SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ २२. श्री सोमसुन्दर सूरिविरचिता । 1 स्मृतमात्रा अपि नन्ति विघ्नं सङ्घजनस्व ये नामवर्णा न के जापरतास्मांस्तान् स्तुवन्ति ते ॥ ३॥ पद्मसञ्चारसंरब्धास्माभिर्मोहतमोहरैः । रविणेव त्वया पादैः को देशोऽद्योति न प्रभो ॥४॥ निर्मितिमुदितास्मभ्यं तवसमवसृतौ प्रदीप्रवप्रेभ्यः । द्वादशयोजन्या अपि धन्याः के के न गच्छन्ति॥५॥ पुरः स्थितास्मत्पर्षद्भ्यो वर्षति त्वयि गीसुधाम् । सबाह्याभ्यन्तरस्तापो दवीयान् जायते प्रभो ॥६॥ चतुर्णामाननानां ते मोहितास्माकमीक्षणे । तृप्तिर्न जायते देव लावण्यामृतवारिधे ||७|| प्रातिहार्येषु निर्माणसुहितास्मासु ते प्रभो । स्पष्टं दृष्टेषु सदृष्टिः को न चित्रीयतेतराम् ॥८॥ अस्मत्पदबहुव्रीहिबहुत्वरचनाञ्चितः । इत्यमर्त्यकृतो वीरस्तवः स्ताद्वास्तवश्रिये ॥ ९ ॥ इत्यस्मद्बहुव्रीहिबहुवचनमयः सुरासुर विज्ञप्तिरूपः स्तवोनवमः । एवं च समाप्ताऽस्मच्छब्द त्रिषष्टिरूपचार्वी नवस्तवी ।
SR No.006111
Book TitleJain Stotra Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy