋजुसूत्रः स चासौ नयश्च नातीतं अतीतः पूर्वानुभूतपर्यायस्तं वस्तुतया न मन्यते तस्य विनष्टत्वात् नापि अनागतं भविष्यभावं तस्या चाप्यनुत्पन्नत्वात किंतु केवलं एकं वर्तमानपर्याय Page #67 -------------------------------------------------------------------------- ________________ नयकर्णिका। तथा निजं स्वकीयं च भावं वस्तुतया मन्यते कार्यकारित्वात् ॥११॥ __ अतीतेनानागतेन परस्कीयेन वस्तुना। न कार्यसिद्धिरित्येतदसद्गगनपद्मवत् ॥ १२॥ कस्मादेवमित्यत आह॥ अतीतो विगतो भावस्तेन अनागतो भविष्यमाणो यो भावस्तेनापि परस्कीयो यथा सामान्यनरस्य पूर्वतनो वा भविष्यत्पुत्रजीवोऽधुना राजपुत्रत्वं प्राप्तः परं सःपरस्कीयस्तेन वस्तुना जिनैः कार्यसिद्धिर्नोक्ता इति कृत्वा एतदतीतानागतपरकीयपर्यायरूपं वस्तु गगनपद्मवदाका. शारविन्दवदसदविद्यमानं मन्यते ॥ १२ ॥ नामादिषु चतुर्वेषु भावमेव च मन्यते। न नामस्थापनाद्रव्याण्येवमग्रेतना अपि ॥ १३॥ अयं ऋजुसूत्रनयः एष्वनन्तरवक्ष्यमाणेषु चतु. र्षु निक्षेपेषु एकं भावनिक्षेपमेव वास्तवं मन्यते Page #68 -------------------------------------------------------------------------- ________________ श्री विनय विजयोपाध्यायविरचिता नामस्थापनाद्रव्याणि न मन्यते तेषां परकीयत्वादनुत्पन्नविनष्टत्वाच्च तत्र नाम वक्तुरुल्लापरूपं वा गोपालदारकादिषु गतमिन्द्राभिधानं परकीयं स्थापना चित्रपटादिरूपा परकीया द्रव्यं पुनर्भाविभावस्य कारणं तच्चानुत्पन्नं भूतभावस्य कार गं तु विनष्टं एवमग्रेतनाः शब्दादयस्त्रयो नयाः भावनिक्षेपमेव स्वीकुर्वन्तीत्यर्थः ॥ १३ ॥ ६६ अर्थ शब्दनयोऽनेकैः पर्यायैरेकमेव च । मन्यते कुम्भकलशघटाद्येकार्थवा चकाः ॥ १४ ॥ शब्दनामा नयः शब्दः पुंस्त्रीनपुंसकाद्यभिधायकोल्लापस्तत्प्रधानों नयः शब्दनयः स अनेकैः शब्द पर्यायैरुक्तोऽपि अर्थ वाच्यं पदार्थमेकमेव मन्यते कुतः हि यस्मात् कुम्भः कलशो घटः एते शब्दाः सर्वदर्शिभिर्जिनैरेकस्य घटाख्यपदार्थस्य वाचकाः कथितास्ततः सिद्धमने कैः पर्यायैरुक्तोऽन्यभिधेय एक एवेत्यर्थः ॥ १४ ॥ Page #69 -------------------------------------------------------------------------- ________________ नयकर्णिका। - ब्रूते समभिरूढोऽर्थ भिन्नंपर्यायभेदतः। भिन्नार्थाः कुम्भकलशघटा घटपटादिवत् ॥ १५॥ समभिरूढः समतिशयेन व्याकरणव्युत्पत्त्याचारूढमेवार्थमभिमन्वानः समभिरूढोनयः पर्यावभेदतः पर्यायशब्देन भेदः पर्यायभेदस्तस्मात् भिन्नं पृथग्भूतमेवार्थ वाच्यं ब्रूते मन्यते कुतो वर्द्धमानखामिना कुम्भकलशघटशब्दाः भिन्नार्थाः पृथग् अर्थवाचकाः कथिताः यथाकुम्भनात्कुम्भः कलनात्कलशो घटनात् घटस्ततः सिद्ध शब्दभेदे वस्तुभेदो घटपटादिवत् ॥ १५ ॥ __ यदि पर्यायभेदेऽपि न भेदो वस्तुनो भवेत्। भिन्नपर्याययोर्न स्यात् स कुम्भपटयोरपि ॥ १६॥ ___ यदिशब्दपर्यायभेदेऽपि वस्तुनः पदार्थस्य भेदोन भवेन्नजातस्तर्हि भिन्नः पर्यायः शब्दो ययोस्तौ भिन्नपर्यायौ तयोः कुम्भपटयोरपि स भेदोन स्यादित्यर्थः॥ Page #70 -------------------------------------------------------------------------- ________________ श्रीविनयविजयोपाध्यायविरचिता एकपर्यायाभिधेयमपि वस्तु च मन्यते । कार्य स्वकीयं कुर्वाणमेवंभूतनयो ध्रुवम् ॥ १७ ॥ एवम्भूतनामा नयः एकपर्यायाभिधेयमपि एकएव यः पर्यायः शब्दः स एकपर्याय एकशब्दस्तेनाभिधेयमपि वस्तु वाच्यम्। च पुनः विद्यमानं भावरूपमपि ध्रुवं निश्चयेन स्वकीयमात्मीयं कार्यं निजार्थक्रियां कुर्वाणं पश्यति तदैव तद्वस्तु वस्तुवन्मन्यते नान्यदा अर्थक्रियाकारि सदिति जिनोपदेशो वर्त्तते अतो यत् स्वार्थक्रियाकारि तदेव वस्त्वित्यर्थः ॥ १७॥ यदि कार्यमकुर्वाणो ऽपीष्यते तत्तया स चेत् । तदा पटेऽपि न घटव्यपदेशः किमिष्यते ॥ १८ ॥ ६८ यदि स पदार्थस्तदा तस्मिन् काले कार्यमकुर्वा - णोऽपि स्वार्थक्रियामकुर्वन्नपि चेत्तत्तया वस्तुतया इष्यते ऽभ्युपगम्यते भवान् तर्हि पटेऽपि घटव्यपदेशो घटशब्दवाच्यता कथं नेष्यते कस्मान्न इच्छा Page #71 -------------------------------------------------------------------------- ________________ नयकर्णिका। विषयीक्रियते किमत्रापराधः यथा स्वार्थक्रियामकुर्वाणो घटो घटत्वव्यपदेशभाग्भवति तथा घटक्रियाऽभाववत्पटोऽपि घटो भवतु खकार्यकरणाभाव उभयत्रापि समानत्वादित्यर्थः ॥ १८॥ ___यथोत्तरविशुद्धाः स्युर्नयाः सप्ताप्यमी तथा। एकैकः स्याच्छतं भेदास्ततः सप्तशताप्यमी ॥ १६ ॥ अमी साक्षादुक्तपूर्वाः सप्तापि सप्तसंख्याका अपिः समूच्चयार्थः नयाः यथोत्तरविशुद्धाः यथा २ उत्तराः उपर्युपरिवर्त्तते तथा २ विशुद्धा ये ते यथोत्तरविशुद्धाः स्युर्भवन्ति। तथा एकैकः एकश्च एकश्च एकैकः नयः शतं शतप्रमाणं भेदः । प्रकारदः स्याद्भवति । ततो अमी नयाः सप्तशतसंख्याका अपि भवन्तीत्यर्थः ॥ १९॥ __ अथैवंभूतसमभिरूढयोः शब्दएव चेत्।अन्तर्भावस्तदा पञ्च नयपञ्चशतीभिदः ॥ २० ॥ Page #72 -------------------------------------------------------------------------- ________________ ७. श्रीविनयविजयोपाध्यायविरचिता ___ अथ चेत् यदि । एवम्भूतसमभिरूढयोः एवं. भूतश्च समभिरूढश्च तौ तथा तयोईयोः शब्दे शब्दनयेऽन्तर्भावो भवेत् तदा एवेत्यवधारणात् पञ्च नया भवन्ति तदा पञ्चशतीतिभिदः पञ्चानां शतानां समाहारः पञ्चशती भिद्यन्ते आभिस्ता भिदः पञ्चशती चता भिदश्चेति तथा नयानां भवन्तीत्यर्थः॥२०॥ द्रव्यास्तिकपर्यायास्तिकयोरन्तर्भवन्त्यमी । आदावादिचतुष्टयमन्त्येचान्त्याऽस्त्रयस्ततः ॥२१॥ - अमी सप्तापि नयाः द्रव्यास्तिकपर्यायास्तिकयोरन्तर्भवन्ति द्रव्यमेवास्तितया प्ररूपयन् द्रव्यास्तिकः पर्यायं भावमेवास्तितयाऽभिदधत् पर्यायास्तिकः द्रव्यास्तिकश्च पर्यायास्तिकश्च तौ तथा तयोईयोर्मध्येऽन्तर्भवन्त्यवतरन्ति आदौ द्रव्यास्तिके आदिचतुष्टयं नैगमादिचत्वारो भवन्ति अन्ते भवोत्यस्तस्मिन्नन्त्ये पर्यायास्तिके अन्त्यास्त्रयः शब्दाद्याः भवन्तीत्यर्थः ॥ २१॥ सर्वे नया अपि विरोधतो पिथस्ते Page #73 -------------------------------------------------------------------------- ________________ नयकर्णिका। ७१ सम्भूय साधुसमयं भगवन् भजन्ते । भूपा इव प्रतिभटाभुवि सार्वभौमपादाम्बुजं प्रधनयुक्तिपराजिता द्राक्॥ हे भगवन् हे श्रीवईमानस्वामिन् मिथः परस्परं विरोधभृतोऽपि विरोधो विरुद्धाऽभिप्रायस्तं बिभ्रति धारयन्ति येते तथा विधाः सर्वे समस्ताअपि नयाः सम्भूय एकीभूय साधुसमीचीनं सुन्दरं ते तव समयं सिद्धान्तं भजन्ते सेवन्ते कं के इव भुवि प्रधनयुक्तिपराजिना भुवि पृथ्व्यां प्रधनाय युद्धाय युक्तिः प्रबलपुण्यबलेना पूर्वसैन्यरचना तया पराजिताः पराजयं प्राप्ताः प्रतिभटाः विपक्षजेतारो भूपाः द्राक्शीघ्रं सर्वा परिपूर्णषट्खण्डभूमीभोग्या यस्य स सार्वभौमश्चक्रवर्ती तस्य पादाम्बुजं चरणकमलमिवेत्यर्थः ॥ २२ ॥ इत्थं नयार्थकवचः कुसुमैर्जिनेन्दुवीरोऽचिंतः सविनयं विनयाभिधेन। श्रीद्वीपबन्दरवरे विजयादिदेवसूरी Page #74 -------------------------------------------------------------------------- ________________ ७२ श्रीविनयविजयोपाध्यायविरचिता शितुर्विजयसिंहगुरोश्च तुष्टयै ॥२३॥ नयकार्णिका समाप्ता। इत्थं पूर्वोक्तप्रकारेण नयानामर्थो नयार्थः सोऽस्ति येषां तानि नयार्थकानि नयार्थकानि च तानि वांसि चेति तान्येव कुसमानि पुष्पवृन्दं तैर्नयार्थकवचः कुसुमैः जिनश्वासौ इन्दुश्च जिनेन्दुर्जिनचन्द्रो वीरो वर्द्धमानस्वामी विनयेन सहितो यथा स्यात्तथा स विनयं भूत्वा विनयाभिधेन विनयविजयेति नामकेन मया अर्चितः पूजितः कुत्र कस्मै श्रिया युक्ते द्वीपाख्यबन्दरवरे जलधितटवर्तिनगरश्रेष्ठे यस्य नाम्नि विजयपदमादौ वर्त्तते स तथा विजयदेवसूरिस्तस्य सूरीशितुः शिष्यो विजयसिंहो यो मद्गुरुस्तस्य तुष्टयै सन्तुष्टिकरणाय वीरविभुः पूजित इत्यर्थः ॥ २३ ॥ वृद्धिविजयशिष्येण गम्भीरविजयेन च । टीका कृतेयं कृतिभिर्वाच्यमानास्तु शंकरी ॥१॥ इति मयकार्णिका समाप्ता । Page #75 -------------------------------------------------------------------------- ________________ ॥ अर्हम् ॥ श्रीजयानन्दसूरीश्वरविरचित साधारणजिनस्तवः। देवाः प्रभो यं विधिनाऽऽत्मशुद्ध्यै भक्त्याः सुमेरोः शिखरेऽभ्यषिञ्चन्। संस्तूयसे त्वं स मया समोद मुन्मील्यतेज्ञानदृशा यथा मे ॥१॥ व्याख्या । पदानि-देवाः १३ प्रभो ११ यं २१ विधिना ३१ आत्मशुद्यै ४१ भक्त्याः ५१ सुमेरोः ६१ शिखरे ७१ अभ्यषिञ्चन् संस्तूयसे त्वं ११ स११ मया ३१ समोदं २१ उन्मील्यते ज्ञानदृशा ३१ यथा ११ मे६१॥१॥ हे प्रभो हे स्वामिन् ! स त्वं मया समोदं सहर्ष तथेति शेषः कर्मण्युक्तिः १ यथा मे मम ज्ञानदृशा उन्मील्यते इयंभावोक्तिः२ संपूर्वकः टुत्रस्तुतौ वर्तमाना से क्य दीर्घश्व, संस्तूयसे, उत्पूर्वकः Page #76 -------------------------------------------------------------------------- ________________ ७४ श्रीजयानन्दसूरीश्वरविरचितः । मील निमेषणे वर्त्तमाना ते क्य दीर्घश्च उन्मील्यते, ज्ञानमेव दृग् ज्ञानदृग्तया ज्ञानदृशा स कः यं त्वां देवाः अभ्यषिश्चन् अभिषेकं चक्रुः, इयं कर्त्तयुक्तिः अभिपूर्वकः षिश्चीत् क्षरणे ह्यस्तनी अन् अट् नुमागमश्च अभ्यषिञ्चन् केन विधिना तन्त्रोक्तविधिना कस्मिन् शिखरे शृङ्गे कस्य सुमेरोः रत्नसानोः शोभनो मेरुः सुमेरुस्तस्य कस्याः भक्त्याः कस्यै आत्मशुद्यै आत्मनां शुद्धिरात्मशुद्धिस्तस्यै । व्याख्यातं प्रथमं काव्यमुक्तित्रयसहितम् ॥ १ ॥ ध्यानानुकम्पाधृतयः प्रधानो लासिस्थिरा ज्ञानसुखतमं च । सुनाथ सन्ति त्वयि सिदिसौधा धिरूढ कर्मोभित विश्वरुच्य॥२॥ अथ समासः । ध्यानानुकम्पाधृतयः १३ प्रधानोल्लासिस्थिरा १३ ज्ञानसुखक्षम ११ च ११ सुनाथ ११ सन्ति त्वयि ७१ सिद्धिसौधाधिरूढ ११ कर्मो Page #77 -------------------------------------------------------------------------- ________________ साधारणजिनस्तवः। ज्झित ११ विश्वरुच्य ११ समासलक्षणं समनामविग्रहाच्चकारैर्द्वन्द्वः समासः स्यात् उभयपदप्रधानो द्वन्द्वः यस्य क्रियाऽभिसम्बन्धस्तस्य प्राधान्यं सच द्विविधः इतरेतरद्वन्द्वः १ समाहारद्वन्द्वः२ च। पूर्वस्मिन् द्विवचन बहुवचनं वा कचिदेकवचनमपि यथा एकश्च विंशतिश्च एकविंशतिर्घटानां वा अत्र लिङ्गं तु पुरोवर्त्तमानलिङ्गापेक्षं प्रायो अश्वश्च वडवा च अश्ववडवौ अश्ववडवा इति १ समाहारे तु क्लीबत्वमेकवचनं च १ सारस्वते तु इतरेतरयोगे द्विवचनं नतु बहुवचनं यथा घटश्च पटश्च घटपटौ क्वचिदेकवचनमपि यथा एकविंशतिः लिङ्गं तु पुरो वर्तिशब्दापेक्षं समाहारे तु एकवचनं बहुवचनं च अवयवार्थप्राधान्यविवक्षायां बहुवचनं लिङ्गं तु पुरोवर्तिशब्दापेक्षं समुदायार्थप्राधान्यविवक्षायामेंकवचनं क्लीबलं चेति । व्याख्या । हे सुनाथ हे सिद्धिसौधाधिरूढ हे कम्र्मोज्झित हे विश्वरुच्य ! त्वयि ध्यानानुकम्पाधृतयः सन्ति किं लक्षणाः ध्या Page #78 -------------------------------------------------------------------------- ________________ श्रीजयानन्दसूरीश्वरविरचितः । नानुकम्पाधृतयः प्रधानोल्लासिस्थिराः च पुनः त्वयि ज्ञानसुखक्षममस्तीति शेषः ध्यानं च अनुकम्पा च धृतिश्च ध्यानानुकम्पाधृतयः अयं केवलविशेष्यैरित रेतरद्वन्द्रः प्रधानं च उल्लासिनी च स्थिरा च प्रधानोल्लासिस्थिरा इति केवलविशेषणैरितरेतरद्वन्द्वः १ ज्ञानं च सुखं च क्षमा च ज्ञानसुखक्षमं । तदयं समाहारे द्वन्द्वः २ उक्तो द्वन्द्वः अथ तत्पुरुषलक्षणं तत्पुरुषे पूर्वपदे सप्तापि विभक्तयः उत्तरपदे प्रायः प्रथमा उत्तरपदप्रधानश्च क्वचिदुत्तरपदे ऽपि सप्तमा विना सर्वा अपि विभक्तयः अन्यपदार्थप्रधानत्वं च शोभनो नाथः सुनाथः तस्य सम्बोधनं क्रियते हे सुनाथ | एवं सर्वत्र इति पूर्वपदे प्रथमातत्पुरुषः सिद्धिरेव सौधं सिद्धिसौधं सिद्धिसौधमधिरूढः सिसौधाधिरूढस्तस्य सम्बोधने हे सिद्धिसौधाधि - रूढ इति पूर्वपदे द्वितीयातत्पुरुषः कर्म्मणा उज्झितः कर्मोज्झितस्तस्य सं० इति पूर्वपदे तृतीयातत्पुरुषः विश्वस्मै रुच्यः विश्वरुच्यस्तस्य सम्बो० पूर्वपदे चतुर्थी तत्पुरुषः इति द्वितीयवृत्तार्थः ॥ २ ॥ ७६ Page #79 -------------------------------------------------------------------------- ________________ साधारणजिनस्तवः । ७७ संसारभीतं जगदीश दीनं ___ मारत रक्षाक्षम रक्षणीयम् । प्रौढप्रसादं कुरु सौम्यदृष्ट्या विलोकय स्वीयवचश्च देहि ॥३॥ संसारभीतं २१ जगदीश ११ दीनं २१ मा २१ रक्ष रक्षाक्षम ११ रक्षणीयं२१ प्रौढप्रसाद२१ कुरु सौ म्यदृष्ट्या ३१ विलोकय स्वीयवचः २१ च ११ देहि। व्याख्या। हं जगदीश हे रक्षाक्षम ! त्वमिति शेषः मां रक्ष किं लक्षणं मां संसारभीतं पुनः किं ल• मां दीनं पुनः किं. मां रक्षणीयं संसाराहीतः संसारभीतः तं इति पञ्चमीतत्पुरुषः जगतामीशो जग. दीशस्तस्य सम्बोधनं इति षष्ठीतत्पुरुषः रक्षायां क्षमो रक्षाक्षमस्तस्य सम्बो इति सप्तमी तत्पुरुषः उत्तरपदे सप्तमी विना सर्वा विभक्तयो यथा प्रगत आचार्यः प्राचार्यः ११ अतिक्रान्तः खट्वां अतिखट्वः २१ अवक्रुष्टः कोकिलया अवकोकिलः ३१ परिग्लानो अध्ययनाय पर्यध्ययनः ४१ निर्गतः कौशांब्याः Page #80 -------------------------------------------------------------------------- ________________ ७८ श्रीजयानन्दसूरीश्वरविरचितः । निःकौशांबिः ५१ अन्तर्गाय॑स्य अन्तर्गार्ग्यः ६१ प्राचार्यादयो नित्यसमासाः अस्वपदविग्रहत्वात् कुंभ करोतीति कुम्भकारः इति कृदन्तेन तत्पुरुषः नगौः अगौरिति नञ्तत्पुरुषः इत्यादिविशेषो ज्ञेयः। उक्तस्तत्पुरुषः । अथ कर्मधारयलक्षणं । अन्तरस्थाभ्यां अदस्तच्छब्दाभ्यां द्वाभ्यां चकाराभ्यां विशेषणैस्सह विशेष्यं कर्मधारयः समस्यते। उत्तरपदप्रधानः कर्मधारयः। पूर्व विशेषणपदं अग्रे विशेष्यपदं त्रिषुलिङ्गेषु । चहे रक्षाक्षम त्वं प्रौढप्रसादं कुरु हे मुनीश त्वं सौम्यदृष्ट्या विलोकय हे अनन्तज्ञान त्वं स्त्रीयवचो देहि प्रौढश्चासौ प्रसादश्च प्रौढप्रसादस्तं प्रौढप्रसादं इति पुंलिङ्गेन १ सौम्या चासौ दृष्टिश्च सौम्यदृष्टिस्तया पुंवद्रावइति म्याम्य इति स्त्रीलिङ्गेन २ स्वीयं चतद्वचश्व स्वीयवचस्तत् इति नपुंसकेन कर्मधारयः ३ । अथ बहुव्रीहिः । प्रायोविशेषणैर्विशेष्यं यच्छब्देन समस्तः सन् अन्य विशेषणं यत्र भवेत्सोयं समासो बहुव्रीहिः । प्रायो बहुव्रीहिरन्यपद Page #81 -------------------------------------------------------------------------- ________________ साधारणजिनस्तवः। ७९ प्रधानः द्वितीयाद्याः षट् विभक्तयो यच्छब्दे स्युः अन्यशब्दत्वात्तालिङ्गवचने भवतः ॥ ३ ॥ नतेन्द्र विद्रावितदोष दत्त दाना दरिद्रा अपि वीतदौस्थ्याः । त्वया कृता भूरिधना अनन्त ज्ञान द्विषान् सक्षम मंतुमासान्॥४॥ नतेन्द्र ११ विद्रावितदोष ११ दत्तदाना १३ दरिद्रा १३ अपि ११ वीतदौस्थ्याः १३ त्वया ३१ कृता१३ भूरिधना १३ अनन्तज्ञान ११ द्विषान् २३ सक्षम११ मंक्षुमासान् २३हेनतेन्द्र हे विद्रावितदोष हे अनन्तज्ञान हे सक्षम ! त्वया दरिद्रा अपि जनाः मंक्षु शीघ्रं भूरिधनाः कृताः, कृता इति क्रियापदं केन का त्वया के कर्मतापन्ना जनाः किं लक्षणा जनाः वीतदौस्थ्या वीतं दौस्थ्यं येभ्यस्ते वीतदौस्थ्याः पुनः किं लक्षणा जना दत्तदाना दत्वं दानं येभ्यस्ते दत्तदानाः कान्कर्मतापन्नान्मासान् द्विषान् नता इन्द्रा यं Page #82 -------------------------------------------------------------------------- ________________ श्रीजयानन्दसूरीश्वरविरचितः । सनतेन्द्रस्तस्य सम्बो. हे नतेन्द्र इति बहुव्रीहि प्रथमोभेदः । विद्राविता दोषा येन स विद्रावितदोषस्तस्य सम्बोधनं हे विद्रावितदोष । इति बहुव्रीहिद्वितीयो भेदः । दत्तं दानं येभ्यस्ते दत्तदाना इति तृतीयभेदः । वीतं दौस्थ्यं येभ्य इति चतुर्थोभेदः । भूरि धनं विद्यते येषां ते भूरिधनाः इति पञ्चमोभेदः । अनन्तं ज्ञानं यस्मिन् स अनन्तज्ञानस्तस्य सं० इति षष्ठोभेदः । वारार्थे विकल्पार्थे च प्रथमान्तं संख्यावाचि पदद्वयं स्यात् सोपि प्रायोवचनाद्बहुव्रीहिःस्यात् यथा द्वौ वारौ षट् द्विषास्तान्द्विषानिति वारार्थे बहुव्रीहिः विकल्पार्थे ऽग्रे वक्ष्यति सहशब्दस्तृतीयान्तेन समस्यान्यविशेषणे बहुव्रीहिर्यथा सह क्षमया वर्त्तते यः स सक्षमः तस्य सं० ॥ ४ ॥ ८० द्वित्रैर्भवैर्मुक्तिमना द्विपाद्यास्तव त्रिपूजीं विदधत्रिसन्ध्यम् । कल्याणकानां जिन पंचपबमाराध्य भव्यः क्षिपतेऽष्टकर्म ॥५॥ Page #83 -------------------------------------------------------------------------- ________________ साधारणजिनस्तवः। द्वित्रै ३३ भवै ३३ मुक्तिमना ११ द्विपाद्या ६१ स्तव ६१ त्रिपूजी २१ विदधत् २१ त्रिसन्ध्यं २१ कल्याणकानां ६३ जिन ११ पञ्चपर्वी २१ माराध्य ११भव्यः ११ क्षिपतेऽटकर्म २१॥ व्याख्या। हे जिन भव्योऽष्टकर्म क्षिपते क्षिपतेति क्रियापदं कः कर्त्ता भव्यः किं कर्मतापन्नमष्टकर्म कैर्भवैः किं लक्षणो भव्यः मुक्तिमनाः किं कृत्वा आराध्य का कर्मतापन्नां पञ्चपी केषां कल्याणकानां भव्यः किं कुर्वन् विदधत् कां कर्मतापन्नां त्रिपूजी कस्या द्विपाद्याः कस्य तव कथं त्रिसन्ध्यं यथास्यात्तथा द्वौ वात्रयो वा द्वित्राः तैत्रैिः इति विकल्पार्थे बहुव्रीहिनवमो भेदः ९ मुक्तौ मनो यस्य समुक्तिमनाः अयं व्यधिकरणत्वाद् बहुव्रीहिदशमो भेदः।अत्रानुक्तोपि बहुव्रीह्येकादशोभेदः । यथा दक्षिणस्याः पूर्वस्याः दिशोर्यदन्तरालं सा दक्षिणपूर्वा एवं दक्षिणपश्चिमा पश्चिमोत्तरा उत्तरपूर्वा एवमेकादेशभेदो बहुव्रीहिः प्रोक्तः। अथद्विगुसमासलक्षणं द्विगौ समासे आदौ संख्या Page #84 -------------------------------------------------------------------------- ________________ ८२ श्रीजयानन्दसूरीश्वरविरचितः । वाचिपदं विशेषणभूतं अग्रे विशेष्यभूतं च भवति पदद्वयमपि षष्ट्यन्तं समाहारशब्देन समस्यते नपुंसकलिङ्गं वा एकवचनान्तं च स्यात्पुंल्लिङ्गं तु न स्यादेवेति। उत्तरपदप्रधानो द्विगुः अकारान्ते नित्यं की। अन्नन्ते आवन्ते तु विकल्पेन डी। शेषसर्वनामस्वरान्ते व्यञ्जनान्ते च नपुंसकम्। द्वयोः पदयोः समाहारः हिपादी तस्याद्विपाद्याः अत्राकारान्ताच्छब्दानित्यं डीः। तिसृणां पूजानां समाहारः त्रिपूजी तां त्रिपूजी पक्षे त्रिपूजं अत्राबन्ताहिकल्पेन डीः। तिसृणां सन्ध्यानां समाहारस्त्रिसन्ध्यं त्रिसन्ध्यस्य कीबलमेव पश्चानां पर्वणां समाहारः पञ्चपर्वी तां पश्च. पर्वी अत्रानन्ताहिकल्पेन डीः पक्षे पञ्चपर्व अष्टानां कर्मणां समाहार अष्टकर्म अत्रान्नन्ताद्विकल्पेन ङीः। पक्षेऽष्टकर्मी ॥ ५॥ साम्येन पश्यस्त्रिजगद्विवेकी श्रयन् प्रभो पंचसमित्युपैति। अपास्य सप्तभ्यधिसिद्धि मध्ये Page #85 -------------------------------------------------------------------------- ________________ साधारणजिनस्तवः । सिद्धं जवेनोपभवादुपेशम् ॥६॥ साम्येन ३१ पश्यन् ११ त्रिजगत् ११ विवेकी ११ श्रयन् ११ प्रभो ११ पञ्चसमिति ११ उपैति अपास्य ११ सप्तभ्य २१ घिसिद्धि २१ मध्ये सिद्ध २१ जवेन ३१ उपभवात् ५१ उपेशम् २१॥ व्याख्या ॥ हे प्रभो ! विवेकी उपेशं उपैति उपैतीति क्रियापदं कः कर्ता विवेकी किं कर्मतापन्नमुपेशं केन जवेन कस्मादुपभयात् विवेकी किं कुर्वन् पश्यन् किं कर्मतापन्नं त्रिजगत् केन साम्येन पुनः किं कुर्वन् श्रयन् किं कर्मतापन्नं पश्चसमिति किं कृत्वा अपास्य किं कर्मतापन्नं सप्तभि किं लक्षणमुपेशं अधिसिद्धि पुनः किं लक्षणं मध्यसिद्ध त्रयाणां जगतां समाहारस्त्रिजगत् अत्र व्यञ्जनान्तेन नपुंसकत्वं विवेको विद्यते यस्य स विवेकी पञ्चाना समितीनां समाहारः पश्चसमिति सप्तानां भीनां समाहारः सप्तभि अत्रेकारान्तेन नपुंसकत्वं अस्य विशेषो यथा त्रयाणां भुवनानां समाहारस्त्रिभुवनं एवं द्विपात्रं त्रिमासं Page #86 -------------------------------------------------------------------------- ________________ ८४ श्रीजयानन्दसूरीश्वरविरचितः । चतुर्युगं द्विपथं त्रिपथं चतुष्पथं त्रिपुरं इत्यादौ पात्रा. दिगणत्वात् नपुंसकत्वेन छीः । अथाव्ययीभावसमासलक्षणम्। उपायव्ययं पूर्व पूर्वपदं भवति अमन्तं चोत्तरपदं भवति यतःसर्वविभक्तीनामकारान्तात् प्रायोऽमादेशः पञ्चमी विना अकारान्तशब्दाहिना अन्यस्वरान्तव्यञ्जनान्तशब्दभ्यो विभक्तिलोप एव स्यान्नपुंसकत्वं च । यथा सिद्धिमधिकृत्य भवतीति अधिसिद्धि अत्रेकारान्ताद्विभक्तिलोपो नपुंसकत्वं सिद्धानां मध्ये मध्यसिद्ध। यथा गङ्गायाः पारे पारेगङ्गं सभायामध्ये मध्येसभं वृक्षस्याग्रे अग्रवृक्षं अत्रा. कारान्तादमादेशः भवस्य समीपे उपभवं तस्मात् अत्र चामादेशः पञ्चमीवर्जनात् ईशस्य समीपं उपेशं अत्राकारान्तादमादेशः ॥ ६ ॥ भवेच्छुभायोपभवद्यथेष्टं श्रये सनाथोस्मि नमोस्तु दोषाः । दूरे प्रभावश्च गुरुः सुखं मे विश्वाच॑धीश्रीकृदुपद्विपादे॥७॥ Page #87 -------------------------------------------------------------------------- ________________ साधारणजिनस्तवः ।। भवेच्छुभाय ४१ उपभवत् ११।२१।३१।४११५१ । ६११७१। यथेष्टं २१ श्रये सनाथो ११ ऽस्मि नमो ११ स्तु दोषाः१३ दूरे ७१ प्रभावश्च११ गुरुः११सुखं १२ मे विश्वार्यधीश्रीकृदुपहिपादे ७ ॥ व्याख्या ॥ हे विश्वाWधीश्रीकृदुपद्विपादे भवतः समीपं उपभवत्तत् शुभाय भवेत्। भवेदिति क्रियापदं किं कर्तृ उपभवत् कस्मै शुभाय अत्र प्रथमा ११ लोपः भवतः समीपं उपभवत्तत् अहं श्रये कथं यथेष्टं इष्टस्यानतिक्रमेण यथा स्यात्तथाऽत्र द्वितीया२१ भवतःसमीपं उपभवत्तेनाहं सनाथोस्मि अत्र तृतीया ३१ भवतः समीपं उपभवत्तस्मै नमोऽस्तु अत्र चतुर्थी ४१ । एवं उपभवत् तस्मात् दोषा दूरे अत्र पञ्चमी ५१ लोपः उपभवत् तस्य गुरुःप्रभावः अत्र षष्ठी६१लोपःभवतः समीपमुपभवत्तस्मिन्मे मम सुखं अत्र सप्तमी७१लोपः इति व्यञ्जनशब्दात्सर्वविभक्तिलोपो दर्शितः। उक्तं च विस्तरेण समासषट्कं । अथसंक्षेपेण विशेषि तत्पुरुष सहितं समासषट्कोदाहरणं यथा धीश्च श्रीश्च धी Page #88 -------------------------------------------------------------------------- ________________ ८६ श्रीजवानन्दसूरीश्वरविरचितः । श्रियौ इति द्वन्द्वः विश्वेना] इति विश्वार्थेति तत्पुरुषः विश्वार्थे च ते धाश्रियौ च इति कर्मधारयः विश्वाय॑धीश्रियौ करोतीति विश्वाच॑धीश्रीकृत इति कृदन्तेन तत्पुरुषः। द्वयोः पादयोः समाहारो द्विपादी अत्राकारान्तात् ङीः। इति द्विगुः। द्विपाद्याः समीपं उपद्विपादि। इत्यव्ययीभावः । विश्वाच॑धीश्रीकृदुपद्विपादिर्यस्य स विश्वाच॑धीश्रीकृदुपद्विपादिः। इति बहुव्रीहिः। तस्य संबोधनं क्रियते हे विश्वाय॑धीश्रीकृदुपद्विपादे ॥ ७ ॥ इत्युक्ताः समासाः ॥ मुक्त्वा भवं सौख्यमवाप्तुमङ्गी धीमांस्त्यजन्मोहमघस्य हन्ता। यो मुच्यमानस्तमसा शिवीयेत् त्वत्सेविता काम्यतु सौत्र नेतः॥८॥ अथ प्रत्ययाः । मुक्त्वा ११ भवं २१ सौख्यं २१ अवाप्तु ११ मङ्गी ११ धीमां११स्त्यजन् ११ मोह२१ मघस्य ६१ हंता यो ११ मुच्यमानः ११ तमसा ३१ Page #89 -------------------------------------------------------------------------- ________________ साधारणजिनस्तवः। शिवीयेत् त्वत्सेविताकाम्यतुसौत्र नेतः११॥ व्याख्या हे नेतः हे स्वामिन् ! अत्र जगतियोगीभव्यः सत्वः त्वत्सविता काम्यतुस कः यो भवं मुक्त्वा सौख्यमवाप्तुं मोहं त्यजन् अघस्य पापस्य हन्ता तमसा मुच्यमानः शिवीयेत् किं लक्षणोड़ी धीमान्।मुंकी लेई इत्यादिवाक्ये यत्र ईकारो जल्प्यते तत्र पूर्वकाले का उपसर्गे सति त्वा प्रत्ययस्य यप् स्यात्। अस्य कर्मणि द्वितीया मोचनं पूर्वमुक्त्वा नतु क्त्वातुम् भावे इति सूत्रेण क्त्वाप्रत्ययो भावे विधीयते तत्र च कर्म न, स्यादिति कथमुक्तं कर्मणिद्वितीयेत्युच्यते । सकर्मकाणामुत्पन्नास्त्यादिर्भावविवक्षया। अपाकरोति का थै स्वभावान्न पुनःकृतः१ ईकारे सत्यपि यत्र ज्ञाशकधात्वर्थो योज्यते तत्र तुमेव नतु क्त्वा अयं दानं दातुं वेत्ति, तपः कर्तुं च शक्नुयादिति ११॥सुखस्य भावः सौख्यं अत्र भावे घ्यणप्रत्ययः। भावे विहिताः प्रत्ययाः अन्येऽप्यत्र ज्ञातव्याः। तव्य१अनीयर य३क्यप्४क्त ५ आन ६ अनट ७ अन ८ खल् ९ जिन् १० व ११ Page #90 -------------------------------------------------------------------------- ________________ ८८ श्रीजयानन्दसूरीश्वरविरचितः । य१२ एयण १३ अञ् १४ अण १५ अकण १६ ईय १७ त्व१८ तल् १९ ईमन् २०। उदाहरणान्येषाम् । एतव्यं १ स्थापनीयं २ देयं ३ कृत्यं ४ शयितं ५ पेचानं ६ निर्वाणं ७ ईषत्स्थानं ८ दुर्भव ९ समन्ताहावः१० तद्वं१२ सख्यं१३कापेयं १४ द्वैपं१५ चापलं १६ आचार्यकं १७ होत्रीय १८ ब्रह्मत्वं १९शुक्लता२० शुक्लिमा २१ अथवा सुखानां समूहः सौख्यं अत्र समूहार्थे ण्यः। अन्येऽपि समूहार्थे । यथा अपर अकञ् ३ इकण ४ य ५ ईय ६ इण ७ अञ् ८ एयञ्९ तल् १० कट्यल्११ ल्य १२ ऊल १३॥ एषामुदाहरणानि । भैक्षं राजकंर हास्तिकं ३ ब्राह्मण्यं ४ अश्वीयं ५ पार्श्व ६ शौचं७ पौरुषेयं ८ ग्रामता। रथकट्या ९ वात्या१० वातूलः अवापनाय अवाप्तुं अत्र तुम्प्रत्ययः पामबुं करवू इत्यादौ वाकार यत्र उच्यते तत्र उत्तरकाले तुम् अस्य कर्मणि द्वितीया। अङ्गानि विद्यन्ते यस्य स अङ्गी अस्त्यर्थे इन्प्रत्ययः अका. रान्ताच्छब्दादिन्प्रत्ययः धीरस्यास्तीति धीमान् अ. Page #91 -------------------------------------------------------------------------- ________________ साधारणजिनस्तवः। त्रास्त्यर्थे मतुप्रत्ययः अस्त्यर्थे सर्वशब्देभ्यो मतुप्रत्ययः स्यादत्रान्येऽप्यस्त्यर्थे। यथा यशस्वी मायावी अत्र विन्प्रत्ययः । प्रज्ञाल अत्र लप्रत्ययः। प्रजिल अत्र इलप्रत्ययः कृषीबल अत्र बलप्रत्ययः इत्यादि। त्यजतीति त्यजन् अत्र शतृप्रत्ययः शत्रानशौ वर्तमाने काले स्तः। समानकालयोः क्रियायाः पुरतःतत्कतरि या विभाक्तिः यल्लिङ्गं यद्वचनं विभक्तिलिङ्गवचनानि शत्रानशोः पुरो भवन्ति । हन्तीति हन्ता अत्र तृप्रत्ययः। हणनहार देणहार इत्यादौ वाक्ये णकतृचौयथा कर्तरि विभत्यादिकं तथात्राप्यस्य कर्मणि षष्ठी स्यात्। मुच्यते इति मुच्यमानः अत्रानशप्रत्ययः यत्र ईतुंईजतुं इत्यादि प्राकृतवचने दृश्यते संस्कृते चयमान इति दृश्यते तत्रानशप्रत्ययःअस्य कर्त्तरि तृतीया स्यात् शिवं इच्छेत् शिवीयेत् अत्र क्यन्प्रत्ययः काम्य १ क्यन् २ णिज् ३ किप ४ क्यङ् ५ प्रत्ययान्तानि नामानि नामधातुत्वं यान्ति “अमाव्ययात्क्यन्व" ३।४२३। इतिक्यन्प्रत्ययः "क्यनि" Page #92 -------------------------------------------------------------------------- ________________ ९. श्रीजयानन्दसूरीश्वरविरचितः । भ३।११२॥ इतिसूत्रेण ईकारः सप्तमी यात् “यः सप्तम्याः"४।२।१२२॥ यस्य इ शिवीयेदिति निष्पन्नं इच्छार्थात् सुख्यशब्दात् द्वितीयान्तात्काम्यक्यन्प्रत्ययौ भवतः १२ आचारेऽर्थे उपमानवाचिशब्दात्कर्मणि आधारे च क्यन्प्रत्ययः यथा गुरुराश्रमे सौधीयन्सौधे इव आचरन् प्राझं शिष्यं सुतीयति सुतमिवाचरतीत्यर्थः एवं गुरुः श्रोतृषु धर्म धर्मयांते कथयतीत्यर्थःगुरुशिष्यान्दक्षयति दक्षान्करोतीत्यर्थः अत्र णिज् प्रत्ययः कर्तरि उपमानवाचिशब्दात् आचारेऽर्थे क्रिपक्यौ प्रत्ययौ भवतः यथा मुनिर्मेरवति स्थैर्यान्मेरुरिवाचरति मेरवति अत्र किए मुनिस्तपो भिस्तपनायते तपन इवाचरतीति तपनायते अत्रक्यङ्प्रत्ययः अभूततहावेऽपि क्यङ्प्रत्ययः अभृशोभृशो भवति भृशायते क्यङ्प्रत्ययः दीर्घश्व बां सेवते इत्येवं शीलस्त्वत्सेवी अत्र “अजाते शीले" ५।१॥ १५४ णिन्प्रत्ययः वत्सविनो भावः त्वत्सेविता अब भावे पूर्वोक्तः सल्प्रत्ययःतलोनित्यं स्त्रीत्वं तेनाप्११ Page #93 -------------------------------------------------------------------------- ________________ साधारणजिनस्तवः। त्वत्सेवितां इच्छतु त्वत्सेविताकाम्यतु अत्र पूर्वोक्तः काम्यप्रत्ययः पञ्चमी तुव् त्वत्सेविताकाम्यतु १२ नयतीति नेता तस्य सम्बोधने हे नेतः नी प्रापणे तृप्रत्ययःगुणश्च नेतः नेतृ११सम्बोधने हे नेत॥८॥ क्षेमेषु वृक्षत्सु घनायमानो हितः पितेवामृतवदुरापः। मम प्रभो भव्यतरं स्वभृत्यी. भावं जयानन्दमय प्रदेयाः ॥६॥ क्षेमेषु ७३ वृक्षत्सु ७३ घनाय मानः ११ हितः ११ पिते ११ वा ११ मृतक्हु ११ रापः ११ मम ६१ प्रभो ११ भब्यतरं २१ स्वभृत्यीभावं २१ जयानन्दमय ११ प्रदेयाः ९ हे प्रभो हे जयानन्दमय त्वमिति शेषः स्वभृत्यीभावं प्रदेयाः प्रदेया इति क्रियापदं का कर्त्ता त्वं कं कर्मतापन्नं खभृत्यीभावं कस्य मम किं लक्षणं स्वभृत्यीभावं भव्यतरं त्वं किं क्रियमाणः धनायमानः केषु क्षेमेषु किंकु Page #94 -------------------------------------------------------------------------- ________________ ९२ श्रीजयानन्दसूरीश्वरविरचितः । वत्सु क्षेमेषु वृक्षत्सु किंलक्षणस्त्वं हितः क इव पितेव पुनः किंलक्षणस्त्वं दुरापः किमिव अमृतमिवामृतवत् वृक्षा इवाचरन्तीति वृक्षन्ति अत्र पूर्वोक्त आचारेऽर्थे कि वर्तमाना अन्ति वृक्षन्तीति सिद्ध वृक्षन्ति अत्र पूर्वोक्तः शतप्रत्ययः वृक्षत्१३ नपुंसके वृक्षान्त तेषु वृक्षत्सु घन इवाचरमि घनायसे अत्र पूर्वोक्त आचारेऽर्थे क्यन् घन क्यन वर्तमाना से दीर्घश्च धनायसे इति सिद्धं घनायसे इति धनायमानः अत्र पूर्वोक्त आनश्प्रत्ययः पिता इव पितेव अत्र इवप्रत्ययः उपमानार्थे इववतौ प्रत्ययौ भवतः अमृतमिवामृतवत् अत्र बत्प्रत्ययः दुःखेनाप्यते प्रा. प्यते इति दुरापः अत्र खल् प्रत्ययः दुपूर्वः आ. प्लंट् व्याप्ती खल् दुरापः अतिशयेन भव्यो भव्यत. रस्तं भव्यतरं अत्र तर प्रत्ययः प्रकृष्टेऽर्थे तरतमौ प्रत्ययौ भवतः अस्वभृत्यस्य स्वभृत्यस्य भवनं स्व भृत्यीभावस्तं स्वभृत्यीभावं अत्र विप्रत्ययः भवनं भावः अत्र भावे घञ्प्रत्ययः कृधातुयोगे कर्मणि Page #95 -------------------------------------------------------------------------- ________________ साधारणजिनस्तवः । अभूततदावे च्चिप्रत्ययः यथा विश्वं विमलीकुरुते भूधातुयोगे अस्तिधातुयोगे च कर्तरि अभूततहावे विप्रत्ययः यथा स्वभृत्यीभावः अत्र भूधातुयोगः यस्य पुण्यं तस्य विषमप्यमृतीस्यात् अत्रास्तिधातुयोगः २२।२३ जयश्च आनन्दश्च जयानन्दौ जयानन्दौ प्रकृतौ यस्मिन्स जयानन्दमयस्तस्य सम्बोधनं हे जयानन्दमय अत्र प्रकृते मयट्प्रत्ययः२४ उक्ताः प्रत्ययाःप्रपूर्वक दादाने सप्तमी यास् आकारस्येकारः गुणश्च प्रदेयाः ॥ ९॥ इति श्रीजयानन्दसूरीश्वरविरचितस्य साधारणजिनस्तवस्ययमवचूरिः कृता पण्डितश्रीवानर्षिगणिना। Page #96 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ श्रीपार्श्वचन्द्रविरचितं श्रीमहावीरस्तवनं श्रीभावप्रभसूरिकृतटीकासहितम् । श्रीगुरुभ्यो नमः। स्तुत्यं सारखतं बीजं बीजं सज्ञानसम्पदाम् । नयाम्यहं स्तुतेर्मार्ग मनोमन्दिरदीपकम् ॥१॥ कविना पार्श्वचन्द्रेण वीरस्तोत्रमकारि यत् । सारस्वतस्य संज्ञाधिकारसूत्रपदाङ्कितम् ॥२॥ श्रीपूर्णिमागणाधीशः श्रीभावप्रभसूरिराट् । कुर्वे तस्याधुना टीकामार्थिशिशुयाञया॥३॥ तत्राद्यपद्ये कविर्महावीरजिनमाभिष्टौति । कल्याणमालामणिसन्निधानं श्रीगौतमाद्यैर्मुनिभिः प्रधानम् । यशोगुणैः संप्रति वर्धमानं स्तवीमि भक्त्या जिनवईमानम्॥१॥ कल्याणेति । व्याख्या । अहं पार्श्वचन्द्रनामा Page #97 -------------------------------------------------------------------------- ________________ श्रीमहावीरस्तवनम्। कविः भक्त्या परमसेवया कृत्वा जिनवर्धमानं स्तवीमि श्रुतिगोचरी करोमि इत्यन्वयः किं विशिष्टं जिनवईमानं। कल्याणेति ॥ कल्याणानां मङ्गलानां माला श्रेणिः तस्याः मणयः रत्नानि तेषां सन्निधानं शुभनिधि कोशं एतद्विशेषणेन प्रभोर्मङ्गलमयत्वं प्रोक्तम् । पुनः किं वि. जि. श्रीगौतमायैः मुनिभिः प्रधानं अग्रेसरम्। पुनः किंवि० यशोगुणैः कीत्या औदार्यादिभिः गुणैः सम्प्रति अद्यापि वर्द्धमानं एधमानं एतद्विशेषणहयेन शालिक्षेत्रशालिवृतिशुभभङ्गत्वं प्रोक्तम्॥१॥ अथ द्वितीयपद्ये वीरशासनवर्त्तिजनलक्षणं __दर्शयन्नाह। अइउऋल समानाःसन्ति लोका इदानीमघनसरलभूता वक्रभावप्रभूताः। कथमिह हि लभन्ते प्राभवं शुद्धमार्ग प्रचुरतरविशस्ततेन तुच्छानुचित्रम्॥२॥ अइउ इति । व्याख्या । इदानी सम्प्रतिकाले Page #98 -------------------------------------------------------------------------- ________________ श्रीपार्थचन्द्रकृतंलोकाः जनाः अइउलसमानाः अकारादिभिः पञ्चभिः स्वरैः सदृशाः सन्ति इत्यन्वयः । एतत्सा दृश्यं विशेषणद्वारा स्पष्टयति किं लक्षणाः लोकाः। अघनेति। न धनाः अघनाः स्तोकाः सरलभूताः ऋजुप्रायाः येषु ते अथवा सरलाः ऋजवः भूताः जीवाः येषु ते अकारादिस्वरपञ्चकपक्षे अघनः स्तोक एक एव अकारः सरलप्रायो येषु ते पुनः किं लक्षणाः लोकाः । वक्रेति । वक्रभावाः अनृजुस्वभावाः प्रभूताः बहवो येषु ते अकारादिवरपश्च. कपक्षे एकेन अकारेण वर्जिताः सर्वेऽपि इकारादिचतुःस्वराः वक्रभावाः बहवो येषु ते इति स्थितं हि इति निश्चितम् ॥इह कलिकाले तेन वक्रादिभावेन हेतुना तुच्छाः अगभीराशयाः एवं विधास्ते प्रसिद्धाः प्रचुरतरविशः बहुतराः पुरुषाः प्राभवं शुद्धमार्ग कथं लभन्ते अपि तु न प्राप्नुयुः प्रभोः जिनस्य अयं शुद्धमार्गः प्राभवः तं जैनं शुद्धमार्ग. मिति नु इति वितर्के अत्र किं चित्रं आश्चर्य न किमीत्यर्थः ॥२॥ Page #99 -------------------------------------------------------------------------- ________________ श्रीमहावीरस्तवनम् । अथ सर्वेषां तीर्थङ्कराणां वर्णकद्वारेण श्रद्दधानतया स्तुतिमाह । लक्ष्मवर्णादयोऽनेके वार्द्धिपक्षमिताताम् । ह्रस्वदीर्घप्लुतभेदाः सवर्णा इति मे मतिः ॥ ३ ॥ लक्ष्म इत्यादि । व्याख्या । हे वीर जिन मे मम मतिः ज्ञानं इति प्रकारा वर्त्तते त्वदुक्तमे तत्सर्वमीदृशं श्रद्दधामि इत्यर्थः, इति किं यत् । वार्डिपेति । वार्द्धानां समुद्राणां पक्षः सादृश्यधर्मः 1 तेन मिताः तुलिताः अर्हन्तः गुणवर्णनादीनामपारत्वात् तेषां अर्हतां जिनानां अनेके बहवः लक्ष्मवर्णादयः पदार्थाः सन्ति इत्यन्वयः । कोर्थः लक्ष्माणि चिह्नानि यथा वृषो गजोऽश्वः प्लवग इत्यादीनि ऋषभादिजिनानां क्रमेण ज्ञातव्यानि लक्ष्मीवर्णा इति पाठे लक्ष्मीः सम्पत् यथा वीरस्य चतुर्दशसहस्रमितमुनीनां सम्पत्प्रोक्तेति वर्णाः कायकान्तयः “रक्तौ च पद्मप्रभवासुपूज्यावित्यादि” आदिशब्दोऽत्र ९७ Page #100 -------------------------------------------------------------------------- ________________ श्रीपार्श्वचन्द्रकृतं प्रकारार्थः तेन जिनानां शरीराणि आयूंषि इत्यादयोपि पदार्था गृह्यन्ते । कथंभूताः लक्ष्मवर्णाः । । हस्वेति। हस्वेन लघुना दीर्पण गुरुणा प्लुतेन गुरुतरेण भेदाः भिन्नाः अथवा हखादयो भेदा येषु ते कोऽर्थःप्रथमं लक्ष्मापेक्षया नेमिचिह्नः शङ्खो हस्वः हस्ती प्रौढः वृषभो मध्यम इत्यादिलोकरूढितः। अथ वर्णेन द्वौ जिनौ श्वेतौ द्वौ पीतौ च हस्वशब्देन संगृहीतौ अन्यरक्तादिवर्णेन यो वर्णःश्वेतादिःआच्छाद्यते स वर्णः ह्रस्व इति तात्पर्य इति ह्रस्वाः दीर्घा रक्तौ प्लुताः नीलौ कालौ च एकपदाश्रितौ तरतमयोगेन विवक्षितौ । रक्तौ च०। अथ शरीरेण वीरस्य सप्तहस्ततनुरिति इस्वलघुः द्वाविंशतितीर्थङ्कराणां तर. तमयोगेन शरीरोच्छ्रयः दीर्घः गुरुः इति ऋषभजिनस्य पञ्चशतधनुः शरीरसमुच्छ्रयः प्लुतः गुरुतरः वृहत्तरकाय इत्यर्थः एवं जिनानां आयुःपदे. इस्व १ दीर्घ २ दीर्घतरस्थितयो ज्ञेयाः। पुनः कथं. लक्ष्मव । सवर्णाः वर्णैः कण्ठादिस्थानोद्भवैः १ । Page #101 -------------------------------------------------------------------------- ________________ श्रीमहावीरस्तवनम् । द्रव्यश्रुतलक्षणैः सह वर्त्तन्ते सवर्णाः तीर्थङ्करैरुच्चार्यमाणा देशना तात्कालीनं द्रव्यश्रुतं । एतेन शिरोरन्ध्रोत्थध्वनिमानिनो दिगम्बरस्य मतं निरस्तं अथवा सर्वणाः समानाः द्वौ जिना रक्तकान्त्या सदृशौ द्वौ शुक्लकान्त्या द्वौ कृष्णकान्त्या द्वौ नीलकान्त्या षोडश जिनाः सुवर्णकान्त्या सदृशाः अथवा सवर्णाः तीर्थङ्करत्वेन सर्वेऽपि सदृशा इति ॥ ३ ॥ अथ स्ववक्तृत्वमिषेण वीरशासनं स्तौति । प्राप्तासन्धि बुधा एऐ सन्ध्यचराणि च । व्याकुर्वन्ति यथा भावं तथाऽहं वीर दर्शनात् ॥ ४ ॥ ९९ प्राप्तेति । यथा बुधाः शाब्दिकजनाः एएओऔ इति चत्वार्यक्षराणि सन्ध्यक्षराणि सन्ध्यक्षरसंज्ञकानि व्याकुर्वन्ति कथयन्ति चकारग्रहणादत्र पूर्वकाव्याक्तानपि अइउऋऌ इति पञ्च वर्णान् समानसंज्ञकान् व्याकुर्वन्ति कथं प्राप्तासन्धि प्राप्तः असन्धिः यस्यां Page #102 -------------------------------------------------------------------------- ________________ १.० श्रीपार्षचन्द्रकृतक्रियायांतत इति क्रियाविशेषणं प्रसिद्धमिति हेवीर तथा अहं दर्शनात् तव सम्यक्त्वात् शासनाद्वा भावं षड्द्रव्यात्मकं व्याकुर्वे कथयामि। कथं,प्राप्तः असन्धिःयत्रेति क्रियाविशेषणं कोर्थः यद्यपि धर्मास्तिका. यादिपदार्थाः संमिलिताः सन्ति परं सूक्ष्मदृष्ट्याऽसं. मिलिता एव ते सन्ति लक्षणेन ज्ञायन्ते “चलणसहावो धम्मो” इत्यादि वचनात् अथवा कस्यापि नाहं ममापि के न सन्ति इति भावं स्वाभिप्रायं कथयामि इत्यादि ॥ ४॥ अथ निर्मलमत्याऽऽराधकत्वं दर्शयते । जैना अजैना उभये स्वरायं संगृह्य मह्यांच विराधकाः स्युः। आराधिका वा जिन पर्युपास्ते स्तदन्तरं शुद्धधिया कृतायाः॥५॥ जैना इति। हे वीर जिनो देवो येषां ते जैनाः तद्विपरीताः शैवादयः एते उभये च मह्यां पृथिव्यां विराधकाः त्वधर्मदूषकाः वा अथवा आराधकाः त्वद्धर्मो Page #103 -------------------------------------------------------------------------- ________________ श्रीमहावीरस्तवनम् । १०१ पासकाः स्युः किं कृत्वा स्वरायं संगृह्य स्वराः शब्दाः तेषां आयः लाभः तं गृहीत्वा शब्दज्ञानं ज्ञात्वा इत्यर्थः तेषां मध्ये ये पठितमूर्खाः ते विराधकाः ये च पण्डित पण्डिताःते आराधकाः “शब्दब्रह्मणि निष्णातः परब्रह्माधिगच्छति"इति वचनात् अथवा खरायमितिपदस्य द्वितीयमर्थमाह स्वं निजरायं द्रव्यं संगृह्य तपोयोगशमादिकं धर्मिजनानां द्रव्यं तत् गृहीत्वा, यदुक्तं हैमकोषे “निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोग शमादय" इति। अत्र किं भिन्नत्वं तत आह हे वीर जिनपर्युपास्तेः त्वादृशजिनानां सेवायाः द्रव्यभाव भेदपूजायाः सकाशात् कथंभूतायाः जिनपर्युपास्तेः कृतायाः निर्मापितायाः कया शुद्धधिया निर्मलबुद्ध्या तस्याः सकाशात् हेतोः तदन्तरं तेषां भिन्नत्वं वर्त्तते इति अत्र लुम्पकादिमतमपि निरस्तमिति ॥ ५॥ अथाशीीरेण वीरप्रसादं स्तौति । यावन्तः सन्ति विख्याता अवर्जा नामिनः प्रभो। Page #104 -------------------------------------------------------------------------- ________________ श्रीपार्थचन्द्रकृतंतावन्तः शत्रवो दूरं भूयासुस्त्वत्प्रसादतः॥६॥ यावन्त इति । हे प्रभो हे वीर विख्याताः प्रसिद्धाः यावन्तः यावत् संख्याकाः अवर्जाः अकाररहिताः एवं विधाः नामिनः नामिसंज्ञकाः स्वराः सन्ति सारस्वतमते इउऋल एऐओऔ इति अष्टौ नामिनः सन्तीति तावन्तः तावत्सं. ख्याख्याः शत्रवः ज्ञानावरणीयादिकर्मरूपाः अष्टौ त्वत्प्रसादतः दूरं भूयासुः इति स्पष्टम् ॥ ६ ॥ अथ तपोद्वारेण ऋषभमहावीरौ स्तौति । आद्यन्ताभ्यामर्हतां सु प्रसिद्धौ यौ चक्राते वार्षिकं सामि वर्षम्। विश्वाधीशौ वन्दनीयौ जनानां नित्यं वन्दे तावहं भक्तियुक्तः॥७॥ आद्यन्तेति।अर्हतां जिनानां आद्यन्ताभ्यां कृत्वा सुप्रसिद्धौ विख्यातौ आदिनाथमहावीरौ सौ वार्षिक Page #105 -------------------------------------------------------------------------- ________________ श्रीमहावीरस्तवनम् । वर्षपर्यन्तं तपः सामि वर्ष पाण्मासिकं तपः चक्राते इत्यन्वयः। सामि इति खण्डार्थ अव्ययं ऋषभस्य वार्षिकं वीरस्य पाण्मासिकमिति भक्तियुक्तः अर्हन्तौ जिनौ नित्यं वन्दे इत्यन्वयः। कथं भूतौ तौ विश्वाधीशौ त्रिजगत्स्वामिनौ पुनः कौ एतौ जनानां वन्दनीयौ इति स्पष्टम् ॥ ७ ॥ अथ वीरवाचां वर्णयति। भूयासीहाऽनेहसा व्यञ्जनानि भुक्त्वा भुक्त्वा भूयसा नैव तृप्तिम्। याता जीवास्तत्प्रभो तावकीनां श्रुत्वा वाचं वीतरागा बभूवुः॥८॥ भूयासी इति । इह संसारे जीवाः प्राणिनः भूयसा अनेहसा बहुना कालेन व्यञ्जनानि भुक्त्वा भुक्त्वा तृप्तिं सन्तुष्टिं नैव याताः न प्राप्ता इत्यन्वयः। व्यञ्जनानि इति कोऽर्थः अन्नपूर्वकं व्यञ्जनं भवति अतः अन्नानि शाल्यादीनि व्यञ्जनानि Page #106 -------------------------------------------------------------------------- ________________ १०४ श्रीपार्षचन्द्रकृतं शाकानि भुक्त्वाऽऽयं योज्यम् । अथ द्वितीयो. ऽर्थः । वि इति। विशिष्टाने अञ्जनानि कज्जलानि नेत्रेषु येषां तानि व्यञ्जनानि कलत्राणि विशेषणशक्त्या विशेष्यः प्रतीयते तानि भु. पूर्ववत । अथ तृतीयोऽर्थः । वि इति । विविधानि च तानि अञ्जनानि च पुण्यापुण्यकर्माणि भु. पूर्ववत् । हे प्रभो तत् तस्मात्कारणात् ते प्राणिनः तावकीनां तव इयं तावकीना तां तव वाचं श्रुत्वा वीतरागाः सहजसन्तुष्टाः बभूवुः ॥ ८॥ अथ वीतरागखरूपस्य दौर्लभ्यमाह । स्वामिन् मे सर्वपापानां कार्यायेत्संज्ञया समम्। जायते यदि सामर्थ्य त्वत्स्वरूपं लभेत्तदा ॥६॥ हे वीर हे स्वामिन् मे मम सर्वपापानां सामर्थ्य कर्तृपदं कार्याय कार्य कृत्वा इत्संज्ञया समं तुल्यं यदि जायते सम्पद्यते एति कार्य कृत्वा गच्छतीति इत् तस्य संज्ञा तया समं कार्यादनन्तरं पापानां सामर्थ्य Page #107 -------------------------------------------------------------------------- ________________ श्रीमहावीरस्तवनम् । १०५ विलयं याति अनुबन्धरहितं खरूपहिंसात्वात् इत्यर्थः अथवा ऽत्र प्रतिलोमार्थोऽपि यतः सर्वपापानां कार्याय मे मम सामर्थ्य यदि इत्संज्ञया समं जायेत कार्य कृत्वा सामर्थ्य नष्टं परिणामशीलत्वेन बन्धाभावात् इत्यर्थः तदा मल्लक्षणो जनः त्वत्स्वरूपं लभेदिति स्वामिन् मे इत्यत्र सम्बोधनपदाग्रे आदेशश्चिन्त्यः ॥ ९॥ अथ जिनस्य लोकोत्तरवैद्यत्वं दर्शयति । आमाः शृण्वन्तु मोहाद्या अरेदोन्नामिनो गुणः। यथाऽयुर्वेदिनो जन्तोस्तथा वीरो मयेक्षितः ॥१०॥ __ आमा इति।अरे मोहाद्याः आमाः रोगाः भवन्तः शृण्वन्तु यथा आयुर्वेदिनः वैद्यात् जन्तोर्जीवस्य गुणः नीरोगलक्षणो गुणो भवति, कथं भूतस्य जीवस्य । अरेदो इति।अरे इति पीडया शब्दं ददाति भाषितः सन् प्रत्युत्तरं जल्पति इति अरेदः रोगयुक्तः उत् उर्दू नमति इत्येवं शीलः उन्नामी प्रबलपीडया उच्छल Page #108 -------------------------------------------------------------------------- ________________ १०६ श्रीपार्श्वचन्द्रकृतंच्छरीरः अरेदश्च उन्नामी च अरेदोन्नामी इति कर्मधारयस्तस्य अरेदोन्नामिनः रोगाभिभूतस्य इत्यर्थः । श्लेषार्थत्वात् जन्तोः कस्य इव नामिन इव यथा नामिनः स्थानिका वर्णाः अर् एत् ओत् इति गुणसंज्ञका भवन्ति आमशब्दस्यापि अरे इति विशेषणं यथा किंभूता आमा अरे इति पीडाशब्दं रोगिणां ददति कथापयन्ति ते अरेदाः । उन्नामयन्ति उई उच्छालयन्ति रोगिणः इति उन्नामिनः अरेदाश्च उन्नामिनश्चेति कर्मधारयः अथवा आयुर्वेदिनोऽपि अरेद इति विशेषणम् । यथा अरे इति पीडाशब्दं द्यति खण्डयतीति अरेदः उत्प्राबल्येन नामयति नाशयति रोगान् इति उन्नामी तस्मात् अरेदोन्नामिन इति सिद्धम् । तथा मया भवान् वीर ईक्षितः दृष्टः अगदङ्कारतुल्य इत्यर्थः मम मोहाद्याः कर्मरोगाः नाशं गमिष्यन्ति इति परिमलः ॥१०॥ अथ आशीर्वादद्वारेणोपसंहारमाह। . एवं कल्याणनिर्वाणकल्याणिकतपो Page #109 -------------------------------------------------------------------------- ________________ श्रीमहावीरस्तवनम् । १०७ हनि । संस्तुतः पार्श्वचन्द्रेण श्रीवीरो दिशतु श्रियम् ॥ ११॥ इति श्रीमहावीरस्तवनं सारस्वतसंज्ञाधिकार सूत्रसमस्याऽङ्कितम् ।। एवमिति । श्रीवीरः श्रियं दिशतु किं भूतः वीरः श्रीपार्श्वचन्द्रेण संस्तुतः एवं अमुना प्रकारेणेति कस्मिन् । कल्याणेति । कल्याणं मङ्गलमयं यत् निर्वाणकल्याणिकं तपोहः तस्मिन् दीपालिकादिने इत्यर्थः ॥११॥ इति श्रीपूर्णिमागच्छीयभट्टारकश्री श्रीभावप्रभसूरि विरचिता श्रीमहावीरस्तोत्रटीका संपूर्णा । HIMASTER Page #110 -------------------------------------------------------------------------- ________________ ॐ नमः सर्वज्ञाय। श्रीसुमतिकल्लोलरचितम् श्रीप्रथमजिनस्तवनम् । श्रीआदिनाथं नतनाकिनाथं लक्ष्म्या सनाथं कृतपापमाथम् । संवेगतान्यत्कृतहेमहीर संसारदावानलदाहनीरम् ॥ १॥ निर्वाणयोषिद्घनबद्धरागं सश्रीकभालं गदशाखिनागम् । संस्तौमि संत्रासितकर्मवीरं सम्मोहधूलीहरणे समीरम् ॥ २ ॥ ॥ युग्मम् ॥ विशारदोद्गीतगुणप्रतानमीडे वृषाङ्क विगताभिमानम्। सब्रह्मशस्त्रापहताशरीरं मायारसादारणसारसीरम् ॥३॥ कल्याणकन्दोदयकन्दकल्प सहाञ्छितार्थेकविधानकल्पम् । Page #111 -------------------------------------------------------------------------- ________________ प्रथमाजनस्तवनम् । आदिप्रभुं पुण्यशमाऽऽम्रकीरं नमामि वीरं गिरिसारधीरम् ॥ ४ ॥ चेक्रीय्यतामृषभतीर्थकरेण सातं __ भव्याङ्गिनां जिनवृषाऽनघसत्पुराणम् । निर्धूतहाटकवसूल्लसदङ्गकेन भावावनामसुरदानवमानवेन ॥ ५ ॥ उत्तानताऽनुकृतचारुचतुर्गतीनि दुभीतिनीरनिधिसन्तरणोरुनूनि । भत्त्याऽवनम्रवरवासवनागवृन्द चूलाविलोलकमलावलिमालितानि॥६॥ नैसर्गरोहिततमैः करजैविभान्ति दीर्घप्रभैरतुलसौख्यकराणि यानि। संप्राप्तरूपजनसंस्तुतिसत्पदानि संपूरिताभिनतलोकसमौहितानि ॥७॥ श्रीमारुदेव वृषभाङ्कितपादयुग्मा पादानमुक्तिरमणीकरपीडनस्य । त्वत्कानि सङ्कटघनाऽऽशुगसोदराणि कामं नमामि जिनराजपदानि तानि ॥८॥ Page #112 -------------------------------------------------------------------------- ________________ श्री सुमतिकल्लोलरचितं ॥ त्रिभिः कुलकम् ॥ सत्कारुण्यामृतरससृतं पावनं सद्विकारं हंसानां ते प्रवचनमिदं मानसाभं जिनेश । सेवाम्यद्धा सकमलमलं पापतापापहे ११० बोधागाधं सुपदपदवीनीरपूराभिरामम् ॥९॥ तावच्छीतः शिशिरकिरणो गाङ्गमम्भश्च हृद्यं पीयूषं वाऽविरलसुखदं तापहृत्तावदेव । लब्धं नार्हत्प्रवचनसरोऽन्तः पवित्रं विपत्रं जीवाहिंसाऽविरललहरीसङ्गमागाह देहम् ॥१०॥ लक्ष्मीस्थानं शमदमकरं नीतिसत्सिन्धुपूरं सम्यग्बोधाप्रतिमतरणीलब्धसत्तत्त्वरत्नम् । श्रीस्याद्वादाविरलधवलोल्लासिडिण्डीरपिण्डं चूलावेलं गुरुगममणीसङ्कुलं दूरपारम् ॥११॥ मन्दैर्ज्ञेयं न वरमनिभं साधुनिर्य्यामगम्यं कल्याणाभ प्रथमजिनराट् नाभिराजाङ्गजात । सूक्ष्मार्थानप्रकटनरवे ते नताशेषलेख सारं वीरागमजलनिधिं सादरं साधु सेवे ॥१२॥ Page #113 -------------------------------------------------------------------------- ________________ प्रथमजिनस्तवनम् । दन्तश्रेणीप्रभाऽधःकृतकुमुदहसतक्षीरसच्चन्द्रचन्द्रः स श्रीमानादिनाथः प्रभवतु भविनां भावुकाय प्रकामम्। यस्य व्याख्यानकाले किरति सुरगणः पुष्पवृष्टीविचित्रा आमूलालोलधूलीबहुलपरिमलालीढलोलालिमालाः१३ प्रोद्यद्गम्भीरकायप्रतिजितसलिलाऽम्भोधरे हारहीर तारस्फाराजरोचिस्सुयशसिभवति प्रोल्लसच्चक्षुषी मे। दृष्टौनेता विधौ शं वृषभजिनपते गन्धिमालोलभृङ्गज्झङ्काराऽऽरावसारामलदलकमलागारभूमीनिवासे १४ संसारापारपाथोनिधिपुलिनमहो प्राप्तुकामा यदि स्थ श्रीमतीर्थादिकर्तुः क्रमणकजयुगं तस्य संसेवतोच्चैः। गात्रे यस्य प्रवेशं वरगुणततयश्चक्रिरे विश्वपूज्ये च्छायासम्भारसारे वरकमलकरे तारहाराभिरामे ॥१५॥ श्रीमतीर्थाधिनाथाननवरकमलावासिनि प्राज्ञचेतोऽभीष्टे डिण्डीरपिण्डोज्ज्वलतनुलतिके देवदेवीस्तुतांहे। नम्रीभूनेन्द्रमाले विहितसुखशते पूर्णचन्द्रैकवक्रे वाणीसन्दोहदेहे भवविरहवरं देहि मे देवि सारम्॥१६॥ इत्थङ्कारमहं वृहत्खरतरातिखच्छगच्छाधिप Page #114 -------------------------------------------------------------------------- ________________ श्रीपार्श्वर्जिनस्तवनम् । श्रमिच्छ्रीजिनचन्द्रसूरिचरणाम्भोजन्मरोलम्बवत् । प्रद्युम्नेषुपयोधिकाय पृथिवीसंवत्सरस्यास्पदे तुष्टावेष्टसमृद्धये सुमतियुक्कल्लोल आदिप्रभुम् ॥१७॥ इति श्रीप्रथमजिनस्तवनं समाप्तम् । ११२ ॥ अर्हम् ॥ श्रीपार्श्वजिनस्तवनम् । श्रेयोदधानं कमलानिधानं पार्श्व स्तुवेऽहं प्रमदाभिधानम् । श्वःश्रेयसश्रीसहकारकीरं संसारदावानलदाहनीरम् ॥ १ ॥ निर्धूतदोषं कृतधर्म्मपोषं प्रोन्मुक्तयोषं दितदुष्टदोषमा सत्केवलश्रीरमणैकवीरं सम्मोहधूली हरणे समीरम्॥२॥ अनिन्द्यविद्यावदनं वदान्यं पार्श्व स्तवीमि त्रिदशेन मान्यम् । कर्मक्षयादाप्तभवाब्धि तीरं Page #115 -------------------------------------------------------------------------- ________________ श्रीपाजिनस्तवनम् । ११३ मायारसादारणसारसीरम् ॥ ३ ॥ अमन्दमन्दारसुदामदिव्य प्रसूनसारैर्महितं हि पार्श्वम् । स्फूजधशस्तजितहारहीर ___ नमामि वीरं गिरिसारधीरम् ॥ ४ ॥ निश्शेषलेख वररेख नरेषु कामं दानं ददान महिमाद्भुतभागधेय । श्रीपार्श्वदेव जय जन्मजराऽपहेन भावावनाम सुरदानवमानवेन ॥५॥ निम्सङरङ्गगरिमादिगुणप्रधानि निच्छन्नछद्मतिमिराणि मनोज्ञदानि । भक्तिप्रणम्रनरनायकनागलोक चूलाविलोलकमलावलिमालितानि॥६॥ कल्याणकारणतराणि गतापदानि सम्पत्प्रदानदितदुर्गतिमण्डलानि । निस्सीमभीमभवभीतिविभेदकानि संपूरिताभिनतलोकसमीहितानि ॥७॥ Page #116 -------------------------------------------------------------------------- ________________ श्रीपार्वजिनस्तवनम् । वामेयगेयगुणमानविगानमुक्त पद्मावतीधरणराजवरप्रयुक्त । त्वज्जन्मसंयमसुखानि शिवङ्कराणि __ कामं नमामि जिनराजपदानि तानि॥८॥ तापोच्छेदं दिशदनुदिनं प्राणिनां भावुकानां सिद्धं यस्यामृतरसमयं तुण्डकुण्डात्प्रवृत्तम्। भात्यहस्ते सुवचनसरः पापपङ्कापहारि बोधागाधं सुपदपदवीनीरपूराभिराम्म् ॥९॥ रेवा तावद्विमलसलिला नर्मदा शर्मदापि काशीः काशीकलुषहरिणी तुङ्गभद्रा विभद्रा । तुङ्गा गङ्गा जिनमतसरोनाप्तमन्तःपवित्रं जीवाहिंसाविरललहरीसंगमागाहदेहम् ॥१०॥ भो भो भव्या यदि शिवपुरे मोक्षलक्ष्मीबुभुक्षा सिद्धान्ताब्धि समुपसरत प्रोल्लसन्न्यायचक्रम। निर्णिक्लान्तःपरमगिरिमागारमानन्दहेतुं चूलावेलं गुरुगममणीसङ्कुलं दूरपारम् ॥११॥ मोहद्रोहक्षितितनुरुहोन्मूलने हस्तिहस्तं Page #117 -------------------------------------------------------------------------- ________________ श्रीपाजिनस्तवनम् । ११५ प्रोद्भिन्दन्तं परमतरजःपुञ्जमुद्भूतशस्तम् । संसेव्यं श्रीजिनजनगणैः कामदं संश्रितानां सारं वीरागमजलनिधि सादरं साधु सेवे॥१२॥ भक्तिप्रहावनम्रामरवरनिकरैर्निर्जरौनर्मिता यत् पादाधस्ताविहारावभरमवनिबुध्य प्रबुद्धस्य नेतुः। उत्तप्ता स्वर्णवर्णा नवनवकमला श्रेण्यनुश्रेण्यबाभाआमूलालोलधूलीबहुलपरिमलालीढलोलालिमाला१३ भावोद्भूतप्रमोदप्रणतविनतिभिर्भूरि भक्तिं विधत्ते यः पार्श्वेश क्रमाजे तव विपुलरमाः प्राज्यराजैव साईम्। तस्य स्थैर्य भजेत प्रगतचपलता सन्ततं षट्पदाली झङ्कारारावसारामलदलकमलागारभूमीनिवासे ॥१४॥ यस्मिन् गर्भावतीर्णे भगवति धनदः प्रत्नरत्नैः सुवर्णैः कल्याणैर्दिव्यवणैरनणुमणिगणैर्गन्धवासैर्ववर्ष । शुश्रुषां कर्तुकामस्त्रिदशवरगिरा सुन्दरे मन्दिरे वै छायासम्भारसारे वरकमलकरे तारहाराभिरामे॥१५॥ पङ्कोत्पन्नं रजस्त्रिप्रबलतरजडासङ्गमुच्चैर्विहायाहहकाने निवासं निरुपमपरमे या व्यधाहारतित्वम्। Page #118 -------------------------------------------------------------------------- ________________ कविबिल्हण कृतः श्रेयालक्ष्मीविलासे भगवति वरदे चन्द्रचन्द्रप्रभाये वाणी सन्दोहदेहे भवविरहवरं देहि मे देवि सारम् ॥ १६॥ इत्थं श्रीपार्श्वदेवस्त्रिभुवनविजयी जैनभद्रांहिसेवः श्रीसिद्धान्तप्रभोद्यद्विनयनतमुनिजैन चन्द्रो वितन्द्रः ॥ श्रीमच्छ्रीमण्डपप्रागुदयगिरिशिरोमण्डनं जीवराजी - राजीवेोल्लासहेतुः प्रदिशतु कुशलं श्रेयसे श्रीविलासम् इति श्रीपार्श्वजिनस्तवनम् । ११६ अर्हम् श्रीबिल्हणकविकृतः श्रीपार्श्वजिनस्तवः । जयति भुजगराजप्राज्यफुल्लुत्फणालीमणिकिरणकदम्बाडम्बरी पार्श्वनाथः । भुवनभवनगर्भादभ्रमोहान्धकारच्छिदुरतरुणदीपोद्दीपने कौतुकी वः ॥ १ । दिशतु सुकृतलोकप्रस्तुतश्लाघ्यपूजाविलसितगुरुधूमस्तोमसङ्गादिवाङ्गम् । Page #119 -------------------------------------------------------------------------- ________________ श्रीपार्वजिनस्तवः। दधदभिनवमेघश्यामलं मङ्गलं वस्त्रिजगदभयदीक्षादीक्षितः पार्श्वनाथः ॥ २ ॥ कमपि कमठदैत्याकालकालाम्बुवाहव्यतिकरबधिरोऽपि श्रीविशेषं दधानः । मदनमदविकाराम्भोरुहम्लानहेतुं जनयति स जिनेन्दुयुष्मदाशाप्रकाशम् ॥ ३ ॥ जयति भवदवाग्निव्याप्तिनिर्दह्यमानत्रिभुवन वनरेखादेशकः पार्श्वनाथः । घनममिव देहं पन्नगश्यामचूडामणिविरचितचञ्चूनाकिचापं दधानः॥ ४ ॥ कलितगुरुलशोभा भोगभर्तुः शरीरे निजकरकमलाग्रे भृङ्गिमालायमाना । दिशि दिशि मृगनाभीपत्रभङ्गाभिरामा ददतु शुभगतिं वः पार्श्वनाथस्य भासः ॥ ५ ॥ तरलतरललामानङ्गहाराङ्गहारामरसमरसरामापाङ्गसारङ्गसारा । नवननवनवोक्तिीप्रसिद्धं प्रसिद्ध Page #120 -------------------------------------------------------------------------- ________________ 118 कविबिल्हणकृतः नमति न मतिमांस्तं कोञ्जनाभञ्जनाभम् // कुवलयवननीलश्वारु बिभ्रत्स्वभावं नयघन घनशैलं पौरुषाभ्रष्टभावं / वितरतु मम तानि श्रीजिनेन्दुः सुखानि श्रुतचतुरमतानि श्रीजिनेन्दुः सुखानि // 7 फणपतिफणरत्नोद्योतविद्योतितश्री दतु शुभगतिं वः पार्श्वनाथस्य मूर्तिः / रणरणकविशेषक्षोमवन्मोक्षलक्ष्मीसरभसपरिरंभात्कुंकुमेनारुणेव // 8 // इति जिनपतेः स्तोत्रं चित्रं महाकविबिल्ह ग्रथितमखिलत्रैलोक्यैकप्रकाशनभास्वतः / पठति सततं यः श्रद्धावान्न मज्जति सम्म भवजलनिधौ स प्रद्युम्नास्थितिं चिरमानित इति जैनस्तोत्रसंग्रहस्य प्रथमो भागः।