________________
श्री सोमसुन्दरसूरिविरचिता ।
॥ अर्हम् ॥ श्रीसोमसुन्दरसूरिविरचिता अथास्मच्छब्दरूपाङ्किता नवस्तवी जिनं निरस्तवृजिनं भाजनं गुणसम्पदाम् । कृपापण्यापणं नाथं किञ्चिद्विज्ञपयाम्यहम् ॥१॥ विडम्बिताऽहं मोहस्त्वां बाधते देव न क्वचित् । स्वदासीकृतमां कामं निकामं त्वं निहंस्यहो ॥२॥ सेवकीभूतरोराभमयेभ्योपासितत्वया । न द्रुतव्यं यतः सन्तो राजरङ्कसदृग्दृशः ॥ ३ ॥ सर्पादिरूपतानीतमह्यं रोषाय न त्वया । ददेऽवकाशलेशोऽपि युक्तं सेवकवत्सलः ॥ ४ ॥ नारकीभूतमत्पापात् पाहि स्वं सेवकं जनम् । अनुगामिममार्हस्ते भाविनी विहृतिः कदा ॥ ५ ॥ अनुकम्प्याश्रितमयि त्वयि नाथे प्रसन्नता भूयादवश्यं देव स्यां फलेग्रहिजनुर्यतः ॥ ६ ॥ अस्मत्पदान्यपदयोरिति जिननूतस्त्वमेकवचनेन | निजपदपङ्कजसेवाहेवाकितयां कृतार्थय माम् ॥७॥ इति अस्मद्बहुव्रीह्येकवचनमयोगगर्भः स्तवः प्रथमः ।
१२